२१ नृसिंहः

आहवे जगदुद्दण्डराजमण्डलराहवे।
श्रीनृसिंह महीपाल स्वस्त्यस्तु तव बाहवे॥ 41 ॥
त्वयि लोचनगोचरं गते सफलं जन्म नृसिंहभूपते।
अजनिष्ट ममेति सादरं युधि विज्ञापयति द्विषां गणः॥ 42 ॥
कौमुदीव तुहिनाम्शुमण्डलं जाह्नवीव 1शशिखण्डमण्डनम्।
पश्य कीर्तिरनुरूपमाश्रिता त्वां विभाति नरसिंहभूपते॥ 43 ॥

2गण्डाभोगे विहरति मदैः पिच्छिले3 दिग्गजानां वैरिस्त्रीणां नयनकमलेष्वञ्जनानि प्रमार्ष्टि4
यद्यप्येषा हिमकरकराद्वैतसौबस्तिकी5 ते कीर्तिर्दिक्षु स्फुरति तदपि श्रीनृसिंह क्षितीन्द्र॥ 44 ॥

विद्यारत्नं सरसकविता यानरत्नं तुरङ्गो वाञ्छारत्नं परमपदवी भोगरत्नं मृगाक्षी।
स्रोतोरत्नं विबुधतटिनी मासरत्नं वसन्तो भूभृद्रत्नं कनकशिखरी भूपरत्नं नृसिंहः॥ 45 ॥
निशारत्नं चन्द्रः शयनतलरत्नं शशिमुखी सभारत्नं विद्वाञ्श्रवणपुटरत्नं हरिकथा।
कलारत्नं गानं दिविगमनरत्नं दिनकरो महीरत्नं मन्ये सपदि नरसिंहः क्षितिपतिः॥ 46 ॥
श्रीलक्ष्मीनरसिंहसान्द्रजलदे चञ्चन्नखालीतडिद्धाम्नि च्छन्निरिपुप्रतापतपने कोपावलिं वर्षति।
पूर्णा शोणितवाहिनी सुरमनः-सन्तापदावानलः शान्तोऽभूद्विरराम वैरिवनितासीमन्तमार्गोदयः॥ 47 ॥
निर्यच्छोणितपूरताम्रवपुषः स्वैरं रुदन्तो मुहुर्देव श्री नरसिंह ते रिपुजना दिग्वाससो निस्त्रपाः।
उद्गच्छज्जठरान्त्रनालसहितास्ते नूनमासन्पुनर्जन्मानो रणभूमिमातुरुदरात्तत्कालमेव च्युताः॥ 48 ॥
देव त्वत्करुणप्रतापशिखिनो निःशेषमे1धायते शत्रूणां पटलं तदीयमयशो जानामि धूमायते।
मार्तण्डांशुलसन्नखावलिरसौ ज्वालाकलापायते दुःखानां निकरस्तथा सुमनसां सङ्घः पतङ्गायते॥ 49 ॥

किं मध्याह्नदिवाकरोऽयमपरः किं वायमौर्वानलः किं वासौ चपलाचयः पशुपतेः किं भालनेत्रानलः।
किं वासौ प्रलयानलः किमथवा सर्वोऽपि भौमानलः श्रीमत् सिंह भवत् प्रतापमहिमा नोदेति केषां मतिः॥ 50 ॥
काठिन्यं कुचकुम्भयोर्नयनयोश्चाञ्चल्यमेतद्द्वयं भो ब्रह्मन् भवता कथं न पदयोरस्माकमासादितम्।
इत्थं श्री नरसिंह ते त्रिभुवनाधीशस्य धाटीभिया कान्तारेषु मिथः पलायनपरा जल्पन्ति वैरिस्त्रियः॥ 51 ॥
एताः संप्रति गर्भगौरवभराद्राज्ञोऽवरोधाङ्गनाः कान्तारेषु पलायितुं बत कथं पद्भ्यां भवेयुः क्षमाः।
इत्थं चेतसि संविभाव्य सदयं वैकुण्ठकण्ठीरव त्वन्नादावलिभिः सखीभिरिव किं तद्गर्भपातः कृतः॥ 52 ॥
स्नातस्त्वद्रिपुरक्तपाथसि यशो धौताम्बरं धारयल्ँलक्ष्मीश त्वदरातिवक्त्रकमलैर्भूदेवतां पूजयन्।
जुह्वच्चैतदसून्प्रकोपदहने युष्मत्प्रतापोदयः शत्रुच्छत्त्रधरार्थदर्पयशसां प्राणाहुतीराददे॥ 53 ॥
कीर्तिः श्रीनरसिंह ते त्रिपथगा तत्रोदितं कैरवं चान्द्रं मण्डलमत्र नीलमिव यत्तद्भृङ्गवृन्दं किमु।
यद्वा त्वद्दलितारिवृन्दतरुणीचित्तेन्धाग्नेः स्थलं चन्द्रस्तत्र विभाति नीलमिव यद्धूमः स मन्यामहे॥ 54 ॥
2अन्तर्विष्णोस्त्रिलोकी निवसति फणिनामीश्वरे3 सोऽपि शेते सिन्धोः सोऽप्येकदेशे तमपि चुलुकयां कुम्भयोनिश्चकार।
धत्ते 4खद्योतलीलामयमपि नभसि श्रीनृसिंह क्षितीन्द्र त्वत्कीर्तेः कर्णनीलोत्पलमिदमपि च प्रेक्षणीयं विभाति॥ 55 ॥

नृत्यद्भर्गाट्टहास5प्रचय6सहचरैस्तावकीनैर्यशोभिर्धावल्यं नीयमाने त्रिजगति परितः श्रीनृसिंह क्षितीन्द्र।
7नेदृग्यद्येष नाभीकमलपरिमलप्रौढिमासादयिष्यद्देवानां नाभविष्यत्कथमपि कमलाकामुकस्यावबोधः॥ 56 ॥

श्रीमद्वैकुण्ठकण्ठीरव तव निनदाकर्णनत्रासधावच्छक्रेभोद्भिन्नगण्डस्थलविगलदतिस्वच्छमुक्तामणीनाम्।
माला तारावलीयं विलसति च पतद्दानपाथः पयोधिर्नो चेत्क्वत्या नु तारावलिरथ लवणः सागरोऽसौ कुतस्त्यः॥ 57 ॥
द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्पश्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः।
द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारस्य कुर्वन्नानन्दं कोविदानां जगति विजये श्रीनृसिंहः क्षितीन्द्रः॥ 58 ॥


  1. चन्द्रकलाभूषणम्. हरमित्यर्थः. ↩︎ ↩︎

  2. गण्डप्रदेशे. ↩︎ ↩︎

  3. पङ्किले. ↩︎ ↩︎

  4. प्रोञ्छति. ↩︎ ↩︎

  5. स्वस्तीत्याहेत्यर्थ. अतिशुभ्रेत्यर्थ. ↩︎ ↩︎

  6. सदृक्षैः. ↩︎

  7. कीर्तिवच्छुक्ल इत्यर्थः. ↩︎