०१ अकबरः

हस्ताम्भोजालिमाला नखशशिरुचिरश्यामलच्छायवीचिस्तेजोऽग्नेर्धूमधारा वितरणकरिणो गण्डदानप्रणाली।
वैरिश्रीवेणिदण्डो लवणिमसरसीबालशैवालवल्ली वेल्लत्यम्भोधरश्रीरकबरधरणीपालपाणौ कृपाणः॥ 1 ॥
वीर त्वं कार्मुकं चेदकबर कलयस्युग्रटङ्कारघोषं दूरे सद्यः कलङ्का इव धरणिभृतो यान्ति कङ्कालशेषाः।
शङ्कापन्नश्च किं कारणमिति मनसा भ्रान्तिपङ्कायितेन त्यक्त्वाहङ्कारमङ्काद्विसृजति गृहिणीं किं च लङ्काधिनाथः॥ 2 ॥
कर्णाटं देहि कर्णाधिकविधिविहतत्याग लाटं ललाटप्रोत्तुङ्गद्राविडं वा प्रचलभुजबलप्रौढिमागाढराढम्।
प्रस्फूर्जद्गुर्जरं वा दलितरिपुवधूगर्भ वैदर्भकं वा गाजी राजीवदृष्टे कुशशतमथवा शाहज1ल्लालुदीन॥ 3 ॥

गाजीजल्लालुदीन क्षितिपकुलमणे द्राक्प्रयाणे प्रतीते प्रेयस्यः प्रारभन्ते तरलतरगतिव्याकुला मङ्गलानि।
नेत्राम्भः पूरपूर्णस्तनकलशमुखन्यस्तबालप्रवालास्त्रुट्यन्मुक्ताकलापच्युतकुचकुसुमच्छद्मनाकीर्णलाजाः॥ 4 ॥


  1. अकबरस्यैव नामान्तरम्. ↩︎