क्षुभ्यत्प्रत्यर्थिपृथ्वीपतिहृदयसरस्तोषशोषं दधाने त्वद्दोष्णां सुप्रतापे तपति बहुगुणे रामजाम क्षितीन्द्र। सूर्यो मित्त्रत्वमायात्समजनि दहनः कृष्णवर्त्मा निमज्जन्पारावाराम्बुपूरे निवसति वडवावह्निरन्यत्किमुद्याम्॥ 169 ॥