०४ कर्णः

मुखे1 हारावाप्तिर्न2यनयुगले कङ्कणभरो नितम्बे3 पत्त्राली 4सतिलकमभूत्पाणियुगलम्।
अरण्ये श्रीकर्ण त्वदरियुवतीनां विधिवशादपूर्वोऽयं भूषाविधिरहह जातः किमधुना॥ 7 ॥

त्वं द्वित्राणि पदानि गच्छसि महीमुल्लङ्घ्य यान्ति द्विषस्त्वं5 बाणान्दशपञ्च मुञ्चसि परे सर्वाणि शस्त्राण्यपि।
ते 6देवीपतयस्त्वदस्त्रनिहतास्त्वं मानुषीणां पतिर्निन्दा तेषु कथं स्तुतिस्तव कथं श्रीकर्ण निर्णीयताम्॥ 8 ॥

लोकेशः कर्ण राजाद्भुतकनकमयस्तावकीनप्रतापाद्ब्रह्माण्डानां समूहो द्रव इव भवितेत्येव सम्भाव्य यत्नात्।
तस्यापि प्लावनार्थं जलनिधिनिकरे व्यर्थतामत्र याते देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधीर्न॥ 9 ॥
श्रीकर्ण प्रौढतेजाः प्रबलरिपुबलासह्यसंतापदक्षो नायं श्रीमत्प्रतापो जगति विलसति श्रीमहाराज किन्तु।
मन्येऽहं कौशिकेनानुपमितमहसा नूतनस्वर्गसृष्टावुत्कृष्टः सृष्ट एष प्रखरतरकरो भास्करोऽसौ द्वितीयः॥ 10 ॥


  1. मुखे हाहा इति रावस्य शब्दस्यावाप्तिः. ↩︎

  2. नयनयुगले कमुदकं तस्य कणास्तेषां भरः. ↩︎

  3. नितम्बे पत्राणामालिः पङ्क्तिः. ↩︎

  4. तिलकवृक्षालम्बिपाणियुगलम्. ↩︎

  5. वैरिणः. ↩︎

  6. देवाङ्गनास्वामिनः. ↩︎