०६ कलिङ्गेश्वरः

आयुर्दानमहोत्सवस्य विनतक्षोणीभृतां मूर्तिमान्विश्वासो नयनोत्सवो मृगदृशां कीर्तेः प्रकाशः परः।
आनन्दः 1कलिताकृतिः सुमनसां वीरश्रियो जीवितं धर्मस्यैष निकेतनं2 विजयते वीरः कलिङ्गेश्वरः॥ 12 ॥

धम्मिल्ले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः।
एकोऽपि त्रिकलिङ्गभूमितिलक त्वत्कीर्तिराशिर्ययौ नानामण्डनतां पुरन्दरपुरीवामभ्रुवां विग्रहे॥ 13 ॥


  1. धृताकारः. ↩︎

  2. स्थानम्. ↩︎