त्वत्खड्गखण्डितसपत्न1विलासिनीनां भूषा भवन्त्यभिनवा भुवनैकवीर।
नेत्रेषु 2कङ्कणमथोरुषु 3पत्त्रवल्ली चोलेन्द्रसिंह 4तिलकं करपल्लवेषु॥ 24 ॥
सिञ्जानैर्मञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकैस्तत्त्रासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः।
तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैरित्थं चोलेन्द्रसिंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम्॥ 25 ॥