धनानि विद्वत्कविमण्डलीषु पञ्चेषुबाणानपि कामिनीषु। वर्षन्ति वज्राण्यरिधोरणीषु श्रीभैरवक्षोणिमणेः कटाक्षाः॥ 73 ॥