मूर्ध्ना कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या वचसि न च पटुश्चित्रपाकानुभावी। कोषापेक्षी परस्मादुचितबहुकथः सर्वदा पूर्णलोक इत्थं राजेन्द्रसिंह त्वमिव तव रिपुस्तत्र कम्पं प्रतीमः॥ 115 ॥