२२ परशुरामः

आदर्शाय शशाङ्कमण्डलमिदं हर्म्याय हेमाचलं दीपाय द्युमणिं महीमिव कथं नो भिक्षवे दत्तवान्।
दित्सापल्लवितप्रमोदसलिलव्याकीर्णनेत्राम्बुजो जानीमो भृगुनन्दनस्तदखिलं न प्रायशो दृष्टवान्॥ 59 ॥
गोत्राचारविचारपारगतया वृद्धाभिरादिष्टया मात्रा वस्तुषु तेषु तेषु पुरतः प्रस्तारितेषु क्रमात्।
अन्नप्राशनवासरे सरभसं वक्षोभरोत्सर्पिणा येनात्तं धनुरीक्षिताश्च सपदि क्षत्रावतंसा दिशः॥ 60 ॥
तन्वन्ती तिमिरद्युतिं कृतवती प्रत्यर्थिचक्रव्यथामेषा भार्गव तावकी विजयते निस्त्रिंशधारा निशा।
युद्धक्रुद्धविपक्षपक्षविदलत्कुम्भीन्द्रकुम्भस्थलभ्रश्यन्मौक्तिककैतवेन परितस्तारावलीं वर्षति॥ 61 ॥