कीर्तिस्वर्गतरङ्गिणीहिमगिरिर्विद्यानटीरङ्गभूर्लावण्यामृतभाजनं रसिकतावल्लीरसालद्रुमः। कान्तापाङ्गमृगस्थली तरुणतालक्ष्मीविलासाम्बुजं जीयाद्विश्वविभूषणं नरपतिः कल्याणदासाभिधः॥ 14 ॥