२३ पाण्ड्यः

तवाङ्गणे सुन्दर वीर पाण्ड्य मतंगजाः शृङ्खलिनो विभान्ति।
आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः॥ 62 ॥
विन्ध्याद्रिः करसाधनी निरुपमो रत्नाकरः कोशभृत्सौगन्धी मलयाचलः परिचराः सर्वेऽपि विद्याधराः।
विश्वाशापरिपूरणं वितरणं देशोऽप्यहो दक्षिणः पाण्ड्याखण्डल वीर पाण्ड्य भवतः किं किं न लोकोत्तरम्॥ 63 ॥
एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं संग्रामाङ्गणसीम्नि जंगमगिरिस्तोमभ्रमाधायिभिः।
पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षो1पनम्रामरश्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम्॥ 64 ॥


  1. उपगतानाम्. ↩︎