३९ मालवाखण्डलः

पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः।
भग्नपत्यर्थिवंशोल्बणविजयकरिस्नानदानाम्बुपट्टः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य॥ 110 ॥