राजेति क्षणदाकरं विजयते दानोरुलक्ष्मीरिति स्वर्नागं बहुवाहिनीपतिरिति क्षीरोदमास्कन्दति। दुर्गाधीश इति स्फुटं पुररिपुं विद्वेष्टि भोगोद्भटश्रीरित्यर्हति वासुकिं स्वयशसा दिल्लीन्द्रचूडामणिः॥ 31 ॥