४५ रामचन्द्रः

एकादशरुद्राणामेका गौरीत्यनौचितीं मत्वा।
राघव नृप तव यशसा दशापि गौरीकृता हरितः॥ 116 ॥
त्वद्वैरिभवनलिखितां सीतामाहर्तुमुद्धृत्य।
कपिकौणपमण्डलयोः शिवशिव भूयो भवन्ति सम्रम्भाः॥ 117 ॥
शरासने सायकमादधाने श्रीरामभद्रक्षितिपालमौलौ।
सुराङ्गनानां वरलालसानां वामानि नेत्राणि परिस्फुरन्ति॥ 118 ॥
गायन्तु किन्नरगणाः सह किन्नरीभिः श्रीरामचन्द्र शिखरेषु हिमाचलस्य।
शेषेन्दुकुन्ददलबालमृणालनालनीहारहारहरहाससितं यशस्ते॥ 119 ॥
1नालीकभङ्गकृदतीव 2नदीनबन्धुर्नक्षत्रपो3 नव4सुधाविभवैकहेतुः।
राजा किमिन्दुरपि 5नार्यभिमानहारी राजा परं जयति राघवसार्वभौमः॥ 120 ॥

नृपतिमुकुटरत्न त्वत्प्रयाणप्रशस्तिं प्लवगपदनमद्भूनिर्भराक्रान्तभोगः6
लिखति दशनटङ्कैरुन्नमद्भिर्नमद्भिर्जरठकमठभर्तुः 7कर्परे 8सर्पराजः॥ 121 ॥

रघुतिलक नृपाल त्वद्द्विषत्क्षोणिपालप्रतिलसदपकीर्तिश्यामले विश्वजाले।
भगवति भजमाने कृष्णतां शूलपाणौ किमुदधिगिरिपुत्र्यौ चक्रतुस्तन्न विद्मः॥ 122 ॥
अधाक्षीन्नो लङ्कामयमयमुदन्वन्तमतरद्विशल्यं सौमित्त्रेरयमुपनिनायौषिधिवनम्।
इति स्मारं स्मारं त्वदरिनगरीभित्तिलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः॥ 123 ॥
यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं गुणैरैतावद्भिर्जगति पुनरन्यो जयति कः।
स्वमात्मानं तत्तद्गुणगरिमगम्भीरमधुरस्फुरद्वाग्ब्रह्माणः कथमुपकरिष्यन्ति कवयः॥ 124 ॥
झगिति जगतीमागच्छन्त्याः पितामहविष्टपान्महति पथि यो देव्या वाचः श्रमः समजायत।
अथ कथमसौ मुञ्चेदेनं न चेदवगाहते रघुपतिगुणग्रामश्लाघासुधामयदीर्घिकाम्॥ 125 ॥
लज्जा कीर्तिर्जनकतनया शैवकोदण्डभङ्गे तिस्रः कन्या निरुपमतया भेजिरे रामचन्द्रम्।
अन्त्यापाणिग्रहणसमये ज्यायसी जातकोपा भूपैः सार्धं खलु गतवती मध्यमाथो दिगन्तान्॥ 126 ॥
गेहे गेहे सुभग भवतो रामभद्र क्षितीश त्वामालिख्य स्वमपि सविधे सस्पृहं भावयन्त्यः।
तस्मिन्नाकस्मिकमुपगते वल्लभे भीतिभाजः पौष्पं चापं तव करतले वेपमाना लिखन्ति॥ 127 ॥
अहो रघुशिरोमणेरभिनवप्रतापावलिप्रचण्डकिरणप्रथाप्रसरसाध्वसादाश्वयम्।
सुराधिपतिरम्बुदान्कमलमिन्दिरा सेवते हिमांशुरपि चन्द्रमाः सततमम्बुधौ मज्जति॥ 128 ॥
कीर्तिः श्रीरघुवंशरत्न भवतः स्वर्वाहिनीगाहिनी दिक्पालानखिलान्परीत्य दधती पाण्योः प्रतापानलम्।
सप्ताम्भोनिधिमण्डलान्यधिगता त्वय्येक1पत्नीव्रतख्यात्यै विष्णुपदं स्पृशत्यनुदिनं शेषस्य शीर्षाण्यपि॥ 129 ॥

कीर्तौ व्याप्तिमवेत्य वैरिवनिताबाष्पोदधेः साधनादुत्तुङ्गे पृथिवीभुजां परिवृढे शश्वद्विपक्षे स्थितम्।
सर्वक्ष्मापतिमौलिमण्डनमणे श्रीरामचन्द्र प्रभो चित्रं पश्य तव प्रतापदहनं जानन्ति सत्तार्किकाः॥ 130 ॥
श्रीराम त्वदनेकचित्रचरितप्रोद्दा2मकीर्तिश्रुतिप्रागल्भ्या3दवधूतमूर्ध्नि सकलत्रैलोक्यलोकेऽपि यत्।
अश्रोत्राः फणिनस्तदेतदुचितं नो चेदहिस्वामिना 4व्याधूते शिरसि क्व भूः क्व गिरयः क्वामी दिशामीश्वराः॥ 131 ॥

भ्रान्त्वा भूवलयं दशास्यदमन त्वत्कीर्तिहंसी दिवं याता ब्रह्ममराल5सङ्गमवशात्सा तत्र गर्भिण्यभूत्।
पश्य स्वर्गतरङ्गिणी6परिसरे 7कुन्दावदातं तया मुक्तं भाति विशालमण्डकमिदं शीतद्युतेर्मण्डलम्॥ 132 ॥

ये मज्जन्ति निमज्जयन्ति च परांस्ते प्रस्तरा दुस्तरे वार्धौ वीर तरन्ति वानरभटान्सन्तारयन्तेऽपि च।
नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः श्रीमद्दाशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते॥ 133 ॥
कीर्तिः श्रीरघुवंशदीप भवतो दूती मुरारेः प्रियां8 यस्मात्तुभ्यमदात्तदादि9 गिरिशोभूद1र्धनारीश्वरः।
ब्रह्माभूच्च2तुराननः सुरपतिश्चक्षुः3सहस्रं दधौ स्कन्दो 4मन्दमतिश्चकार न करस्पर्शं स्त्रियाः 5शङ्कितः॥ 134 ॥

एकं 6काञ्चनभूधरं सुवलयं वासः 7सुधावारिधिं 8तारं 9तारकराजमण्डलमिदं सम्प्राप्य सत्पुण्डलम्।
10दूरस्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्री 11मानग्रहिलेव 12 याचतितरां श्रीराम कीर्तिस्तव॥ 135 ॥

सङ्ग्रामो दिवसायते13 तव भुजः 14पूर्वाचलेन्द्रायते त्वत्क्रोधोऽप्य15रुणायते तव लसच्छौर्यं 16प्रकाशायते।
त्वद्वैरी तिमिरायते17 तदबलाहृत्सूर्य18कान्तायते त्वत्कीर्तिः19कमलायते रघुपते त्वत्खड्ग20चण्डद्युतेः॥ 136 ॥

अस्माकं 1परमन्दिरस्य चरितं यद्यप्यवाच्यं भवेत्स्वामी त्वं 2कथयामि तेन भवतः किञ्चित् प्रियादूषणम्।
श्रीमद्राम नृप त्वया रणमुखे पाणिग्रहः सादरं यस्याः सासिलता परस्य हृदये दृष्टा 3लुठन्ती मया॥ 137 ॥

सत्यं सा 4बहुरूपिणी समभवत्सि5द्धिस्वरूपा 6भवत्कीर्तिः श्रीरघुवंशरत्न विमला जागर्ति विश्वोदरे।
क्ष्मापारे रिपुमन्दिरे नृपपुरे रत्नाकरे निर्झरे कान्तारे गिरिशेखरे विषधरागारे तथैवाम्बरे॥ 138 ॥

गर्वावेशविशालरावणभुजप्रोद्य7त्प्रतापानलज्वाला8जालनवा9म्बुदः कथमसौ सीतापतिर्वर्ण्यते।
यस्यारातिनृपाः कृपाणजलधौ मग्नाः पुरो गौरवादत्युच्चैर्गतयो 10भवन्ति च पुनर्भित्त्वा रवेर्मण्डलम्॥ 139 ॥

भीमं यज्जलधिं जवेन हनुमानुल्लङ्घ्यलङ्कां गतो यच्चाशोकमहावनं दलितवानक्षं च यत्क्षुण्ण11वान्।
सीतोपायनमौलिरत्नसहितः प्राप्तश्च यस्त्वामसौ तत्राप्येष भवत्प्रतापमहिमा निर्यन्त्रणः12 कारणम्॥ 140 ॥

धत्ते नायक राम तावकयशो 13रामे शशाङ्के 14मरुद्वाहे 15स्वर्गगजे हरे फणिपतौ वाण्यां वृषे भे16 रुचिम्।
अन्येषां तु 17तदम्बरे 18तदहिते तद्व्यञ्जने तन्मदे तत्कण्ठे च तदीक्षणे तदलके 19तत्प्रोथके 20तत्पथे॥ 141 ॥

श्रीमन्नायक रामभद्र भवतः पाणौ कृपाणं रणे दृष्ट्वा यद्यदभूदरिक्षितिभुजां तत्तत्समाकर्णय।
अङ्गे वेपथुरन्धता नयनयोर्वक्त्रे 21तृणं भूयसी भीतिश्चेतसि वाचि संस्तुतिकथा 22हस्तद्वयं मस्तके॥ 142 ॥

आकृष्टे कवचादहीन्द्ररसनाकल्पे23 कृपाणे त्वया श्रीमन्नायक रामचन्द्र भवतः प्रत्यर्थिनां वेश्मसु।
1गाहन्ते सहसा लुलायचम2रीशा3र्दूलशा4खाचरीयक्षोरक्षशृगाल5कोलश6लभृद्भ7ल्लूकभिल्लादयः॥ 143 ॥

रेफ 8व्यञ्जनराजता तव तवाकार प्रकर्षः स्वरेष्वन्त्यस्यापि मकार विस्फुरति ते 9वर्गाक्षरेष्वादिता।
यैः सम्भूय निगद्यते रघुकुलालङ्कारहीराङ्कुरो देवः क्षोणिसुतापयोधरतटीशृङ्गारहारो हरिः॥ 144 ॥

स्वेदाम्भःकणमण्डलानि खुरली10खेलोद्भवान्यन्वहं तद्बाह्वो 11रसयन्महाबल इति ख्यातिं गतो 12मारुतः।
तं चास्वाद्य मुहुः सहस्रफणिताशाली बलीया13नहिर्धत्ते कोमलकोमलैरपि फणैः श्रीरामचन्द्र स्थिराम्14॥ 145 ॥

श्रीरामे मृगयां गतेऽपि धनुषा बाणे समारोपितेऽप्याकर्णान्तगतेऽथ मुष्टिगलितेऽप्येणाङ्घ्रिलग्नेऽपि च।
न त्रस्तं न पलायितं न चकितं नोत्कम्पितं न द्रुतं मृग्या मद्वशगं करोति दयितं कामोऽयमित्याशया॥ 146 ॥
गाम्भीर्येण महोदयेन शरणत्राणेन मर्यादया सर्वाशापरिपूरणेन महता स्थैर्येण धैर्येण च।
राम त्वामनुकर्तुमिच्छतितरां वारांनिधिः किं त्वसौ पीतो वानरलङ्घितः प्रमथितो बद्धः श्रिया त्याजितः॥ 147 ॥
देव श्रीनृप रामचन्द्र भवतो दिग्जैत्रयात्रोत्सवे धावद्वीरतुरङ्गचञ्चलखुरक्षुण्णक्षमामण्डलात्।
वातोद्भूतरजोमिलत्सुरनदीसञ्जातपङ्कस्थलीदूर्वाचुम्बनचञ्चवो हरिहयास्तेनैव 15वृद्धं दिनैः॥ 148 ॥

साधर्म्येण कथं 16गृणन्तु यमुनावेणीं कृपाणीं च ते श्रीमद्राम चमूवरेण्य भवतो वाग्ब्रह्मसिद्धान्तिनः।
नाकृष्टां हलिना न कालियवशात्क्रूरां न धाराजडां न 17च्छायाजनितां न 18वक्त्रबहुलां न 19प्राप्तभङ्गां क्वचित्॥ 149 ॥

आबाल्यं पतिरेष मे जगदिदं जानाति तत्त्वं पुनर्भूर्मध्ये समुपागता तदपि ते विख्यायते यः पतिः।
वृद्धा नास्य गृहे वसामि सुचिरं तिष्ठन्स्थिरात्रेति तन्मात्सर्यादिव राम भूप भवतः कीर्तिर्दिगन्तं गता॥ 150 ॥
का शृङ्गारकथा कुतूहलकथा गीतादिकानां कथा माद्यद्दन्तिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा।
एकैवास्ति परं पलायनकथा त्वद्वैरिभूमीभुजां देव श्रीरघुनाथ नाथ जगति स्वप्नेऽपि नान्या कथा॥ 151 ॥
त्वं चेत्कल्पतरुर्वयं सुमनसस्त्वं चेत्सुधात्मा कलाः सम्पूर्णा वयमीश्वरो यदि भवान्स्वच्छा विभूतिर्वयम्।
सम्पूर्णः कमलाकरो यदि भवाञ्श्रीराजहंसा वयं स्वामिंस्त्वं शृणु रामचन्द्र नृपते किं किं न तेऽङ्गं वयम्॥ 152 ॥
बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि।
आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्युपेक्षावधि॥ 153 ॥
त्वत्कीर्तिर्धनिका धनं मधुरिमा तस्याधमर्णा सुधा शीतांशुः प्रतिभूस्तदर्थनकृते सैषा दिवं धावति।
सा लीना तव वाचि राम नृपते चन्द्रो निरस्तध्वनिः शङ्कातङ्कभृदंशुकावृततनुर्नक्तं समुत्सर्पति॥ 154 ॥
अस्त्रामास तृणं प्रियाद्रुहि तृणामास स्मरारेर्धनुर्दारामास मुनेः शिलापि नृवरामास स्वयं पादुका।
कुल्यामास महार्णवोऽपि कपयो योधां बभूवुस्तदा पौलस्त्यो मशकांबभूव भगवंस्त्वं मानुषामासिथाः॥ 155 ॥
उप्ता कीर्तिलता गुणैस्तव विभो सिक्ता च दानोदकैर्मेरुस्तम्भमवाप्य दिक्षु वितता प्राप्ता नभोमण्डलम्।
धूपैस्त्वत्प्रतिपक्षलक्षवनितानिःश्वासजैर्धूपिता ऋक्षैः कोरकितेन्दुना कुसुमिता श्रीरामचन्द्र प्रभो॥ 156 ॥
यद्बीजानि च मौक्तिकानि करिणां दन्ता यदीयाङ्कुरा यत्पत्त्राणि शरद्धना हिमगिरिर्यस्याः प्रकाण्डो महान्।
यत्पुष्पाणिच तारका हिमरुचिर्यस्याः फलं सुन्दरं सेयं राजति रामकीर्तिलतिका ब्रह्माण्डभाण्डोदरे॥ 157 ॥
नो ग्लानिं भजते दिने न च सुराधीशैः समापीयते नो राहुर्ग्रसते न वा मृगदृशां वक्त्रैः पराजीयते।
नो मेघैश्च पिधीयते न च कुहूकालेऽपि संक्षीयते श्रीरामक्षितिपाल भाति जगति त्वत्कीर्तिचन्द्रः सदा॥ 158 ॥
आकृष्टे युधि कार्मुके रघुपते वामोऽब्रवीद्दक्षिणं पुण्ये कर्मणि भोजने च भवतः प्रागल्भ्यमस्मिन्न किम्।
वामान्यः पुनरब्रवीन्न मम भीः पृच्छाम्यहं स्वामिनं छिन्द्यां रावणवक्त्रपङ्क्तिमथवेत्येकैकमादिश्यताम्॥ 159 ॥
अम्भः 1कर्दमतामुपैति सहसा पङ्कः पुनः पांसुतां रेणुर्वारणकर्णतालयुगलैर्दिक्प्रान्तनीहारताम्।
निम्नत्वं 1गिरयः समं विषमतां शून्यं 2जनाकीर्णतां निर्याते त्वयि रामचन्द्र नृपते त्यक्तस्वरूपं जगत्॥ 160 ॥

पाताले 3मञ्जु मूलं फणिपतिरभितः कीर्तिवल्लेस्तवैषा 4स्थूणा कैलासशैलो गगनमिह महामण्डपः 5पाण्डुदण्डाः।
दन्तीन्द्रस्थूलदन्ता 6दलततिरतुला शारदाभ्राणि सारास्ताराः पुष्पाणि चन्द्रः फलमिदममलं राम राजेन्द्र मन्ये॥ 161 ॥

कूर्मः 7पादोऽस्य 8यष्टिर्भुजगपतिरसौ 9भाजनं भूतधात्री तैलापूराः समुद्राः कनकगिरिरयं 10वृत्तवर्तिप्ररोहः।
ज्योतिश्चण्डाम्शुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति रघुपते त्वत्प्रतापप्रदीपः॥ 162 ॥

शक्तिः सर्वातिरिक्ता विलसति न च ते पीलुपाकप्रियत्वं वाक्यं धर्मे प्रमाणं स्वयमपि चरितं नान्य ईशोऽस्ति कश्चित्।
नो वायं भेद आस्ते क्वचिदपि विषये नैव मिथ्याप्रवादश्चित्रं पाण्डित्यमेतद्वहसि रघुपते गौतमाद्यैरतर्क्यम्॥ 163 ॥
पूर्वत्रासिद्धबुद्धिर्द्विगुणितकरणेऽप्यस्ति तेऽल्पप्रयत्नो यः कश्चिन्नैव लोपं भजति बहुतरापेक्षिणोऽप्यन्तरङ्गाः।
नो वा बाधः परेण क्वचिदपि विषये नापवादो गुणानां वृद्धीनां वर्णमात्रं सदनमिति नवो राम साधुत्वमार्गः॥ 164 ॥
प्रौढिं 11धत्तां कलासु 12प्रथयतु कुमुदं सत्पथे 13सञ्चरेद्वा नेत्रानन्दं 14विधत्तां 15भवतु च विबुधानस्तु16 राजा तथापि।
दोषान्वेषी17 कलङ्गी18 19सहजजडतनुः 1सक्षयः 2पक्षपाती 3नक्षत्रेशः कथं वा कलयतु तुलनां रामचन्द्रेण चन्द्रः॥ 165 ॥

(11. (चन्द्रपक्षे) तथा कलास्वंशेषु प्रौढिं प्रागल्भ्यं धत्तां बिभर्तु; (रामपक्षे) यथा कलासु विज्ञानेषु प्रौढिं धत्ते.)
(12. (चन्द्रपक्षे) तथा कुमुदं प्रकाशं प्रथयतु विस्तारयतु; (रामपक्षे) यथा कौ पृथिव्यां मुदं हर्षं जनयति.)
(13. (चन्द्रपक्षे) तथा सतां देवानां पन्थाः सत्पथ आकाशस्तस्मिन्सञ्चरेत्; (रामपक्षे) तथा सतां देवानां पन्थाः सत्पथ आकाशस्तस्मिन्सञ्चरेत्; (रामपक्षे) यथा सत्पथे सतां योग्ये मार्गे सञ्चरति.)
(14. (चन्द्रपक्षे) तथा नेत्राणां लोचनानामानन्दं विधत्तां कुरुताम्; (रामपक्षे) यथा नेतॄणां रक्षकाणामानन्दं जनयति.)
(15. (चन्द्रपक्षे) तथा विबुधान्देवानवतु रक्षतु; (रामपक्षे) यथा विबुधान्पण्डितानवति.)
(16. (चन्द्रपक्षे) तथा च राजा शोभितोऽस्तु; (रामपक्षे) तथा नाम्ना क्रियया गुणैश्च राजा.)
(17. (चन्द्रपक्षे) दोषा रात्रिस्तामन्वेषते तच्छीलः; (रामपक्षे) न दोषमन्वेषते किंतु गुणान्.)
(18. (चन्द्रपक्षे) कलङ्कवान्; (रामपक्षे) कलङ्की न.)
(19. (चन्द्रपक्षे) सहजतो जलमयी तनुर्यस्य सः; (रामपक्षे) निसर्गतो मूढस्वभावो न.)
(1. (चन्द्रपक्षे) कृष्णपक्ष एकैककलाक्षयात्सक्षः; (रामपक्षे) न कदाचन तस्य क्षयः, किंतु सर्वदा वृद्धिरेव.)
(2. (चन्द्रपक्षे) पक्षेऽतीतेऽमायां पतनशीलः; (रामपक्षे) पक्षपाती न.)
(3. (चन्द्रपक्षे) नक्षत्राणां तारकाणामीशः स्वामी; (रामपक्षे) न च न क्षत्रेशः; किन्तु सर्वेषां क्षत्राणामीशः.)
माद्यद्वै4तण्डगण्डच्युतमदमदिरासञ्चरच्चञ्च5ञ्चरीकीझांकारानन्दगीताः कविभवनभुवस्ताः पुरस्ताद्भवन्ति।
पश्चादञ्चन्ति येषामुपरि करुणया रामभूपालमौलेरुद्वेल्लद्दुग्धवीचीबहलधवलिमाबद्धकक्षाः कटाक्षाः॥ 166 ॥

बीजं चिन्तामणिश्चेत्कनकगिरितटीजन्मभूमिर्भवेच्चेत्सेक्त्री चेत्कामधेनुर्विधिकुलमखिलं मूलसंस्कारभृच्चेत्।
वित्तेशो रक्षिता चेत्सरसिजनिलया मञ्जरी चेत्तदा स्याद्राम क्ष्मापालमौले तव भुजलतया कल्पवृक्षः सदृक्षः॥ 167 ॥
मन्ये मृत्योः सपत्नी जगति सुविदिता कालकूटस्य कन्या धात्री कर्कोटकस्य स्मरणभयकरी किं च वज्रस्य माता।
कल्पान्ताग्नेः पुरन्ध्री प्रभवति भगिनी भीषणा कालरात्रेर्दूतीयं ते कृपाणी सुरपुरसुदृशां रामचन्द्र क्षितीश॥ 168 ॥


  1. अलीकभङ्गकृत्; [पक्षे] कमलविकासकृत्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अनाथबन्धुःl [पक्षे] नदीनः समुद्रस्तद्बन्धुः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. क्षत्रियश्रेष्ठः; [पक्षे] नक्षत्रनायकः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. वसुधैश्वर्यस्य कारणम्; [पक्षे] नवीनायाः सुधाया यो विभवस्तस्य मुख्यकारणम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. शत्रुमानहारी; [पक्षे] नारीणां मानहारकः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. शरीरम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. कपाले. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. शेषराजः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. तदाप्रभृति. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. दिक्पर्यन्तं प्राप्तापि. ↩︎ ↩︎ ↩︎ ↩︎

  11. स्त्रिया यो मानः स्वपतिसौभाग्यसुरूपत्वादिगर्वस्तेन ग्रहिला ग्रहगृहीता. ↩︎ ↩︎ ↩︎ ↩︎

  12. अन्यापि या मानिनी मानग्रहगृहीता भवेत्सा विदेशस्थापि पतिं प्रभविष्णुं तत्तद्वस्तुं याचते यद्भूमण्डलेऽपि नाप्यते तथेयं कीर्तिरप्यपरं भूषणं याचत इत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  13. यथा दिवसे सूर्यः प्रभाप्रगल्भतामुपैति तथा त्वत्खड्गभानुरपि सङ्ग्रामे स्वस्पष्टतां प्रकटयतीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  14. यथा भानुरुदयाचले भासते तथा चासौ त्वद्भुजे भासत इत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  15. यथारुणो रक्तवर्णोऽग्रे प्रादुर्भवति तथा क्रोधोऽपि रक्तमुखनेत्रादिना प्रादुर्भवतीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  16. यथा सूर्यस्योदये सर्वत्र प्रकाशः प्रसरति तथा त्वत्खड्गभानोरुदये तव शौर्यं स्पष्टमुदेतीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  17. यथा सूर्योदये तमांसि नाशमायान्ति तथा त्वत्खड्गभानूदये तव वैरिणो दिगन्तगामिनो भवन्तीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  18. यथा भानोरुदये सूर्यकान्तमणिषु महांस्तापः सञ्जायते तथा चैतदुदये सति वैरिस्त्रीहृदयेषु महान्पश्चात्तापो भवतीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  19. यथा भानोरुदये कमलानि विकस्वराणि भवन्ति तथा त्वत्खड्गभानोरुदये त्वत्कीर्तिर्विकासमुपैतीत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  20. तिग्मांशुत्वात् खड्गस्य सर्वथा सूर्योपमत्वमस्तीति शेषः. ↩︎ ↩︎

  21. येषां मुखे तृणं दृश्यते ते शूरा अपि गोवदवध्या इति भावः. ↩︎

  22. शिरसि करद्वयं त्वत्प्रणामार्थं कृतवन्त इत्यर्थः. ↩︎

  23. सदृशे. ↩︎