३३ भोजः

त्वच्चित्ते भोज निर्व्याजं द्वयं तृणकणायते।
क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः॥ 74 ॥
भोज त्वद्दानपाथोधौ दरिद्रस्य निमज्जतः।
न कोऽपि हि भुजालम्बं दत्ते मेऽभयदायकम्॥ 75 ॥
निजानपि गजान्भोजं ददानं प्रेक्ष्य पार्वती।
गजेन्द्रवदनं पुत्रं रक्षत्यथ पुनः पुनः॥ 76 ॥
प्रतापभीत्या भोजस्य तपनो मित्त्रतामगात्।
और्वो वाडवतां धत्ते तडित्क्षणिकतां श्रिता॥ 77 ॥
भोज त्वत्कीर्तिकान्ताया नभोभालस्थिलं महत्।
कस्तूरीतिलकं राजन्गुणागारं विराजते॥ 78 ॥
अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम्।
शत्रूणां शृङ्खलैर्लोहं ताम्रं शासनपत्त्रकैः॥ 79 ॥
धारेश त्वत्प्रतापेन पराभूतस्त्विषां पतिः1
सुवर्णपात्रव्याजेन देव त्वामेव सेवते॥ 80 ॥

त्वद्यशोजलधौ भोज निमज्जनभयादिव।
सूर्येन्दुबिम्बमिषतो धत्ते कुम्भद्वयं नभः॥ 81 ॥
शुक्तिद्वयपुटे भोज यशोब्धौ तव रोदसी।
मन्ये तदुद्भवं मुक्ताफलं शीतांशुमण्डलम्॥ 82 ॥
अद्य धारा सदाधारा सदालम्बा सरस्वती।
पण्डिता मण्डिताः सर्वे भोजराजे भुवं गते॥ 83 ॥
श्रीभोज साम्यं तव कल्पवृक्षः सदा वदान्योऽपि कथं प्रयाति।
यतो भवद्दानसुपुष्टविप्रहव्येन कुक्षिंभरिरस्य भर्ता1॥ 84 ॥

भोजप्रतापं तु विधाय धात्रा शेषैर्निरस्तैः परमाणुभिः किम्।
हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरुदरे कृशानुः॥ 85 ॥
भोजप्रतापाग्निरपूर्व एष जागर्ति भूभृत्कटकस्थलीषु।
यस्मिन्प्रविष्टे रिपुपार्थिवानां तृणानि रोहन्ति गृहाङ्गणेषु॥ 86 ॥
यथा यथा भोजयशो विवर्धते सितां त्रिलोकीमिव कर्तुमुद्यतम्।
तथा तथा मे हृदयं विदूयते प्रियालकालीधवलत्वशङ्कया॥ 87 ॥
पन्थाः संहर दीर्घतां त्यज निजं तेजः कठोरं रवे श्रीमन्विन्ध्यगिरे प्रसीद सदयं सद्यः समीपे मव।
इत्थं दूरपलायनश्रमवतीं दृष्ट्वा निजप्रेयसीं श्रीमद्भोज तव द्विषः प्रतिदिनं जल्पन्ति मूर्च्छन्ति च॥ 88 ॥
धाराधीश धरामहेन्द्रगणनाकौतूहली2 यामयं वेधास्त्वद्गणने चकार 3खटिकाखण्डेन रेखां दिवि।
सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधराभावात्तु त्यजति स्म सोऽयमवनीपृष्ठे तुषाराचलः॥ 89 ॥

राजन्मुञ्जकुलप्रदीप सकलक्ष्मापालचूडामणे युक्तं संचरणं तवाद्भुतमणिच्छत्त्रेण रात्रावपि।
मा भूत्त्वद्वदनावलोकनवशाद्व्रीडाभिनम्रः शशी मा भूच्चेयमरुन्धती भगवती दुःशीलताभाजनम्॥ 90 ॥
छन्नं सैन्यरजोभरेण भवतः श्रीभोजदेव क्षमारक्षादक्षिण दक्षिणक्षितिपतिः प्रेक्ष्यन्तरिक्षं क्षणात्।
निःशङ्को निरपत्रपो निरनुगो निर्बान्धवो निःसुहृन्निःस्त्रीको निरपत्यको निरनुजो निर्हाटको निर्गतः॥ 91 ॥
मुक्ताः 4केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः5 प्राप्ताः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः।
दूराद्दाडिमबीजशङ्कितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम्॥ 92 ॥

विद्वद्वृन्दगुणानुरूपविभवत्यागैककल्पद्रुमे स्वर्गे वासिनि भोजराजनृपतौ विद्यानवद्यात्मनि।
दातारो भुवि नैव भूमिवलये मा सन्तु किं तावता ज्ञातारोऽपि न सन्ति हन्त नितरामेतावता दूयते॥ 93 ॥
स्पृष्टाकृष्टासिपिष्टोत्कटकरटिघटाकुम्भकूटावटान्तर्निष्ठ्यूतासृक्तटिन्यास्तटनिकटरटत्कोणपादाट्टहासः।
भोजेन्द्र त्वद्रणक्ष्माक्षतभटविकटोरःस्थलत्रोटकुष्यद्गृध्रौघत्रोटिकोटिप्रकटचटचटाशब्दरौद्रोऽभवद्द्राक्॥ 94 ॥
भो भोः श्रीभोजदेवं श्रयति विनयतः शत्रवः क्षत्रवर्गाः प्राणत्राणाय नौका न भवति भवतां क्वाप्यरण्यं शरण्यम्।
मत्वा मातङ्गकुम्भद्वितयमिति पुरा क्रूरवृत्तिर्भिनत्ति क्रुद्धः शुद्धान्तकान्ताकुचकलशयुगं रंहसा सिंहशावः॥ 95 ॥
नीरक्षीरे गृहीत्वा सकलखगपतीन्याति 1नालैकजन्मा चक्रं धृत्वा कराब्जे सकलजलनिधींश्चक्रपाणिर्मुकुन्दः।
सर्वानुद्धृत्य शैलान्दहति पशुपतिर्भालनेत्रेण पश्यन्व्याप्ता त्वत्कीर्तिकान्ता सकलवसुमती भोजराज क्षितीन्द्र॥ 96 ॥

स्वर्गाद्गोपाल कुत्र व्रजसि सुरमुने भूतले कामधेनोर्वत्सस्यानेतुकामस्तृणचयमधुना मुग्ध दुग्धं न तस्याः।
श्रुत्वा श्रीभोजराजप्रचुरवितरणं व्रीडशुष्कस्तनी सा व्यर्थो हि स्यात्प्रयासस्तदपि तदरिभिश्चर्वितं सर्वमुर्व्याम्॥ 97 ॥
कूर्मः पातालगङ्गापयसि विहरतां तत्तटीरूढमुस्तामादत्तामादिपोत्री शिथिलयतु फणामण्डलं कुण्डलीन्द्रः।
दिङ्मातङ्गा मृणालीकवलनकलनां कुर्वतां पर्वतेन्द्राः सर्वे स्वैरं चरन्तु त्वयि वहति विभो भोज देवीं धरित्रीम्॥ 98 ॥


  1. सूर्यः. ↩︎ ↩︎ ↩︎

  2. कुतूहलविशिष्टः. ↩︎

  3. कठिनीशकलेन. ↩︎

  4. सुरतक्रीडायां विच्छिन्नसूत्राद्धाराद्गलिताः. ↩︎

  5. अपसारिताः. ↩︎