५४ वीरवरः

कामो वामदृशां निधिर्नयजुषां कालानलो विद्विषां स्वःशाखी विदुषां गुरुर्गुणवतां पार्थो धनुर्धारिणाम्।
लीलावासगृहं कलाकुलजुषां कर्णः सुवर्णार्थिनां श्रीमान्वीरवरः क्षितीश्वरवरो वर्वर्ति सर्वोपरि॥ 185 ॥
जम्बुद्वीपगृहप्रकाशनकरी स्नेहक्षमाधायिनी नीत्योद्गीर्णमषीततिः खलजनश्रेणीपतङ्गान्तकृत्।
गाजीन्द्राकबरक्षितीश्वरमनश्चिन्तान्धकारापहा यस्य क्षोणिपतेरराजदखिलं दीपोपमा लेखनी॥ 186 ॥