नित्यं वृद्धिमुपैषि सङ्कलयसे सर्वाः कलाः सर्वदा सानन्दं कुमुदाकरं वितनुषे नास्ते कलङ्कस्तव। सर्वाशाः परिपूरयन्समुदयं धत्सेऽनिशं सर्वतो न श्रीराजबहादुरेन्द्र नृपते चन्द्राधिकस्त्वं कथम्॥ 114 ॥