चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधूकचाकृष्टिक्रीडाप्रसभसुभगंभावुकभुजः।
त्रिलोकीजङ्घालोज्ज्वलसहजतेजा मनुकुलप्रसूतिः 1सूत्राम्णो विजयसहकृत्वा दशरथः॥ 29 ॥
यस्योद्यद्बुजदण्डचण्डिमवलत्कोदण्डलीलायितैर्निष्पीते दनुजेन्द्रचन्द्रवदनाद्भूवल्लरीविभ्रमे।
लक्ष्मीमस्रविपाटलक्षतमयीमालम्बते केवलं पौलोमीकरजाङ्कुरव्यतिकरादाखण्डलीयं वपुः॥ 30 ॥
-
इन्द्रस्य. ↩︎