३७ माधवः

सत्यासक्तमना गुणाकरलताकीर्णो न दीनाश्रयोऽरिष्टद्वंसपराजयश्च सुमनोवृन्दैरलं वन्दितः।
नानास्थानकलाप्रधानमहिमा नित्यं सदानन्दकः श्रीमान्माधव एव माधवसमः क्षोणीतले राजते॥ 108 ॥