३६ माणिकः

यशःशशाङ्काभ्युदये प्रवृद्धो द्विषद्वधूनेत्रजलाम्बुराशिः।
नष्टं हि दारिद्र्यतमो बुधानां तव क्षितौ माणिक भूमिपाल॥ 103 ॥
सदग्रहारैर्भवता प्रदत्तैर्मदङ्गना कण्ठतटाग्रहारैः।
श्रीमाणिकक्षोणिपते प्रतुष्टा यथा यशो गायति तद्विधेहि॥ 104 ॥
सञ्जाते द्रवरूपतां हि रजताद्रौ स्वर्णशैले द्रुतं भूमीपालललाम माणिकविभो प्रौढैः प्रतापानलैः।
योगेऽभूदनयोः सुपाण्डुररुचिः सा तेऽरिकान्ताजनैर्नीता स्वीयकपोलयोश्च विरहव्याजेन गोपायते॥ 105 ॥
भोगासक्तैकचेता भयवसशुखकृद्भीतिहा स्वाश्रितानां भोगान्भव्याय यच्छञ्जगति भवनतः साधु भण्डारतिश्च।
भूपानां ग्लानिकर्ता भटनगजयभध्वंसदेहो हि भल्लाकीर्णः श्रीमाणिकेन्द्रस्त्वमिव तव रिपुस्तत्र दम्भं प्रतीमः॥ 106 ॥
सङ्ग्रामक्षोणिदृप्यच्चपलरिपुचमूसिन्धुकीलालमालां पीत्वा कालः कृपाणोऽम्बुद उपसमरं गर्जते वीरघोषैः।
वर्षत्युद्दामगौरं दिशि दिशि तव भोः कीर्तिवारीभकुम्भप्रोद्यन्मुक्ताहिमाश्मच्छुरितमरिततेर्माणिकक्षोणिपाल॥ 107 ॥