०६ गजप्रशंसा

नीता कुम्भस्थलकठिनता कामिनीनामुरोजैः स्तेयं धृत्वा धृतमणिगणैः कञ्चुकैरावृतैव।
इत्याख्यातुं नरपतिगृहद्वारि कुम्भेन्द्रडिम्भाः शुण्डादण्डैर्वपुषि बहुलां धूलिमुद्धूलयन्ति॥ 1 ॥
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके व्यो1मान्तःस्पृशि सिन्धुरेऽस्य समरारम्भोद्धु2रे धावति।
जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसन्ध्याधियेवास्तं यान्ति समस्तबाहु3जभुजातेजः4सहस्रांशवः॥ 2 ॥

एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः।
दन्तद्वन्द्वजला5नुबिम्बनचतुर्दन्तः कराम्भो6वमिव्याजाद7भ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः॥ 3 ॥

स्वीयोद्दानप्रगन्धप्रकुपितहृदयोत्तारितोद्दण्डशुण्डैरुद्गच्छत्पुच्छगुच्छप्रतिकरटिधिया सिन्धुरैर्धावमानैः।
तत्पादन्यासनम्रीभवदचलभरोद्भ्रान्तिधारावघूर्णत्पारावाराम्बुपूर्णा धरणिरतितरां शङ्कमाना चकम्पे॥ 4 ॥


  1. अभ्रंकषे. ↩︎

  2. अनर्गल इत्यर्थः. ↩︎

  3. क्षत्रिय. ↩︎

  4. सूर्यः. ↩︎

  5. प्रतिबिम्बेन. ↩︎

  6. करशीकर इत्यर्थः. ↩︎

  7. ऐरावतेन. ↩︎