मागाः प्रत्युपकारकातरधिया वैवर्ण्यमाकर्णय श्रीकर्णाटवसुन्धराधिपसुधासिक्तानि सूक्तानि नः। वर्ण्यन्ते कति नाम नार्णवनदीदावाग्निविन्ध्याटवीसन्ध्यामारुतनिर्झरप्रभृतयस्तेभ्यः किमाप्तं मया॥ 11 ॥