०२ अनङ्गभीमः

पृथ्वी श्रीमदनङ्गभीम महती तद्वेष्टनं वारिधिः पीतोऽसौ कलशोद्भवेन मुनिना स व्योम्नि खद्योतवत्।
तद्विष्णोर्दनुजाधिनाथजयिनः पूर्णं पदं नाभवद्देवश्चेतसि वर्तते तव सदा त्वत्तो महान्नापरः॥ 5 ॥