३५ मल्लशाहः

मृगः प्रमीललोचनः पिकः कृतोक्तिमोचनः श्रितानतिः कृताततिर्मरालिकास्खलद्गतिः।
निरीक्ष्यते लसन्मते सुमल्लशाह भूपते तवारिकामिनी वृथाद्भुतं हुताटवी यथा॥ 100 ॥
पलायिता तवारिवामलोचना यदा यदा पुलिन्दनायकैः सुलिप्तकालकूटसायकैः।
विहाय नासिकासु मौक्तिकं स्रजं च मौक्तिकीं विलुण्ठिताः पुमर्थपञ्चमेह मल्लभूपते॥ 101 ॥
आदायादाय मुक्तास्तदनु शिखिधियादाय माणिक्यवर्गं धूमभ्रातिं वहन्त्यः स्ववदनकमलामोदलुब्धालिवृन्दे।
पक्तुं भिल्ल्यः प्रवृत्ताः सरभसमसकृद्यद्द्विषत्पत्तनेषु ब्रूमः किं कीर्तिपूरं धवलितवसुधं मल्लशाहस्य तस्य॥ 102 ॥