वर्णयामि विमलत्वमम्भसः किं त्वदीयकरवालवर्तिनः।
एति यत्प्रभवमैन्दवीं द्युतिं विश्वशुक्तिपुटमौक्तिकं यशः॥ 1 ॥
खड्गवारि भवतः किमुच्यते लोलशैवलमिवारिकुन्तलैः।
यत्र राजति निवेशितं त्वया राजहंसनिवहोपमं यशः॥ 2 ॥
न पक्षवृत्तिर्न सपक्षवृत्तिर्विपक्षवृत्तिः करवालधूमः।
तथापि ते भूमिपते जगत्यां प्रतापवह्निप्रमितिं करोति॥ 3 ॥
रिपुश्रियः किं कचसञ्चयोऽयं प्रतापवह्नेः किमु धूमराजिः।
विलोक्य यत्पाणिगतं कृपाणमेवं जनस्तर्कयते रणेषु॥ 4 ॥
सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा।
तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते॥ 5 ॥
दर्पान्धगन्धगजकुम्भकपाटकूटसंक्रान्तनिघ्नघनशोणितशोणशोचिः।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः॥ 6 ॥
धाराधरस्त्वदसिरेष नरेन्द्र चित्रं वर्षन्ति वैरिवनिताजनलोचनानि।
कोशेन सन्ततमसङ्गतिराहवेऽस्य दारिद्र्यमभ्युदयति प्रतिपार्थिवानाम्॥ 7 ॥
कुरङ्गाक्ष्यामेणीं सुभगविपरीते रतिविधावधिस्कन्धं दृष्ट्वा किमपि निपतन्तीमरिभटः।
अधिग्रीवं युष्मत्प्रचलकरवालव्यतिकरं स्मरन्नेव स्तब्धो विरमति परीरम्भरभसात्॥ 8 ॥
कृपाणीयं काली तव रिपुयशःक्षीरमनिशं पिबन्ती व्यालीव प्रथयति तथा दुर्विषहताम्।
यथा दूरादस्याः स्फुरणमपि संभाव्य सहसा विमुह्यन्ति प्रौढप्रहरणभृतोऽपि प्रतिभटाः॥ 9 ॥
राजन्वीर विपक्षलक्षसुवधूवैधव्यदीक्षागुरुः सङ्ग्रामाध्वरकर्ममर्मकुशलः प्रत्यर्थिपृथ्वीभुजाम्।
प्राणानर्घ्यमणेर्मयापहरणं नाकारि किंतु प्रभो भ्रूभङ्गेन तवेति दिव्यमपिबत् कोशं स खड्गः परः॥ 10 ॥
अस्यासिर्भुजगः स्वकोशविवराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मील1दराललीलवलनस्तोषां2 भिये भूभुजाम्।
सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धौषधीवीरुधः 3पर्वास्ये विनिवेश्य 4जाङ्गुलिकता कैर्नाम नालम्बिता॥ 11 ॥
भूभृन्मौलितटीषु दर्शितसमारम्भोऽयमम्भोधरस्त्वत्खड्गः प्रतिपक्षपङ्कपटलं प्रक्षालयन्धारया।
युद्धक्रुद्धविरुद्धसिन्धुरगलद्गण्डस्थलप्रस्खलन्मुक्ताभिः करकाभिराशु समरे क्षोणीतले वर्षति॥ 12 ॥
आश्चर्यं समराम्बरे रिपुयशश्चन्द्रप्रतापार्कयोः सर्वग्रासमयं सहैव तनुते त्वत्खड्गराहुः कथम्।
किं चान्यत्परलोकनिर्भय भवांस्तस्मिन्प्रहत्युत्सवे गृह्णाति त्यजतामकम्पहृदयो राज्ञां समस्ता भुवः॥ 13 ॥
देव त्वत्करपद्मकोशविगलन्मत्तालिमालामसिं वैधव्योद्भटधूमकेतुमपरे त्वद्वैरिवामभ्रुवाम्।
वेणीं कालवधोः प्रतापहुतभुग्धूमं च केचिज्जगुर्मन्ये कालभुजङ्गलोलरसना हालाहलव्यापृता॥ 14 ॥
सिक्तायां वीरकण्ठस्थलबहलगलद्रक्तधाराम्बुवर्षैर्माद्यन्मातङ्गकुम्भोद्दलनविलुलितैर्मौक्तिकैः पुष्पितायाम्।
सङ्ग्रामोद्यानभूमौ तुरगखुरपुटोत्खातकृष्टस्थलायां जातं ते खड्गवल्ल्याः फलमतुलरसास्वादहृद्यं जयश्रीः॥ 15 ॥
सर्पीवैषा कृपाणी तव भुजभुजगासङ्गतः सङ्गरादौ सद्यःकृत्तारिखण्डच्युतरुधिररजोयोगमभ्यावहन्ती।
दृप्यद्दानाम्बुपूरोत्कटकरिघटनागण्डशैलेषु लीना सूते सद्यः किलाण्डान्यतिविमलगलद्भूरिमुक्ताच्छलेन॥ 16 ॥
लेखन्ती व्योमगर्भे दिशि विदिशि मुहुर्निष्पतन्ती हरन्ती शश्वत्प्रौढान्धकारानखिलजनमनोविस्मयं वर्धयन्ती।
यस्य स्फारासिधारा तडिदिव तरला वैरिकण्ठोपकण्ठं प्राप्ता सद्यो नटीव प्रणयकुतुकिनी मोहमाविष्करोति॥ 17 ॥
चूडापीडाभिरामः स्फुरदुरुमणिभिर्मुद्रिकाकल्पभूतैर्दोर्दण्डः कुण्डलीन्द्रस्तव जयति जगन्मण्डलाधार एषः।
क्षीरभ्रान्त्यारिकीर्तिं सदपि समुदितां पातुकामः प्रसर्पज्जिह्वामुच्चैः किमेनां चपलयति चमत्कारिणीं खड्गधाराम्॥ 18 ॥