मेखलीयति मेदिन्याः ककुभः कङ्कणीयति।
मण्डलीस्तुरगः कुर्वञ्जगतः कुण्डलीयति॥ 1 ॥
धावन्तमनुधावन्ति हरिणं तव वाजिनः।
नाभिनिर्मुक्तकस्तूरीलुब्धा इव समीरणाः॥ 2 ॥
अनूनवेगादयमद्वितीयश्छायातुरङ्गादपि लज्जमानः।
खुरोद्धतैर्वीर तुरङ्गमस्ते रजोभिरह्नां पतिमावृणोति॥ 3 ॥
प्रयातुमस्माकमिदं कियत्पदं धरा तदम्भोधिरपि स्थलायताम्।
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुद्धतं रजः॥ 4 ॥
इयती जगती कियती भविता नमिता न न यामिति याति हयः।
वियदङ्गणरिङ्गणरङ्गणभूर्विमृशन्निव नर्तनमातनुते॥ 5 ॥
किमङ्गारवद्गां खुरैः स्पर्शयन्तः कुरङ्गा इवाङ्गानि सङ्कोचयन्तः।
अटन्तो नटन्तो भटं तोषयन्तस्तुरङ्गाः सुरङ्गाः पुरं गायन्ति॥ 6 ॥
अलक्षितगतागतैः कुलवधूकटाक्षैरिव क्षणानुनयशीतलैः प्रमयकेलिकोपैरिव।
सुवृत्तमसृणोन्नतैर्मृगदृशामुरोजैरिव त्वदीयतुरगैरिदं धरणिचक्रमाक्रम्यते॥ 7 ॥
निर्मासं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे।
पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः॥ 8 ॥
धूलीभिर्दिव1मन्धयन्बधिरयन्नाशाः2 खुराणां 3रवैर्वातं संयति खञ्जयञ्जवजयैः स्तोतॄन्गुणैर्मूकयन्।
4धर्माराधनसन्नियुक्तजगता राज्ञामुनाधिष्ठितः 5सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरङ्गोऽपि 6गाम्॥ 9 ॥
वातं स्तावरयन्नभः पुटकयन्स्रोतस्वतीं सूत्रयन्सिन्धुं पल्वलयन्वनं विटपयन्भूमण्डलं लोष्टयन्।
शैलं सर्षपयन्दिशं चपलयन्ल्लोकत्रयं क्रोडयन्हेलारब्धरयो हयस्तव कथंकारं गिरां गोचरः॥ 10 ॥
तप्तां गामिव संस्पृशन्ति गतिभिर्द्यामुत्पतन्तो मुहुरन्तेवासिन आजवश्रुतगतीवाध्यापयन्तोऽनिलात्।
देव स्वीयखुराग्रदीर्णवसुधाधूलीवितानं बलारात्यश्वो नटनं पठिष्यति हि वस्तन्वन्ति वाहास्तवा॥ 11 ॥