३० भावसिंहः

यस्याग्निः कोपपुञ्जे वसति खुरपुटे वाजिनां गन्धवाहो लक्ष्मीः सस्नेहदृष्टौ कमठकुलमणेर्वाचि वाचामधीशा।
रौक्षे कौक्षेयकाग्रे क्षपितरिपुगणे कोपनोऽसौ कृतान्तः कस्तं श्रीभावसिंहं प्रबलमखभुजामाश्रयं नाश्रयेत॥ 71 ॥