५३ वीरभानः

लङ्काधामनि वीरभाननृपतेः प्रेक्ष्य प्रतापोदयं प्रत्यागारमधीरनीरजदृशो भूयो हुताशभ्रमात्।
क्षुभ्यद्वाणि विधूतपाणि विगलन्मुक्तामणि प्रस्खलद्बाष्पश्रेणि विलोलवेणि दयितं कण्ठस्थले बिभ्रति॥ 183 ॥
भेरीझाङ्कृतिभिस्तुरङ्गनिनदैः कुम्भीन्द्रकोलाहलैः प्रस्थाने तव वीरभान दलितं ब्रह्माण्डभाण्डोदरम्।
आधाय ज्वलति प्रतापदहने रङ्कैः पुनर्वेधसा तारानायकतारकासुरसरिद्व्याजादिवायोजितम्॥ 184 ॥