५८ सिन्धुराधीश्वरः

अशर्मदहनज्वलत्कटुकटाक्षरूक्षेक्षणक्षणक्षपितशात्रवे जयति सिन्धुराधीश्वरे।
वयं न बहु मन्महे निजभुजानमद्गाण्डिवच्युतास्त्रशिखिताण्डवज्वलितखाण्डवं पाण्डवम्॥ 192 ॥