४९ रूपनारायणः

अये यदि समीहसे परपुरावरोधं सदा समाकलय मद्वचः किमपि रूपनारायण।
प्रतीपनृपनागरीनयननीरकल्लोलिनीसमुत्तरणचातुरीं तुरगराजमध्यापय॥ 176 ॥