४८ रुद्रः

1कतिपयदिवसैः क्षयं प्रायात्क2नकगिरिः कृतवासरा3वसानः।
इति मुदमुपयाति चक्रवाकी वितरण4शालिनी वीररुद्रदेवे॥ 171 ॥

कवीन्द्राणामासन्प्रथमतरमेवाङ्गणभुवश्चलद्भृङ्गासङ्गाकुलकरिमदामोदमधुराः।
अमी पश्चात्तेषामुपरि पतिता रुद्रनृपतेः कटाक्षाः क्षीरोदप्रसरदुरुवीचीसहचराः॥ 172 ॥
भूयो भूयस्त्वदरिदलनाद्वासनाशासकाशाद्यातैर्वातैरहह तरणेरुल्बणेषु व्रणेषु।
सायं सायं लवणसलिलस्पर्शबाधासमाधावस्यालस्याकलितवपुषो रुद्र कः स्यादुपायः॥ 173 ॥
चन्द्रोऽनेन कलङ्कितो बत वने रामोऽमुना वञ्चितः किं चानेन कुलाङ्गनानयनयोर्लावण्यलक्ष्मीर्हृता।
सस्यानामभिलाषकस्य भवतः श्रीरुद्रचन्द्र प्रभो तन्मन्ये हरिणस्य हन्त हननायाखेटकोपक्रमः॥ 174 ॥
रुद्रस्यापि दिगम्बरस्य कृपया स्वर्गेऽमराः कोटिशो याचन्ते न कदापि काञ्चनमहो शश्वत्सदा भुञ्जते।
एकोऽहं वसुधातले न च पुनः स्नेहस्य पात्रं सदा याचिष्ये कथमन्यभूपतिमतः श्रीरुद्रभूमीपते॥ 175 ॥


  1. अल्पैः. ↩︎

  2. मेरुः. ↩︎

  3. नाशः. ↩︎

  4. दानम्. ↩︎