काञ्चीं काञ्ची न धत्ते कलयति न दृशा केलितल्पं कलिङ्गी सिन्दूरं दूर एव क्षिपति करतलन्यस्तमान्ध्री पुरन्ध्री। सौराष्ट्री मार्ष्टि भूयः सपदि नयनयो रक्तता रक्तिमानं कार्णाटी कर्णिकायां मलिनयति मनो मानसिंहप्रयाणे॥ 109 ॥