२० निजामशाहः

नृपतिनिजाम तवाद्भुतचरणार्पणबहलपीडाभिः।
रचयति बहिरिव रसनामरुणध्वजकैतवादवनिः॥ 33 ॥
धरणिधर निजामशाह युष्मत्करकरवालकरालकालसर्पः।
द्विषदसुपवनं निपीय पीनो दिशि दिशि मुञ्चति कञ्चुकं यशस्ते॥ 34 ॥
अटत्कटकघोटकप्रकटटापटङ्कारवच्चटच्चटदिति स्फुटं स्फुटति मेदिनी कर्परम्।
निजामधरणीपतौ वलति कौतुकाडम्बरादिदं भुवनमण्डलं दरदरीदरीदर्यहो॥ 35 ॥
क्षोणीकाम निजामशाह भवतः प्रौढैः प्रतापानलैर्द्रागेव द्रवरूपतामुपगते चामीकराणां चये।
भ्रश्यद्वासवधामधोरणि मुहुर्मज्जद्ग्रहग्रामणि त्रस्यत्कामिनि निः-पतद्वनितलं मेरोः समुन्मीलति॥ 36 ॥
क्षोणीकाम निजाम तावकभुजं लब्ध्वा भुजङ्गीश्वरं जानीमः करवालकालभुजगी किं नाम गर्भिण्यभूत्।
मत्तेभेन्द्रविभिन्नकुम्भविदलन्मुक्ताकलापच्छलादच्छामण्डपरम्परामधिरणं सूते स्फुरन्ती मुहुः॥ 37 ॥
वाहव्यूहखुरक्षतां वसुमतीं सम्वीक्ष्य मूर्च्छावतीं भेरीझाङ्कृतिचञ्चलेन पयसा वाराम्निधिः सिञ्चति।
दिग्बाला तनुते निजामनृपतेर्वातं पताकांशुकैर्धूलीधोरणिरश्विनीसुतमिव प्रष्टुं दिवं धावति॥ 38 ॥
विद्वद्गोष्ठीगरिष्ठ प्रतिभटदमन श्रीनिजाम प्रतीमः कृत्वा त्वत्कीर्तिगाथां वहति गणविधिं पद्मयोनिः कठिन्या।
वक्रालेखा गुरूणाममृतकरकलां कुञ्चुमल्लीमरालाः शुद्धा लेखा लघूनां बिसभुजगनभोनिम्नगादन्तिदन्ताः॥ 39 ॥
अङ्गाः सञ्जातभङ्गाद्यनवनवसतिप्राप्तरङ्गाः कलिङ्गास्तैलङ्गाः स्वर्गगङ्गाभिषवणमतयः शीर्यदङ्गाश्च वङ्गाः।
लाटाः स्विद्यल्ललाटाः पदगमनदृढाः श्वासलोलाश्च चोला जायन्ते श्रीनिजाम पृथुरण भवतः प्रौढनिःसाणनादात्॥ 40 ॥