५५ वीरसिंहः

वीरसिंहारिनारीणामञ्जनाक्ताश्रुबिन्दवः।
उरोजे पतिता रेजुः सरोजे मधुपा इव॥ 187 ॥
यस्योच्छिन्ना न वेदा मनसि सदयता दूषणानामभावो दक्षो दूरेऽणुदृष्ट्या जहति कठिनतां दानशक्तिर्गरिष्ठा।
आधत्ते यश्च कुन्दं शिरसि दरवतां यश्च दूरीकृतार्तिः स श्रीमान्वीरसिंह त्वमिव तव रिपुस्तत्र 1दम्भं प्रतीमः॥ 188 ॥

वैकुण्ठाभप्रकामः कमलयुतशिराः कुञ्जराकृष्टदृष्टिः कोदण्डोदारनामाप्यमितपरिजनो विश्वविख्यातकीर्तिः।
सुन्दर्यासक्तचित्तः समरणविजयी कङ्कणाहारयुक्तो वीर श्रीवीरसिंह त्वमिव तव रिपुः किन्तु 2मुक्तादिवर्णः॥ 189 ॥


  1. दकारे भकारम्. ↩︎

  2. इह पद्ये शत्रुपक्ष आद्याक्षरत्यागः. ↩︎