०३ सामान्यराजप्रशंसा

राजंस्त्वद्दर्शनेनैव गलन्ति त्रीणि तत्क्षणात्।
रिपोः शस्त्रं कवेर्दैन्यं नीवीबन्दो मृगीदृशाम्॥ 1 ॥
चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम्।
तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते॥ 2 ॥
सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे जनैः।
1नारयो 2लेभिरे पृष्ठं न 3वक्षः परयोषितः॥ 3 ॥

त्वया वीर 4गुणाकृष्टा ऋजुदृष्ट्या विलोकिताः।
5लक्षं लब्ध्वैव गच्छन्ति 6मार्गणा इव 7मार्गणाः॥ 4 ॥

कल्पद्रुमो न जानाति न ददाति बृहस्पतिः।
अयं तु 8जगतीजानिर्जानाति च ददाति च॥ 5 ॥

रविः 9करसहस्रेण 10दशाशापरिपूरकः।
त्वमेकेन करेणैव सहस्राशाप्रपूरकः॥ 6 ॥

बलिः पातालनिलयोऽधः कृतश्चित्रमत्र किम्।
अधःकृतो दिविस्थोऽपि चित्रं कल्पद्रुमस्त्वया॥ 7 ॥
आर्तानामिह जन्तूनामार्तिच्छेदं करोति यः।
शङ्खचक्रगदाहीनो द्विभुजः परमेश्वरः॥ 8 ॥
बहुधा राज्यलाभेन यस्तोषस्तव भूपते।
11बहुधाराज्यलाभेन स तोषो मम भूपते॥ 9 ॥
12भुजङ्गभोग13सङ्क्रान्ता 14कलत्रं तव मेदिनी।
अहङ्कारः परां कोटिमारोहति कुतस्तव॥ 10 ॥

15तुलामारुह्य रविणा 16वृश्चिके निहितं पदम्।
भवता शिरसि न्यस्तमनत्नेनैव भोगिनाम्17॥ 11 ॥

किं कृतेन18 न यत्र त्वं यत्र त्वं किमसौ कलिः।
कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम्॥ 12 ॥

असिधारापथे नाथ शत्रुशोणितपिच्छले।
आजगाम कथं लक्ष्मीर्निर्जगाम कथं यशः॥ 13 ॥
कोऽप्यन्यः कल्पवृक्षोऽयमेकोऽस्ति क्षितिमण्डले।
यत्पाणिपल्लवोऽप्येकः कुरुतेऽधः सुरद्रुमम्॥ 14 ॥
अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः।
1मार्गणौघः समायाति 2गुणो याति दिगन्तरम्॥ 15 ॥

युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान्।
प्रज्ञया सहदेवोऽसि वाच्यता न कुलस्य ते॥ 16 ॥
बलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः।
पञ्चत्वं न गताश्चित्रं त्वयि जीवति पञ्चमे॥ 17 ॥
एक एव महान्दोषो भवतां विमले कुले।
लुम्पन्ति पूर्वजां कीर्तिं जाता जाता गुणाधिकाः3॥ 18 ॥

भग्नासु रिपुसेनासु नरेन्द्र त्वं महामहाः।
खड्गान्त्रर्निजमेवैकमद्राक्षीः सम्मुखं मुखम्॥ 19 ॥
किं वर्ण्यतां कुचद्वन्द्वमस्याः कमलचक्षुषः।
आसमुद्रकरग्राही भवान्यत्र करप्रदः॥ 20 ॥
वेधा वेद4नयाश्लिष्टो गोविन्दोऽपि 5गदान्वितः।
शम्भुः 6शूली विषादी7 च देव केनोपमीयसे॥ 21 ॥

8तृष्णापहारी विमलो 9द्विजावासो जनप्रियः।
ह्रदः 10पद्मकरः किं तु 11बुधस्त्वं स 12जलाश्रयः॥ 22 ॥

सदा हंसालसं बिभ्रन्मानसं प्रचलज्जलम्।
भूभृन्नाथोऽपि नायाति यस्य साम्यं हिमालयः॥ 23 ॥
मीमांसको महीपोऽयमन्यथा शक्तिमान्कथम्।
नैयायिकोऽपि स्यादेव परशक्तेस्तु खण्डनात्॥ 24 ॥
राजन्दौवारिकादेव प्राप्तवानस्मि 13वारणम्।
14मदवारणमिच्छामि त्वत्तोऽहं जगतीपते॥ 25 ॥

राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति।
अभाग्यछत्रसंच्छन्ने मयि नायान्ति बिन्दवः॥ 26 ॥
सर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा।
परमेकं न जानासि वक्तुं नास्तीति याचके॥ 27 ॥
आश्वासस्नेहभक्तीनामेकमालम्बनं महत्।
प्रकृष्टस्येव धर्मस्य प्रसादो मूर्तिसञ्चयः॥ 28 ॥
1सत्यभामासमाश्लिष्टः 2साधुवृन्दावने रतः।
3यशोदयासमायुक्तस्त्वां पायात्त्वादृशो हरिः॥ 29 ॥

भवान्हि भगवानेव 4गतो भेदः परस्परम्।
5महत्यागदयायुक्तः 6सत्यभामासमाश्रितः॥ 30 ॥

एकमेव गुणं प्राप्य नम्रतामगमद्धनुः।
तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः॥ 31 ॥
भूषणाद्युपभोगेन प्रभुर्न भवति प्रभुः।
परैरपरिभूताज्ञस्त्वमिव प्रभुरुच्यते॥ 32 ॥
कस्ते शौर्यमदो योद्धुं त्वय्येकं 7सप्तिमास्थिते।
8सप्तसप्तिसमारूढा भवन्ति 9परिपन्थिनः॥ 33 ॥

हुतमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते।
गृहात्प्रतिनिवर्तन्ते पूर्णकामा यदर्थिनः॥ 34 ॥
फणीन्द्रस्ते गुणान्वक्तुं लिखितुं हैहयाधिपः।10
द्रष्टुमाखण्डलः शक्तः क्वाहमेष क्व ते गुणाः॥ 35 ॥

अमितः 11समितः प्राप्तैरुत्कर्षैर्हर्षदः प्रभो।
अहितः सहितः साधुयशोभिरसतामसि॥ 36 ॥

स्वप्नेऽपि समरेषु त्वां विजयश्रीर्न मुञ्चति।
प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा॥ 37 ॥
पश्यन्त्यसंख्यपथगां त्वद्दानजलवाहिनीम्।
देव त्रिपथगात्मानं गोपयत्यु12ग्रमूर्धनि॥ 38 ॥

यद्वीर्यं कूर्मराजस्य यश्च शेषश्य विक्रमः।
पृथिव्या रक्षणे राजन्नेकत्र त्वयि तत्स्थितम्॥ 39 ॥
त्वयि सङ्गरसम्प्राप्ते धनुषासादिताः शराः।
शरैररिशिरस्तेन भूस्तया त्वं त्वया यशः॥ 40 ॥
ययोरारोपितस्तारो हारस्तेऽरिवधूजनैः।
निधीयन्ते तयोः स्थूलाः स्तनयोरश्रुबिन्दवः॥ 41 ॥
मधुपानप्रवृत्तास्ते सुहृद्भिः सह वैरिणः।
श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमां दशाम्॥ 42 ॥
यस्य चेतसि निर्व्याजं द्वयं तृणकणायते।
क्रोधे विरोधिनां सैन्यं प्रसादे कनकाचलः॥ 43 ॥
देव त्वद्दानपाथोधौ दारिद्र्यस्य निमज्जतः।
न कोऽपि हि करालम्बं दत्ते मत्तेभदायक॥ 44 ॥
राजचन्द्रं समालोक्य त्वां तु भूतलमागतम्।
रत्नश्रेणिमिषान्मन्ये नक्षत्राण्यप्युपागमन्॥ 45 ॥
धारयित्वा त्वयात्मानं महात्यागधनाधुना।
मोचिता बलिकर्णाद्याः स्वयशोगुप्तकर्मणः॥ 46 ॥
क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी।
ईर्ष्ययेव त्यजत्याशु तं नरेन्द्र दरिद्रता॥ 47 ॥
योऽस1कृत्परगोत्राणां 2पक्षच्छेदक्षणक्षमः।
3शतकोटिदतां बिभ्रद्विबुधेन्द्रः4 स राजते॥ 48 ॥

ताम्बूलेन विना राजञ्जडीभूता सरस्वती।
न निःसरेन्मुखाद्वाणी गृहात्कुलवधूरिव॥ 49 ॥
अर्थिप्रत्यर्थिलक्षैरप्यपराङ्मुखचेतसम्।
त्वां पराङ्मुखतां निन्युः केवलं परयोषितः॥ 50 ॥
तव निर्वर्णयद्वर्णं स्वर्णं वर्णयतो गिरा।
त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम्॥ 51 ॥
न समासः समर्थस्य वसुव्याकरणस्य ते।
विग्रहो नैव केनापि न परः सर्वनामभाक्॥ 52 ॥
अर्थिनां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृत्।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते॥ 53 ॥
धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः।
गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते॥ 54 ॥
अलौकिकमहालोकप्रकाशितजगत्त्रयः।
स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान्॥ 55 ॥
शासति त्वयि हे राजन्नखण्डावनिमण्डलम्।
न मनागपि निश्चिन्ते मण्डले शत्रुमित्त्रयोः5॥ 56 ॥

मत्वा लोकमदातारं सन्तोषे यैः कृता मतिः।
त्वयि राजनि ते राजन्न तथा व्यवसायिनः॥ 57 ॥
पद्मोदयदिनाधीशः सदागतिसमीरणः।
भूभृदावलिदम्भोलिरेक एव भवान्भुवि॥ 58 ॥
6सन्नारीभरणोमायमाराध्य विधुशेखरम्।
7सन्नारीभरणोऽमायस्ततस्त्वं पृथिवीं जय॥ 59 ॥

देव त्वमेव 8पातालमाशानां9 त्वं निबन्धनम्।
त्वं 10चामरमरुद्भूमिरेको लोकत्रयात्मकः॥ 60 ॥

जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः।
अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः॥ 61 ॥
अखण्डमण्डलः11 श्रीमान्पश्यैष पृथिवीपतिः।
न निशाकरवज्जातु 12कलावैकल्यमागतः॥ 62 ॥

अरातिविक्रमालोकविकस्वरविलोचनः।
कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति॥ 63 ॥
कानने सरिदुद्देशे गिरीणामपि कन्दरे।
पश्यन्त्यन्तकसङ्काशं त्वामेकं रिपवः पुरः॥ 64 ॥
उद्दण्डे भुजदण्डे तव कोदण्डे परिस्फुरति।
अरिमण्डलरविमण्डलरम्भाकुचमण्डलानि वेपन्ते॥ 65 ॥
भवतामहमिव बहवो मम तु भवानिव भवानेव।
कुमुदिन्यः कति न विधोर्विधुरिव विधुरेव कुमुदिन्याः॥ 66 ॥
लब्धार्धचन्द्र1 ईशः 2कृतकंसभयं च पौरुषं विष्णोः।
ब्रह्मापि 3नाभिजातः केनोपमिमीमहे नृप भवन्तम्॥ 67 ॥

4सरलप्रियं गुणाढ्यं 5लम्बितमालं विचित्रतिलकं6 च।
वनमिव वपुस्तवैतत्कथमवनं नृप जनस्यास्य॥ 68 ॥

बाणकरवीरदमनकशतपत्रकबन्धुजीवकुसुमानि।
नृप विविधविटपरूपस्तथापि 7विटपः कथं नासि॥ 69 ॥

स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम्॥ 70 ॥
कल्पतरुकामदोग्ध्रीचिन्तामणि8धनदशङ्खा9नाम्।
रचितो 10रजोभरपयस्तेजश्वा11सान्तरा12म्बरैरेषः॥ 71 ॥

तिग्मरुचिरप्रतापो 13विधुरनिशाकृद्विभो मधुरलीलः।
मति14मानतत्त्ववृत्तिः 15प्रतिपदपक्षाग्रणीर्विभाति भवान्॥ 72 ॥

16शनिर17शनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम्।
यत्र प्रसीदसि पुनः स भात्यु18दारोऽनुदारश्च19॥ 73 ॥

क्षणदासा20वक्षणदा वनमवनं21 व्य22सनम23व्यसनम्।
बत वीर तव द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम्॥ 74 ॥

प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम्।
दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम्॥ 75 ॥
गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः।
विश्वम्भराप्यतिलघुर्नरनाथ तवान्तिके नियतम्॥ 76 ॥
समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात्।
क्षितितिलक त्वयि तटजुषि शङ्करचूडापगापि कालिन्दी॥ 77 ॥
विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च।
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि॥ 78 ॥
पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर।
भूषयति कर्णमेकः परस्तु 1कर्णं तिरस्कुरुते॥ 79 ॥

हरवन्न विषम2दृष्टिर्हरिवन्न विभो विधूतविततवृषः3
रविवन्न चातिदुःसह4करतापितभूः कदाचिदसि॥ 80 ॥

स्तनयुगमुक्ताभरणाः कण्टककलिताङ्गयष्टयो देव।
त्वयि कुपितेऽपि प्रागिव विश्वस्तास्ते रिपुस्त्रियो जाताः॥ 81 ॥
सन्ततमुसलासङ्गाद्बहुतरगृहकर्मघटनया नृपते।
द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः॥ 82 ॥
कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः।
धरणीव धृतिर्धृतिरिव धरणी सततं विभाति यस्य तव॥ 83 ॥
रत्नसानुशिखराङ्गणफुल्लत्कल्पपादपतलेषु निषण्णाः।
उद्गृणन्ति नृपहंस सुवर्णं त्वद्यशः प्रवरकिन्नररामाः॥ 84 ॥
गाढकान्तदशनक्षतव्यथासङ्कटादरिवधूजनस्य यः।
ओष्ठविद्रुमदलान्यमोचयन्निर्दशन्युधि रुषा निजाधरम्॥ 85 ॥
बलमार्तभयोपशान्तये विदुषां सम्मतये बहुश्रुतम्।
वसु तस्य न केवलं विभोर्गुणवत्तापि परप्रयोजनम्॥ 86 ॥
तावकाः कति न सन्ति मादृशा मादृशस्तु भवदेकजीविनः।
अम्बुदस्य कति वा न चातकाश्चातकस्य पुनरेक एव सः॥ 87 ॥
निखिलेषु गुणेषु चित्रता ते मनसो वैभवमद्भुतं तवैव।
न च ते परतः प्रमाणभावस्तदपि न्यायनिविष्टतातिचित्रम्॥ 88 ॥
स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम्।
विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च॥ 89 ॥
कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः।
पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः॥ 90 ॥
गुणभेदविदग्रिमप्रसङ्गे व्यवधानादनुपस्थितं पुरस्तात्।
अपि वाजिनमात्रशेषमिष्टौ घटयन्वाजिभिरर्थ्यसे विधिज्ञैः॥ 91 ॥
यदि वै मनसि प्रशान्तिरुच्चैः कुरु कल्पद्रुमदानकौशलम्।
न भवेदिति वा वद स्फुटं कलिकर्ण प्रतियामि मन्दिरम्॥ 92 ॥
नानन्वयस्ते न च ते विरोधोऽलङ्कारकोटौ तव नोपमापि।
क्षितीश नो ते विषणं न किञ्चित्साहित्यसौहित्यनिधिस्तथापि॥ 93 ॥
अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः।
ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात्॥ 94 ॥
तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः।
भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांशवः॥ 95 ॥
विशाम्पते विस्तरतो न वक्तुं जानामि जानन्नपि ते गुणौघान्।
यस्यैव योऽसि प्रथमानकीर्ते स एव तद्वानिति निर्निरूढि॥ 96 ॥
यशोदयामण्डितकान्तदेहो बाल्येऽपि गोपालजनस्य नेता।
गोमण्डलं पासि बलेन युक्तः कथं न राजन्पुरुषोत्तमोऽसि॥ 97 ॥९
नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः।
सुजातरूपोऽपि न याति यस्य समानतां काञ्चन काञ्चनाद्रिः॥ 98 ॥
अखण्डिता शक्तिरथोपमानं न स्वीकृतं न च्छलरीतिरस्ति।
अस्पष्टसन्देहविपर्ययस्य कोऽयं तव न्यायनये निवेशः॥ 99 ॥
स्वतःप्रकाशो मनसो महत्त्वं धर्मेषु शक्तिर्न तथान्यथा धीः।
भूपालगोपालपदैकभक्तेरन्यैव नैयायिकता तवेयम्॥ 100 ॥
यस्येषवः संयुगयामिनीषु प्रोतप्रतिक्ष्मापतिमौलिरत्नाः।
गृहीतदीपा इव भिन्दते स्म खड्गान्धकारे रिपुचक्रवालम्॥ 101 ॥
लब्ध्वा यदन्तःपुरसुन्दरीणां लावण्यनिःस्यन्दमुपान्तभाजाम्।
गृहीतसारस्त्रिदशैः पयोधिः पीयूषसंदर्शनसौख्यमाप॥ 102 ॥
यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः स्यात्।
पारे परार्धं गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स स्यात्॥ 103 ॥
एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम्।
एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति॥ 104 ॥
देवाधिपो वा भुजगाधिपो वा नराधिपो वा यदि हैहयः स्याम्।
सन्दर्शनं ते गुणकीर्तनं ते सेवाञ्जलिं ते तदहं विदध्याम्॥ 105 ॥
अत्यादरादध्ययनं द्विजानामर्थोपलब्ध्या फलवद्विधाय।
क्रतूनतुच्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा॥ 106 ॥
तुच्छान्तराध्यासमसन्निकृष्टमध्यक्षमत्यन्तमनिच्छतस्ते।
अख्यातिसख्यानुगतद्विषश्च ख्यातिः स्थितानिर्वचनीयरूपा॥ 107 ॥
अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दाननीरम्।
परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः स्वभूमिम्॥ 108 ॥
तवाग्रतो वीर महीमहेन्द्र मन्दं गजाः शृङ्खलिनो विभान्ति।
आवासदानादरिभूपतीनामाशान्तशैला इव सापराधाः॥ 109 ॥
कामं नृपाः सन्ति सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्।
नक्षत्रताराग्रहसङ्कुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥ 110 ॥
दारिद्र्यदायादगणाधमेन दीनो द्विजोऽर्थर्णपदातिसात्कृतः।
जागर्ति नाथे त्वयि भो द्विजानां विधेहि तद्येन सुखं भजे नृप॥ 111 ॥
कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे।
वषुपि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलापतिः॥ 112 ॥
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः।
निमित्तनैमित्तिकयोरयं विधिस्तव प्रसादस्य पुरस्तु सम्पदः॥ 113 ॥
अनेन सर्वार्थिकृतार्थताकृता हृतार्थिनौ कामगवीसुरद्रुमौ।
मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः॥ 114 ॥
मयि स्थितिर्नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलङ्घ्यते।
इतीव चापं दधदाशुगं क्षिपन्नयं नयं सम्यगुपादिशद्द्विषाम्॥ 115 ॥
नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदद्वये।
तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना॥ 116 ॥
इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृध्य रोहणः।
कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुद्ध भूधरम्॥ 117 ॥
कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः।
तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम्॥ 118 ॥
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु।
प्रत्यर्पिताः शत्रुविलासिनीनामाक्षेपसूत्रेण विनैव हाराः॥ 119 ॥
अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः।
चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम्॥ 120 ॥
अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम्।
अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रियाम्॥ 121 ॥
दिगीशवृन्दाम्शविभूतिरीशिता दिशां स कामप्रसरावरोधिनीम्।
बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम्॥ 122 ॥
पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे।
भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम्॥ 123 ॥
स्फुरद्धनुर्निस्वनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य सङ्गरे।
निजस्य तेजःशिखिनः परःशता वितेनुरङ्गारमिवायशः परे॥ 124 ॥
अनल्पदग्धारिपुरानलोज्ज्वलैर्निजप्रतापैर्वलयं ज्वलद्भुवः।
प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः॥ 125 ॥
सिताम्शुवर्णैर्वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्वरी बहुम्।
दिगङ्गनाङ्गाभरणं रणाङ्गणे यशःपटं तद्भटचातुरीतुरी॥ 126 ॥
प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता।
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत॥ 127 ॥
अयं दरिद्रो भवतेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम्।
मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नृपः॥ 128 ॥
विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः।
अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम्॥ 129 ॥
अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च।
दधौ पटीयान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने॥ 130 ॥
अधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम्।
पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया॥ 131 ॥
सदुत्तंस दैवादयं कोऽपि दीनो ऋणाब्धौ विलीनो विहीनो गुणेन।
भवत्सन्निधिं सन्निधिं प्राप्य पीनो बभूवाशु मीनो यथा नीरपुरम्॥ 132 ॥
कति न विषया निभालिताः कति वा भूमिभुजो न शीलिताः।
धरणीधर तावकान्गुणानवधार्याजगणं गुरुं लघुम्॥ 133 ॥
तव नित्यमुत्सवपरम्परा भवत्वनिशं त्वमित्थमुपकारसादरः।
निजकीर्तिकान्तिकलितोज्ज्वले जगत्यथ सत्सुतादिभिरलं सुखं भज॥ 134 ॥
अभ्युद्धृता वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराजलक्ष्मीः।
एकत्र जन्मनि कृतं यदनेन राज्ञा जन्मत्रये तदकरोत्पुरुषः पुराणः॥ 135 ॥
एकस्त्रिधा वससि चेतसि चित्रमत्र देव द्विषां च विदुषां च मृगीदृशां च।
तापं च सम्मदरसं च रतिं च पुष्णञ्शौर्योष्मणा च विनयेन च लीलया च॥ 136 ॥
शक्तिं प्रमापयति वीर तवोपमानं प्रामाण्यमाप्तवचनेषु परैव जातिः।
जातौ गुणा गुणगणाश्रयिणो विशेषा वैशेषिकं किमपि दर्शनमुद्भुतं ते॥ 137 ॥
किं कारणं सुकविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः।
देव त्वदस्त्रचकिताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये॥ 138 ॥
सम्भाव्यमिष्टभुवनाभयदानपुण्यसम्भारमस्य वपुरत्र हि विस्फुरन्ति।
लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्च॥ 139 ॥
प्रत्यक्षरस्रुतसुधारसनिर्विषाभिराशीभिरभ्यधिकभूषितभोगभाजः।
गायन्ति कञ्चुकविनिह्नुतरोमहर्षस्वेदोर्मयस्तव गुणानुरगेन्द्रकन्याः॥ 140 ॥
1भद्रात्मनो दुरधिरोहतनोर्विशालवंशोन्नतेः कृतशिलीमुखसङ्ग्रहस्य।
यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत्॥ 141 ॥

साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते।
अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम्॥ 142 ॥
1अत्यायतैर्नियमकारिभिरु2द्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः।
शौरिर्भुजैरिव 3चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार॥ 143 ॥

नानाविधप्रहरणैर्नृप सम्प्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान्।
दृप्तारिवीरविसरेण वसुन्धरेयं निर्विप्रलम्भपरिलम्भविधिर्वितीर्णा॥ 144 ॥
अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्रसञ्चारमत्र भुवि सञ्चरसि क्षितीश॥ 145 ॥
राजन्विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः।
धीवोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसम्पदमेत्य भातः॥ 146 ॥
पौरं सुतीयति जनं समरान्तरेऽसावन्तःपुरीयति विचित्रचरित्रचञ्चुः।
नारीयते समरसीम्नि कृपाणपाणेरालोक्य तस्य चरितानि सपत्नसेना॥ 147 ॥
दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गमादातुमिच्छति करे हरिणाङ्कबिम्बम्।
मेरुं लिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान्गदितुमुद्यममादधाति॥ 148 ॥
हिमशिशिरवसन्तग्रीष्मवर्षाशरत्सु स्तनतपनवनाम्भोहर्म्यगोक्षीरपानैः।
सुखमनुभवराजन्स्त्वद्द्विषो यान्तु नासं दिवसकमललज्जाशर्वरीरेणुपङ्कैः॥ 149 ॥
विदधतु धरणीशा दानमुच्चैर्धरायां प्रभवतु सुजनस्तत्प्रेरकः पुण्यशीलः।
निजपरमतिहीनः केवलं सत्स्वदीनस्त्वमिह नृप कुलीनः कार्यकर्ता विभासि॥ 150 ॥
कवीनां सन्तापो भ्रमणमभितो दुर्गतिरिति त्रयाणां पञ्चत्वं रचयसि न तच्चित्रमधिकम्।
चतुर्णां वेदानां व्यरचिनवता वीर भवता द्विषत्सेनालीनामयुतमपि 4लक्षं त्वमकृथाः॥ 151 ॥

समाजे सम्राजां सदसि विदुषां धाम्नि धनिनां निकाये नीचानामपि च तरुणीनां परिषदि।
वयं यत्रैव स्मः क्षणमतिथयस्तत्र शृणुमः स्फुरद्रोमोद्भेदाः सुभग भवतः पौरुषकथाः॥ 152 ॥
न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्निपातो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः।
गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मुनेर्दा5क्षीपुत्रादपि तव समर्थः पदविधिः॥ 153 ॥

न मिथ्यावादस्ते न च विगुणचर्चास्वभिरतिर्न वा वाच्यं किञ्चिद्वचसि न मनाङ्मायिनि मतिः।
तथाप्येतच्चित्रं यदसि जगतीजानिरधुना त्वमेवैको लोके निगमपरभागार्थनिपुणः॥ 154 ॥
चकोराणां चन्द्रः कुसुमसमयः काननभुवां सरोजानां भानुः कुवलयकदम्बं मधुलिहाम्।
मयूराणां मेघः प्रथयति यथा चेतसि सुखं तथास्माकं प्रीतिं जनयति तवालोकनमिदम्॥ 155 ॥
अदातारं दातृप्रवरमनयं विश्वविनयं विरूपं रूपाढ्यं विगतजयिनं विश्वजयिनम्।
अकुल्यं कुल्यं त्वामहमवदमाशापरवशान्मृषावादेत्युक्तिस्त्वयि खलु मृषावादिनि मयि॥ 156 ॥
यशःस्तोमानुच्चैरुपचिनु चकोरप्रणयिनीरसज्ञापाण्डित्यच्छिदुरशशिधामभ्रमकरान्।
अपि त्वत्तेजोभिस्तमसि शमिते रक्षति दिशामसौ यात्रामैत्रीं नभसि नितरामम्बरमणिः॥ 157 ॥
सुराणां पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने गुरुरुचितमार्गे स निरतः।
करस्तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणमिव सुरेशं विजयते॥ 158 ॥
मनोभूर्मुग्धासु क्षिपति यदि बाणावलिमसौ कथं ताभिः क्षिप्तास्त्वयि नयनविक्षेपविशिखाः।
अथ ज्ञातं ब्रूमः शृणु सुभग शृङ्गारनलिनीवनक्रीडाहंसं स्मरमिव विदुस्त्वां मृगदृशः॥ 159 ॥
यशश्चन्द्रैरुद्यत्सुकृतनरकल्पद्रुमकरैः परं लक्ष्मीगर्भौर्द्विरदहयरत्नादिफलदैः।
निजैर्दानाम्भोभिर्नियततुलितक्षीरजलधिश्चिरं जीयाज्जीयादधिधरणि सोऽयं नरपतिः॥ 160 ॥
अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम्।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः॥ 161 ॥
तुलाधारो धाता वहति वसुधा 1शूर्पपदवीं फणीशः स्यात्सूत्रं कनकशिखरी 2मानपलिका।
तुलादण्डः सत्यं यदि भवति दामोदरगदा तथाप्येषोऽशक्यस्तव गुणसमूहस्तुलयितुम्॥ 162 ॥

न तूणादुद्धारे न गुणघटने3 नाश्रुति4शिखं समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि।
नृणां पश्यत्यस्य क्व च न विशिखान्किंतु पतितद्विषद्वक्षः5श्वभ्रैरनुमितिरमून्गोचरयति॥ 163 ॥

अमुष्योर्बीभर्तुः 6प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे 7वमुथुभिर8वश्यायसमये।
न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः॥ 164 ॥

यशःपूरं दूरं तनु सुतनुनेत्रोत्पलवनीतमस्तन्द्राचन्द्रातप तप सहस्राणि शरदाम्।
इयं चास्तां युष्मद्गुणकथनपीयूषपटलश्रितोत्सङ्गानन्दत्सुरनरभुजङ्गा त्रिजगती॥ 165 ॥
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवं विधैव।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया सम्श्रितानाम्॥ 166 ॥
नियमयसि कुमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्॥ 167 ॥
अभिमतफलदाता त्वं च कल्पद्रुमश्च प्रकटमिह विशेषं कञ्चनोदाहरामः।
कथमिव मधुरोक्तिप्रेमसम्मानमिश्रं तुलयति सुरशाखी देव दानं त्वदीयम्॥ 168 ॥
अकाण्डधृतमानसव्यवसितोत्सवैः सारसैरकाण्डपटुताण्डवैरपि शिखण्डिनां मण्डलैः।
दिशः समवलोकिताः सरसनिर्भरप्रोल्लसद्भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः॥ 169 ॥
सहस्रकरपूरणान्निखिलजन्तुवक्त्राम्बुजप्रकाशकरणादथ प्रबलवैरितेजोवधात्।
दरिद्रतिमिरोद्भृतेरखिलभूपचूडामणिर्जगन्मणिरहर्मणिर्जगदिदं च धत्तः समम्॥ 170 ॥
यशःकरणधोरणीतुलितरोहिणीवल्लभ त्वया क्षणमुदीक्ष्यते जगति यो दरिद्रो जनः।
पयोधरमहीधरे नटति तस्य वामभ्रुवां रणत्कनककिङ्किणीकलरवेण देव स्मरः॥ 171 ॥
यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम्।
गृहं शरणमिच्छतां कुलशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः॥ 172 ॥
1आलोकान्तप्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः।
तिष्ठत्येकः क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे काले त्वमपि लभसे देव विश्रान्तिमह्नः2॥ 173 ॥

अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः॥ 174 ॥
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नो नगरपरिघप्रांशुबाहुर्भुनक्ति।
आशम्सन्ते समितिषु सुराः सक्तवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते3 च वज्रे॥ 175 ॥

त्रातुं लोकानिव परिणतः 4कायवानस्त्रवेदः क्षात्रो धर्मः श्रित इव तनुं ब्रह्मकोषस्य गुप्त्यै।
सामर्थ्यानामिव समुदयः सञ्चयो वा गुणानामाविर्भूय स्थित इव जगत्पुण्यनिर्माणराशिः॥ 176 ॥

हेषन्ते यज्जितजलधरध्वानमेते तरङ्गा भूमिं पादैर्यदपि च मुहुर्दक्षिणैरालिखन्ति।
यानौत्सुक्यं यदपि चलनाद्वा1लधेर्व्यञ्जयन्ति त्वद्दोर्दण्डद्वित यवशगा तत्समग्रा जयश्रीः॥ 177 ॥

दृष्टः साक्षादसुरविजयी नाकिनां चक्रवर्ती मात्स्यो न्यायः कथयति यथा वारुणीदण्डनीतेः।
पातालेन्द्रादहिभयमथास्त्येव नित्यानुषक्तं तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः॥ 178 ॥
यत्कीर्त्या धवलीकृतं त्रिभुवनं मूर्त्या जगन्मोहितं भक्त्येशः परितोषितः सुचरितैरानन्दिताः सज्जनाः।
पूर्णाशा बहवः कृता वितरणैर्येन त्वया याचकास्तस्मै सर्वगुणाश्रयाय भवते दीर्घायुराशास्महे॥ 179 ॥
दाने कल्पतरुर्नये सुरगुरुः काव्ये कविस्तेजसि प्रौढग्रीष्मरविर्धने धनपतिः सत्ये दयायां शिबिः।
गाम्भीर्ये सरिताम्पतिर्निरुपमे शौर्ये सुभद्रापतिः श्रीमान्धर्मरतिर्महीपतिरयं जीयात्सहस्रं समाः॥ 180 ॥
विद्वन्मानसहंसवैरिकमलासङ्कोचचन्द्रद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः2॥ 181 ॥

हस्तन्यस्तकुशोदके त्वयि न भूः सर्वंसहा वेपते देवागारतया स काञ्चनगिरिश्चित्ते न धत्ते भयम्।
अज्ञातद्विपभिक्षभिक्षुककुलावस्थानदुस्थाशया वेपन्ते मददन्तिनः परममी भूमीपते तावकाः॥ 182 ॥
अर्थि3भ्रंशबहू4भवत्फलभरव्याजेन 5कुब्जायितः सत्यस्मिन्नति6दानभाजि कथमप्यास्तां स कल्पद्रुमः।
7आस्ते निर्व्ययरत्नसम्पदुदयोदग्रः कथं याचकश्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः॥ 183 ॥

देव त्वत्करनीरदे दिशि दिशि प्रारब्धपुण्योन्नतौ चञ्चत्कङ्कणरत्नकान्तितडिति स्वर्णामृतं8 वर्षति।
9स्फीता कीर्तितरङ्गिणी समभवत्तृप्ता 10गुणग्रामभूः पूर्णं चार्थिसरः शशाम विदुषां दारिद्र्यदावानलः॥ 184 ॥

देव त्वाभस11मानदाननिहितैरर्थैः कृतार्थीकृतत्रैलोक्यं फलभारभङ्गुरशिराः कल्पद्रुमो निन्दति12
13टङ्कच्छेदनवेदनाविरमणात्सञ्जातसौख्यस्थितिः प्राचीनव्र14णिताङ्गरोहणतया श्रीरोहणः15 16स्तौति च॥ 185 ॥

गण्डौ पाण्डिमसात्तनूस्तनिमसात्पक्ष्मावली बाष्पसात्कीरः पञ्जरसान्मनोऽपि हरसात्कण्ठोऽपि कैवल्यसात्।
आसन्देव 1चमूवरेण्य भवतः प्रत्यर्थिवामभ्रुवां कोदण्डे 2परिवेषभाजि विजयश्रीसाधने 3योधने॥ 186 ॥

देव त्वं मलयाचलोऽसि भवतः 4श्रीखण्डशाखी भुजस्तस्मिन्कालभुजङ्गमो निवसति स्फूर्जत्कृ5पाणच्छलात्।
एष स्वाङ्गमन6र्गलं 7रिपुतरुस्कन्धेषु सङ्घट्टयन्दीर्घव्योमविसारि निर्मलयशोनि8र्मोक9मुन्मुञ्चति॥ 187 ॥

कर्पूरप्रतिपन्थिनो गङ्गौघसर्वंकषाः।
स्वच्छन्दं हरिचन्दनद्युतितुदः कुन्देन्दुसम्वादिनस्तस्यासन्नरविन्दकन्दरुचयोऽनेके गुणाः केचन॥ 188 ॥
मन्ये स्पर्शमणिं तवैनमतुलं पाणिं द्विजाभ्यर्चने दुर्वर्णान्यपि भिक्षुभालफलकान्यासन्सुवर्णानि यत्।
तच्चित्रं परमत्र मित्त्र भवता दत्ताः स्वहस्तादिमा दुर्वर्णा न सुवर्णतामुपगताः क्षुद्रास्तु मुद्राः कथम्॥ 189 ॥
संतप्तश्रमहारिशीतलतले पुण्याश्रमालङ्कृतावुद्यद्दैवदवानलेन कलिते विद्वत्तरूणां चये।
सद्यो वर्ष सुवर्णवारिद विभो स्वर्णाम्बुधारास्ततो विश्वव्यापियशाः शिरोऽवनिभृतामाक्रम्य नन्दानिशम्॥ 190 ॥
इन्दुस्त्वद्यशसा जितोऽवनिपते भासांनिधिस्तेजसा कन्दर्पो वपुषा सुधाजलनिधिर्वाचोविलासेन च।
तथ्यं ते जयशीलमेतदधुना त्वद्दानमद्दैन्ययोर्मध्ये कं नु विजेष्यतीति विषये दोलायते मे मनः॥ 191 ॥
यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रतामस्मिन्नेव बिभर्ति यश्च किरति क्रूरध्वनिं निष्ठुरः।
दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः परमेष एव नृपतिः सीमा गुणग्राहिणाम्॥ 192 ॥
देव त्वं जय यस्य राजति महाराष्ट्रीकुचोच्चं कुलं लाटीवाङ्मृदु नर्म चेदिवनितानाभीगभीरं मनः।
आभीरीकटिविस्तृता मतिरसिर्गौडीकचश्यामला कर्णाटीरतिनिष्ठुरो रणरसः कीरीमुखाभं यशः॥ 193 ॥
ते 10कौपीनधनास्त एव हि परं 11धात्रीफलं भुञ्जते तेषां द्वारि 12नदन्तिवाजिनिवहास्तैरेव लब्धा क्षितिः1
तैरेतत्समलङ्कृतं2 निजकुलं किंवा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टन वा॥ 194 ॥

साशङ्कस्य समाकुलीकृतमतेरत्यन्तनिस्तेजसश्छिन्नाङ्गस्य विकम्पमानहृदयस्यारूढमन्योर्भृशम्।
लज्जां सन्त्यजतः क्रमं विमृशतो विघ्नान्बहून्पश्यतः क्लेशो योऽर्थिजनस्य वक्तुमनसो मा भूत्स ते विद्विषाम्॥ 195 ॥
नो कामः प्रतिहन्यते प्रणयिषु स्वप्नेऽपि नाथ त्वया नैवाधः-कुरुषे वृषं द्विरसना व्याला न ते वल्लभाः।
नो बह्व्यस्तव मूर्तयो न च तनुर्नित्यं जडानुग्रहव्यग्रा नो विषमा च दृक्त्वमथ च ख्यातः क्षितावीश्वरः॥ 196 ॥
3सङ्ग्रामाङ्गणमागतेन भवता 4चापे 5समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम्।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम्॥ 197 ॥

हारानाहर देव चन्द्रधवलान्नो चेत्पयोधेस्तटीं सम्प्राप्ते त्वयि सैन्यवारणगणैर्मज्जद्भिरक्षोभितम्।
सिन्दूरारुणमम्बु मेघपटलीपीतोज्झितं शुक्तिषु स्वल्पैरेव दिनैः करिष्यसि महीमाताम्रमुक्ताफलाम्॥ 198 ॥
कृष्णत्वं घनमण्डलस्य गलितं लग्नं मुखे त्वद्द्विषां विद्युद्दाम जगाम तावकमतिं गर्जिर्भवद्दुन्दुभिम्।
वृष्टिस्त्वत्परिपन्थिपार्थिववधूनेत्रेषु चक्रे स्थितिं चापं ते वसुधाधिनाथ बलभित्कोदण्डकान्तिः श्रिता॥ 199 ॥
नालिङ्गन्ति कुचद्वयं भवदिभप्रोत्तुङ्गकुम्भद्वयत्रासाद्वेणिलतासु नैव दधति प्रीतिं तवासिभ्रमात्।
भ्रूभङ्गान्भवदीयदुर्धरधनुर्भ्रान्त्या भजन्ते न ते वैरिक्षोणिभुजो निजाम्बुजदृशां भूमण्डलाखण्डल॥ 200 ॥
अस्य क्षोणिपतेः 6परार्धपरया लक्षीकृताः संख्यया 7प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः।
गीयन्ते स्वरमष्टमं 8कलयता जातेन वन्ध्योदरान्मूकानां 9प्रकरणे कूर्मरमणीदुग्धोदधे 10रोधसि॥ 201 ॥

द्वारं 11खड्गिभिरावृतं बहिरपि प्रस्विन्नगण्डैर्गजैरन्तः 12कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः।
आक्रान्तं 13महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन्सैव चिरन्तनप्रणयिनी शून्येऽपि राज्यस्थितिः॥ 202 ॥

शौर्यं केसरिणा परोपकरणं कल्पद्रुमेणार्पितं लावण्यं मकरध्वजेन च शरच्चन्द्रेण शुभ्रं यशः।
धैर्यं ते कमठाधिपेन विपुलं गाम्भीर्यमम्भोधिना सौभाग्यं तु तवैव केवलमिदं तत्केन नो विद्महे॥ 203 ॥
कामं कामसमस्त्वमत्र जगति ख्यातोऽसि यत्सर्वदा रूपेणैव महीपते तव धनुःपाण्डित्यमन्यादृशम्।
त्वं यस्मिन्विशिखं विमुञ्चसि तमेवोद्दिश्य मुक्तत्रपं त्रुट्यत्कञ्चुकमुद्गतस्पृहमहो धावन्ति देवाङ्गनाः॥ 204 ॥
सर्वं लुण्ठितमुद्भटैस्तव भटैस्तेन द्विषत्सुभ्रुवस्त्राणाय त्वयि योजिताञ्जलिपुटं काकूक्तिमातन्वते।
त्राणं दूरत एव तिष्ठतु मनस्तासां त्वया लुण्ठितं तद्गम्भीर वदामि कुप्यसि न चेत्साधोरयं कः क्रमः॥ 205 ॥
कोदण्डस्तव हस्तगो हृदि वलत्यर्तिस्तव द्वेषिणां त्वं दाता रभसेन मार्गणगणस्तानेव सम्सेवते।
देव त्वं तु जयस्य मित्रमनिशं ते यान्ति वैकुण्ठतां सङ्ग्रामे तव भूपते महदिदं चित्रं समालोक्यते॥ 206 ॥
मेदिन्यां विषमेषुरित्यनुदिनं शृङ्गारवीरोद्भटाचार्यः श्रीजगतीपतिः कमलदृक्कैर्नाम नो गीयते।
शय्याया च रणाङ्गणे च पतिताः सीदन्ति निश्चेतनाः कामिन्यश्च विरोधिनश्च शतशो येनामुना खण्डिता-॥ 207 ॥
दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डचण्डांशुगध्वस्तोद्दण्डविपक्षमण्डलमथ त्वां वीक्ष्य मध्ये रणम्।
वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डवभ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत्॥ 208 ॥
को दण्डं न ददाति देव भवते कोदण्डमातन्वते को नारातिरुपैति पारमुदधेः कोणारुणे लोचने।
का कुञ्चान्तरमेत्य वैरितरुणी काकुं न वा भाषते राजन्गर्जति वारणे तव पुरः को वा रणे वर्तताम्॥ 209 ॥
दृष्ट्वा मण्डलमध्यलग्नमधुलिड्वेतण्डलक्षस्फुरत्तत्कोदण्डलसल्लतेषु लहरीः को न क्षमाखण्डल।
स्वारात्ताण्डवभागकाण्डवनभुग्धाराज्वलत्खाण्डवक्रुध्यत्पाण्डवकाण्डवर्षमतुलं ब्रह्माण्डवर्त्म स्मरेत्॥ 210 ॥
1आलानं जयकुञ्जरस्य 2दृषदां सेतुर्विपद्वारिधेः 3पूर्वाद्रिः करवालचण्डमहसो4 लीलोपधानं श्रियः।
सङ्ग्रामामृतसागरप्रमथ5नक्रीडाविधौ 6मन्दरो राजन्राजति वैरिराजवनितावैधव्यदस्ते भुजः॥ 211 ॥

लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा।
1इन्दुः किं घटितः किमेष विहितः 2पूषा किमुत्पादितं 3चिन्तारत्नमहो मुधैव किममी सृष्टाः 4कुलक्ष्माभृतः॥ 212 ॥

नानाभूषणभूषितः प्रतिभयापात्रं प्रभूता स्थितिर्भारासक्तकरो भवाधिकरुचिर्भूरीकृताश्वद्विपः।
शश्वत्सङ्गतभासमानमुकुटो भिक्षुप्रवृद्धादरस्त्वं राजेन्द्र रिपुस्तवापि नितरां भेदः परं भेदकृत्॥ 213 ॥
प्रत्यावासकसज्जतां प्रथमतस्त्वां योद्धुमुत्कण्ठिता योधास्तेऽभिसृता मनागरिचमूः स्वाधीननाथा स्थिता।
भीत्या प्रोषितभर्तृका समभवत्त्वत्सायकैः खण्डिता दूरादन्तरिता विधाय कलहं हा विप्रलब्धा विधे॥ 214 ॥
प्रामाण्यं स्वत एव नैव परतो विज्ञायते मानता शब्दस्यापि यथार्थता स्तुतिवचोराशेर्मनोवृत्तयः।
विश्वव्यापकतां गतो न च महानन्यो भ्रमः क्वापि ते नास्ते देव मतं किमस्ति भवतः शास्त्रेषु न ज्ञायते॥ 215 ॥
प्रामाण्यं परतः स्वतोऽपि भवतो विज्ञायते सन्मते भूमिन्द्र प्रचुरक्षणस्थिरतया वर्णाश्चिरं स्तापिताः।
सर्वज्ञैकसदीश्वरोऽपि न परं ब्रूते भवानीश्वरं तन्नैयायिकनायकस्य भवतो मीमांसकत्वं कुतः॥ 216 ॥
एकं वस्तु यदस्ति विश्वजनतानन्दप्रमोदात्मकं सत्यं तत्त्वमसीति वाक्यमखिलं त्वय्येव विश्राम्यति।
त्वामाकर्ण्य न किञ्चिदन्यदवनीशृङ्गार भो मन्यते त्वय्याप्ते जनकादिकीर्तिजनके किं ज्ञानमीमांसया॥ 217॥
त्वद्बाणेषु यमो जयेषु नियमः पाते स्तिरं चासनं भ्रान्तौ श्वासविनिग्रहो गुणगणे प्रत्याहृतिः श्रीमतः।
ध्यानं शूलिनी धारणा च धरणेर्धर्मे समाधिर्यतस्तन्निर्विण्णहृदः किमीश्वरपरे वाञ्छन्ति पातञ्जले॥ 218 ॥
दृष्टान्तो न तवास्ति वाचि न च ते सन्देहलेशः क्वचिद्व्याजोक्तिर्न कदापि शास्त्रकलने नैवानुमाने रुचिः।
सामान्यं च विशेषवन्न मनुषे नाक्षेपबुद्धिर्मनाग्व्याघातोऽपि न वा मुखेऽप्यथ कथं साहित्यतर्कज्ञता॥ 219 ॥
मेघो भाति जलेन गौस्तु पयसा विद्वन्मुखं भाषया तारुण्येन च कामिनी मधुरया वाण्या पिकः खं जलात्।
मालिन्यान्नयनं श्रिया च सदनं ताम्बूलरागान्मुखं ब्रह्माण्डं सकलं त्वया नरपते भाति स्म चित्रं महत्॥ 220 ॥
दारिद्र्योपहतो यथा घनधनं चान्द्रीं चकोरः प्रभां कामार्तस्तरुणीं क्षुधापरिगतः सद्व्यञ्जनं भोजनम्।
सच्छिष्यः सुगुरुं वियोगविधुरो वत्सो यथा मातरं तद्वद्वः सततं स्मरामि मनसा मद्वत्सलाञ्श्रीमतः॥ 221 ॥
लक्ष्मीस्ते सदने सदा विहरतां वित्ते च चिन्तामणिः स्वर्धेनुस्तव गोकुले सुरतरुश्चारामभूमौ तव।
वाणी ते वदने दया नयनयोर्दानं करे चान्वहं विष्णुश्चेतसि ते मतिश्च वसतां कीर्तिश्च लोकत्रये॥ 222 ॥
गङ्गायत्यसितापगा फणिगणः शेषीयति श्रीपतिः श्रीकण्ठीयति कैरवीयति कुलं नीलोत्पलानां च वै।
कर्पूरीयति कज्जलं पिककुलं लीलामरालीयति स्वःकुम्भीयति कुम्भिनामपि घटा त्वत्कीर्तिसङ्घट्टतः॥ 223 ॥
लक्ष्मीस्ते हृदि भारती च वदने मौलौ सदा केशवश्चण्डी ते भुजदण्डयोर्गुणनिधे गेहे कुबेरस्थितिः।
चित्तं नाथ तवास्तु धर्मसदने दानप्रसङ्गः करे सर्वास्ते विपदः प्रयान्तु विपिने त्वं दीर्घजीवी भव॥ 224 ॥
आयुस्ते नरवीर वर्धतु सदा हेमन्तरात्रिर्यथा लोकानां प्रियवर्धनो भव सदा हेमन्तसूर्यो यथा।
लोकानां भयवर्धनो भव सदा हेमन्ततोयं यथा नाशं यान्तु तवारयोऽपि सततं हेमन्तपद्मं यथा॥ 225 ॥
यद्बाहू वहतः पराक्रमहतप्रत्यर्थिसीमन्तिनीचक्षुःकज्जलकालिकामिव धनुर्मौर्वीकिणश्यामिकाम्।
यद्दोर्दुर्मदकर्मकार्मुकगुणप्रोत्तालकोलाहलैर्वैरिस्त्रीकलमेखलाकलकलाः पीता इवास्तं गताः॥ 226 ॥
सौन्दर्यं मदनादपि प्रथयति प्रौढिप्रकर्षं पुरां भेत्तारं मदनारिमप्यधरयत्युद्दामदोःक्रीडितम्।
मुग्धत्वं मदानारिमौलिशशिनोऽप्युत्कर्षमालम्बते मूर्तैस्तत्किमसौ रसैर्विरचितः शृङ्गारवीराद्भुतैः॥ 227 ॥
आदाय प्रतिपक्षकीर्तिनिवहान्ब्रह्माण्डभूषान्तरे निर्विघ्नं धमता नितान्तमुदितैः स्वैरेव तेजोग्निभिः।
तत्तादृक्पुटपाकशोधितमिव प्राप्तं गुणोत्कर्षिणां पिण्डस्थं च महत्तरं च भवता निःक्षारतारं यशः॥ 228 ॥
1व्यास्यं नैकतयास्थितं 2श्रुतिगणं 3जन्मी न वल्मीकतो नाभौ 4नाभवमच्युतस्य सुमहद्भाष्यं च 5नाभाषितम्।
चित्रार्थां न 6बृहत्कथामचकथं 7सुत्राम्णि नासं 8गुरुर्देव त्वद्गुणवृन्दवर्णनमहं कर्तुं कथं शक्नुयाम्॥ 229 ॥

एकाभूत्कुसुमायुधेषुधिरिव प्रव्यक्तपुङ्खावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोलस्थली।
लोलाक्षीं क्षणमात्रभाविविरहक्लेशासहां पश्यतो द्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम्॥ 230 ॥
येषां दोर्बलमेव दुर्बलतया ते सम्मतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः।
ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमास्ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम्॥ 231 ॥
अत्युच्चाः परितः स्फुरन्ति गिरयः 1स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः।
आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः॥ 232 ॥

येषां कण्ठपरिग्रहप्रणयितां सम्प्राप्य 2धाराधरस्तीक्ष्णः सोऽप्यनुरज्यते च कमपि 3स्नेहं पराप्नोति च।
तेषां सङ्गररङ्गसक्तमनसां राज्ञां त्वया भूपते पांशूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम्॥ 233 ॥

द्वेष्याकीर्ति4कलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयीकीर्तिश्रेणिमयी समागममगाद्गङ्गा रणप्राङ्गणे।
तत्तस्मिन्विनिमज्य 5बाहुजभटैरारम्भि6 रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः॥ 234 ॥

अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायति 7कम्पं सात्त्विकभावमञ्चति8 रिपुक्षोणीन्द्रदारा धरा।
अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं9 निजः पन्था10 भास्वति11 दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः॥ 235 ॥

विद्राणे 12रणचत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात्कोऽपि निवर्तते यदि भटः कीर्त्या 13जगत्युद्भटः।
आगच्छन्नपि सम्मुखं विमु14खतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण 15ठणिति छिन्नापसर्पच्छिराः॥ 266 ॥

हित्वा दैत्यरिपोरुरः16 स्वभवनं 17शून्यत्वदोषस्फुटासीदन्म18र्कटकीटकृत्रिमसितच्छत्रीभवत्कौस्तुभम्।
उज्झित्वा निजसद्म पद्ममपि 19तद्व्यक्तावनद्धीकृतं लूतातन्तुभिरन्तरद्य भुजयोः 20श्रीरस्य विश्राम्यति॥ 237 ॥

सिन्धोर्जैत्रमयं21 पवित्रमसृजत्तत्कीर्तिपूर्ता22द्भुतं यत्र स्नान्ति जगन्ति सन्ति कवयः के वा न वाचंयमाः23
यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य 1दृश्येतरो 2यस्यासौ जलदेवतास्फठिकभूर्जागर्ति 3यागेश्वरः॥ 238 ॥

युद्ध्वा चाभिमुखं रणस्य चरणस्यैवाद4सीयस्य वा बुद्ध्वान्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः।
छिन्नं 5वावनतीभवन्निजभियः खिन्नं 6भरेणाथवा राज्ञानेन हठाद्विलो7ठितमभूद्भूमावरीणां शिरः॥ 239 ॥

राज्ञामस्य शथेन किं कलयतो हतिं8 शतघ्नीं 9कृतं लक्षैर्लक्ष10भिदो दृशैव जयतः 11पद्मानि 12पक्षैरलम्।
कर्तुं सर्वपरच्छिदः13 किमपि नो शक्यं परार्धेन14 वा तत्संख्या15पगमं विनास्ति न गतिः काचिद्बतैतद्द्विषाम्॥ 240 ॥

क्षीरोदन्वदपः प्रमथ्य16 मथि17तादेशे18ऽमरैर्निर्मिते 19स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम्।
केषां नाजनि वा जनेन जगतामेतत्कवित्वामृतस्रोतःप्रोतपिपा20सुकर्णकलसीभाजाभिषेकोत्सवः॥ 241 ॥

निस्त्रिं21शत्रुटितारिवारणघटाकुम्भास्थि22कूटा23वटस्थानस्था24युकमौक्तिकोत्करकिरः25 कैरस्य नायं करः।
26उन्नीतश्चतुरङ्गसैन्यसमरत्व27ङ्गत्तुरङ्ग28त्वरक्षुण्णासु क्षितिषु क्षिप29न्निव यशःक्षौणीज30बीजव्रजम्॥ 242 ॥

यत्कस्यामपि 31भानुमान्न ककुभि स्थेमान32मालम्बते जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना।
एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती33 धिक्तं 34वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः॥ 243 ॥

आत्मन्यस्य 35समुच्चितीकृतगुणस्याहोतरामौचिती यद्गात्रान्तरवर्जना36दजनयद्भूजानिरेष द्विषाम्।
भूयोऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि 37दलं दलं समिदलं38कर्मीणबाणव्रजः॥ 244 ॥

यद्भर्तुः कुरुतेऽभिषेण39नमयं शक्रो भुवः सा ध्रुवं दिग्दाहैरिव भस्मभिर्मघवता सृष्टैर्घृतोद्धू40लना।
शम्भोर्मा बत सान्ध्यवेलनटनं भाजि41 व्रतं द्रागिति क्षौणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया॥ 245 ॥

प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समग्रस्त्विषां कोषः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः।
निःशेषद्युतिमण्डलव्ययवशादीष1ल्लभैरेष वा शेषः केशमयः किमन्धतमसस्तोमैस्ततो निर्मितः॥ 246 ॥

अस्यारिप्रकरः शरश्च नृपतेः संख्ये2 पतन्तावुभौ सीत्कारं3 च न सम्मुखौ रचयतः 4कम्पं च न प्राप्नुतः।
तद्युक्तं न पुनर्निवृत्तिरु5भयोर्जागर्ति यन्मुक्त6योरेकस्तत्र भिनत्ति मित्र7मपरश्चामित्रमित्यद्भुतम्॥ 247 ॥

एतस्योन्नतसर्वकर्मकृतिनस्त्रैलोक्यचूडामणेः शम्भुब्रह्मपुरन्दरप्रभृतयः स्तुत्यै न शक्ता यदि।
देवः पन्नगनायको भगवती वाणी स्वयं चेज्जडा सौन्दर्यस्य निरूपणे वद कथं शक्तो भवेन् मानवः॥ 248 ॥
अर्धं 8दानववैरिणा गिरिजयाप्यर्धं हरस्याहृतं देवेत्थं भुवनत्रये स्मरहराभावे 9समुन्मीलति।
गङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं सर्वज्ञत्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम्॥ 249 ॥

अन्यास्ता गुणरत्नरोहणभुवो10 धन्या मृदन्यैव सा सम्भाराः खलु तेऽन्य एव विधिना यैरेव सृष्टो युवा।
श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलाद्दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च॥ 250 ॥

यैर्दृष्टोऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपुरोभागः परान् दारयन्।
तेषां दुःसहकामदेहदहनप्रोद्भूतनेत्राञ्जलज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम्॥ 251 ॥
येऽणुत्वं मनसि स्वके विवृणुते रीत्या कयापि स्फुटं काणादाचरणस्य तत्समुचितं मन्ये प्रतिक्ष्माभृताम्।
न्यायाभिज्ञतमोऽपि यत्प्रथयसे चित्ते महत्त्वं निजे मीमांसामतपक्षपातत इदं मन्ये त्वयाङ्गीकृतम्॥ 252 ॥
ये लब्धाश्रयमायतः फलभृतं कुर्वन्ति किञ्चिद्गुणं वार्धी वारिमुचो न कस्य विदितास्ते कर्ममीमांसकाः।
आलोच्यैव निराश्रयान्फलभरैः सम्बन्धतः सद्गुणाञ्श्रीमद्राम तवाद्भुतं पुनरिदं मीमांसकत्वं स्तुमः॥ 253 ॥
त्रैलोक्याभयलग्नकेन भवता वीरेण विस्मारितः सज्जीभूतमुहूर्तमण्डलधनुःपाण्डित्यमाखण्डलः।
किं चाजस्रमखार्पितेन हविषा सम्फुल्लमांसोल्लसत्सर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्तते॥ 254 ॥
कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसाविति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे।
श्रीनारायण एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति प्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत्॥ 255 ॥
नीतिस्त्रीमुकुरो जयध्वजनवस्तम्भः प्रतापांशुमत्पूर्वा दिक्परिपन्थिभूपतिमहासम्पन्मृगीवागुरा।
उद्यत्पुण्यलतालवालमतनून्मत्तद्विपा1लानकं यः श्रीकेलिनिकेतनं गुणमणिश्रेणी नवीनाकरः॥ 256 ॥

रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराञ्शिश्रिये स्वीयाङ्के कमलां निधाय विदधे निद्रां हरिर्नीरधौ।
यस्मिन्दित्सति भूरि दातरि नृणां भालस्थले दुर्लिपिं व्रीडानम्रशिराः कमण्डलुमयं जग्राह मार्ष्टुं विधिः॥ 257 ॥
लक्ष्मीश्चेन्न सरस्वती तदुभयं यद्यस्ति नोदारता सा चैतत्त्रितयं भवेच्च कुहचित्पुण्यैरगण्यैरपि।
सौजन्यं न विजृम्भते तदपि चेन्नास्तेऽवक्लृप्ता मतिस्तत्सर्वं परमेश्वरस्य कृपया त्वय्येव सम्भाव्यते॥ 258 ॥
शत्रूणां यमदण्डतां मृगदृशां कन्दर्पकोदण्डतां गीर्वाणद्रुमभावमर्थिविदुषां मध्ये त्रयाणामिति।
आश्चर्यं मनुजेन्द्ररत्न भवतो यद्बाहुदण्डद्वयं नानात्वं गतमेकमेव जगतां मध्ये त्रयाणामिति॥ 259 ॥
रक्तेनैव विलोचनेन 2करुणारत्नाकरेण त्वया दृश्यन्ते नरदेवरत्नसुहृदां विद्वेषिणो नो नृपाः।
किं सिक्ताः प्रथमं सुधाभिरभवन्दावानलैः किं परैः पूर्वं पल्लविताः कुतः किमपरे भस्मत्वमासादितम्॥ 260 ॥

या लाक्षावलयानि बाहुयुगले कण्ठे च काचस्रजं मन्यन्ते बहुभूषणानि वनिता दीनद्विजानां पुरा।
ता माणिक्यचितानि हेमवलयान्युज्झन्ति मुक्तास्रजं यद्भाराद्बहुदानशीलनृपते त्वत्त्यागलीलायितम्॥ 261 ॥
मेरुर्दूरगतो हिमालयगिरिः प्रालेयरूपोऽभवच्चन्द्रे श्रीसहजेऽपि याचकभयात्क्षीणत्वमुन्मीलति।
कौपीनं कृतवान्हरोऽपि भगवान्विष्णुर्जलं सेवते वारां राशिरपेयतागुपगतः को नाम दातुं क्षमः॥ 262 ॥
कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां सम्पत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम्।
वाक्यं सम्वदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयतामायुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे॥ 263 ॥
दृष्ट्वैवाङ्कुशमुद्रया निगडितो दारिद्र्यदन्तावलो वाचा सुन्दरयार्चया मम कृतो गङ्गावगाहोत्सवः।
अभ्युत्थाननमस्क्रियार्धघटनैर्मानोऽपि दानोत्तरो लीलेयं भवता वयं तु विदुषां मूर्धानमध्यासिताः॥ 264 ॥
पद्मा सद्मनि केशवस्य गहने रत्नानि रत्नाकरे हेमाद्रिर्हिमसानुना व्यवहितः स्वर्गे सुराणां तरुः।
जम्बुद्वीपधरासु भूमिपतयो जाम्बूनदैर्दुर्मदास्त्वं तावत्सकलाप्तयेऽसि सुलभो भाग्यैर्द्विजानामिह॥ 265 ॥
राजन्नभ्युदयोऽस्तु जीव शरदां साग्रं शतं तेऽरयो रोगैर्यान्तु लयं यशशशशधरः काष्ठासु देदीप्यताम्।
शिष्टान् पाहि बुधान्नय प्रणतिभिर्देह्यर्थिनां स्वं सदा वाणी ते वदने रमा प्रतिदिनं गेहे भुजे स्ताज्जयः॥ 266 ॥
प्रभ्रश्यच्छ्रुतिमस्तकः प्रविगलत्सद्वर्णविप्रस्थितिर्नश्यत्स्वाङ्गबलः प्रनष्टवचनप्राग्भावपूर्णस्मृतिः।
वृद्धोऽत्यन्तमयं स्वयं कलिमहाम्लेच्छेन निर्मूलितो धर्मः सम्प्रति चाल्यते तव करालम्बेन भूमीपते॥ 267 ॥
बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः।
अस्माकं सुकृतैर्दृशोर्निपतितोऽस्यौचित्यवाराम्निधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयते॥ 268 ॥
हित्वा त्वामुपरोधशून्यमनसां मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र सन्दृश्यते।
यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितेः॥ 269 ॥
धर्मं पालय नन्दय द्विजगणान्रामं समाराधय प्रत्यर्थिक्षितिपालभूरुहवनं निर्मूलमुन्मीलय।
कान्ताचित्तसरोजसौभगवने भृङ्गत्वमासादय स्फीतां कीर्तिमशेषलोकजयिनीमाकल्पमाकल्पय॥ 270 ॥
ऐश्वर्यं नहुषस्य शम्भुविषयश्रद्धा दशास्यस्य सा शौर्यं श्रीरघुनायकस्य सहजं गाम्भीर्यमम्भोनिधेः।
दातृत्वं बलिकर्णयोरिह जगत्येकत्र चेत्स्यात्तदा श्रीवीरक्षितिपालमौलिनृपतेः साम्यं कथञ्चिद्भवेत्॥ 271 ॥
भिक्षुद्वारि सदानवारिमधुपश्रेणीमि1भान्दूभ्रमाद्धत्ते यन्तृवधूर्वधूकरतलं शोणाम्बुजाशङ्कया।
सैवान्वेति पलायितेति चकिता हस्ताग्रमाधुन्वती मुग्धा वीरमहीपते तदखिलं त्वद्दानलीलायितम्॥ 272 ॥

श्रीवीर क्षितिपाल ते सुललितं दानोद्यमे यद्वचः क्वास्ते सर्वहिरण्यमित्युदभवत्तत्कालमाकर्ण्य तत्।
तापः प्राप हिरण्यरेतसि जनिं जाड्यं हिरण्याचले स्वेदाम्भोऽपि हिरण्यगर्भवपुषि स्वापाय सन्त्रासतः॥ 273 ॥
राजानः शशिभास्करान्वयभुवः के के न सन्जज्ञिरे भर्तारं पुनरेकमेव हि भुवस्त्वां वीर मन्यामहे।
येनाङ्गं परिमृद्य कुन्तलमथाकृष्य व्युदस्यायतं चोलं प्राप्य च मध्यदेशमसकृत्काञ्च्यां करः प्रापितः॥ 274 ॥
स्वान्ते वैभवमस्ति नैव परतः प्रामाण्यनिर्धारणं नैवातद्वति तत्प्रकारकमतिर्नैवोपमानं तव।
त्वद्देशेषु विभाति न च्छलकथा नो वा क्वचित्संशयः श्रीवीर प्रथिता कथं पुनरियं नैयायिकत्वप्रथा॥ 275 ॥
वीर क्षीरसमुद्रसान्द्रलहरीलावण्यलक्ष्मीमुषस्त्वत्कीर्तेस्तुलनां मृगाङ्कमलिनो धत्तां कथं चन्द्रमाः।
स्यादेतत्त्वदरातिसौधशिखरप्रोद्भूतदूर्वाङ्कुरग्रासव्यग्रमतिः पतेद्यदि पुनस्तस्याङ्कशायी मृगः॥ 276 ॥
श्रीमद्वीर महीमहेन्द्र भवतः प्रस्थानकालोद्भवद्वादित्रध्वनिभीतभानुहरयो द्रागम्बरं प्रागमन्।
तस्मिन्नेवमुपद्रवे किल विपर्यस्तं समस्तं रवेर्युग्याः1 सप्तरथाङ्गमेकमपदः सूतश्चिरादुद्भ्रमः॥ 277 ॥

गर्वग्रन्थिलगुर्जरज्वरकरः कर्णाटकर्माटवीदावाग्निर्दविडेन्द्रवीर्यदलनो गौडेन्द्रनिद्राहरः।
हम्मीरप्रमदामदालसलसद्भ्रूनर्तनस्तम्भनप्रस्थाने तव वीर डिण्डिमचमत्कारः समुज्जृम्भते॥ 278 ॥
चिन्तागम्भीरकूपादनवरतचलद्भूरिशोकारघट्टव्याकृष्टं निश्वसन्त्यः पृथुनयनघटीयन्त्रनिर्मुक्तधारम्।
नासावंशप्रणा2लीविषमपथपतद्बाष्पपानीयमेता देव त्वद्वैरिनार्यः कुचकलशयुगेनान्वहं सम्वहन्ति॥ 279 ॥

त्वत्प्रारब्धप्रचण्ड3प्रधननिध4नितारातिवीरातिरेकक्रीडत्की5लालकुल्या6वलिभिरलभत 7स्यन्दमाकन्दमुर्वी।
8दम्भोलिस्तम्भभास्वद्भुज 9भुजगजगद्भर्तुराभर्तुरेनां तेनायं मूर्ध्नि रत्नद्युतिततिमिषतः शोभते शोण10भावः॥ 280 ॥

आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताकू11पारपारीसदनजनघनोद्वी12तचापप्रतापः।
वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश्चूडारत्नोडुपत्नी13करपरिचरणामन्दनन्दन्नखेन्दुः॥ 281 ॥

एतेनोत्कृ14त्तकण्ठप्रतिसुभटनटा15रब्धनाट्याद्भुतानां कष्टुं द्रष्टैव नाभूद्भुवि 16समरसमालोकिलोकास्पदेऽपि।
अश्वैरस्वैरवेगैः17 कृतखुरखु18रलीमङ्क्षु19संक्षु20द्यमानक्ष्मापृष्ठोत्तिष्ठदन्धं करणरणधुरारेणुधारान्धकारात्॥ 282 ॥

आ शैलेन्द्राच्छिलान्तःस्खलितसुरधुनीशीकरासारशीतादातीरान्नैकरागस्फुरितमणिरुचो दक्षिणस्यार्णवस्य।
आगत्यागत्य भीतिप्रणतनृपशतैः शश्वदेव क्रियन्ते चूडारत्नांशुगर्भास्तव चरणयुगस्याङ्गुलीरन्ध्रभागाः॥ 284 ॥
श्रावं श्रावं त्वदीयं गुणगणमखिलं सर्वदा याचकेभ्यस्त्वत्प्राप्ताभीप्सितेभ्यः सकलविषयजं भूपवर्गं विहाय।
त्वत्तोऽहं प्राप्तुमिच्छुर्विबुधतिलकतां त्वत्समीपेऽतिदूरादायातस्त्वं शतायुर्भव कुरु च तथा येन नान्यं भजेऽहम्॥ 285 ॥
विद्यावन्तो विनीताः प्रसभमभिसभं वाक्प्रपञ्चेषु जीवाः के वा नैवारभन्ते त्रिजगति विततां कीर्तिवल्लीमतल्लीम्।
तेषामाधारभावं भुवनभरभृतो बिभ्रतो ये लसन्ते ते तु त्रैलोक्यतुङ्गा विमलफलजुषः स्वःपतिं खल्पयन्ति॥ 286 ॥
वक्त्राम्भोजं 1सरस्वत्यधिवसति सदा शोण2 एवाधारस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते 3समुद्रः।
4वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं स्वच्छेऽन्तर्मा5नसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः॥ 287 ॥

केचिद्बद्धाः सहेलं निजभवनगता मोचिताः केऽपि केचिद्गेहाद्गेहान्तराणि क्षणमपि गमिताः केऽपि नीता निबन्धम्।
हत्वा हत्वा च केचित्प्रतिपदमदयं प्रापिता व्यर्थभावं क्षोणीनाथस्य तस्योन्नतभुजपरिघेनारयः 6सारयश्च॥ 288 ॥

उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी।
कोषापेक्षी परस्मादुचितबहुकथस्तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस्तत्र कम्पं7 प्रतीमः॥ 289 ॥

उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रतिष्ठां बाधेन प्राक्तनानां न च नियमविधिर्नापि सङ्ख्यार्थदाने।
ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया॥ 290 ॥
हेलाप्रस्थानवेलाहतपृथुपृतनादुन्दुभिध्वानधाराधारावाहिप्रसङ्गादसमनृपसकृत्संभ्रमभ्रान्तचित्ताः।
दैवादाकुञ्चिताङ्गं विगलितनयनस्पन्दमिन्दीवराक्ष्यो लीयन्ते त्वद्रिपूणां निजगृहवलभीचारुभित्राङ्गनासु॥ 291 ॥
8श्रीकण्ठासक्तहस्तोऽधिगतमणिगणः शैशवाभ्यस्तविद्यो लावण्यध्वस्तकामः कविजनमिलितो यौवनाप्तप्रकामः।
आदत्तक्षोणिदण्डो द्विजवशकृतधीः कङ्कणाहारयुक्तः स श्रीमान्वीर वीर त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः॥ 292 ॥

लोकानां मानमात्रं मनुजजनरतिस्त्वं ससूदाङ्घ्रिरक्षो राज्ञामासत्त्वदक्षः कृतसमयरुचिर्मण्डितो वीरवर्गैः।
कायत्वङ्मीनकेतु करकलितयवा कोषमानौर्विहीनः श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र 1मन्दं प्रतीमः॥ 293 ॥

वादानाशानुयुक्तो नगरकृतमतिर्यौवनाक्रान्तदेहः सङ्ग्रामप्राप्तदैर्यो न विदलितरुची राजलक्ष्म्यातिहीनः।
नित्यं दारासभस्थः प्रखरतनुनिभो यः सुभिक्षानुवर्ती श्रीमद्वीराधिराज त्वमिव तव रिपुस्तत्र मुक्तादिवर्णः॥ 294 ॥
श्रीवीर त्वद्रिपूणां रणशिरसि शरैर्भिन्नशीर्षाङ्गकाणां वीरावेशाद्गतानां दिवमधिकरुषान्योन्यशौण्डीर्यभाजाम्।
श्लेषे दिव्याङ्गनानां भुवि कचनिचयो द्राक्कटाक्षे शरासासीषुभ्रान्त्यारिवीरभ्रमकुटिलहृदामाजिरावर्तते स्म॥ 295 ॥


  1. वैरिणः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. पलायनाभावादित्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. उरःस्थलम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. ज्याः.[पक्षे] विनयादिः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. शरव्यम्; [पक्षे] लक्षद्रव्यम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  6. याचकाः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  7. बाणाः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  8. पृथिवीपतिः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  9. किरणा हस्ताश्च. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  10. दिशो मनोरथाश्च. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  11. बहुधारा गलन्ति यस्य तदाज्यं घृतम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  12. शेषः; [पक्षे] जारः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  13. फणा; [पक्षे] उपभोगः. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  14. भार्या. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  15. तुलाराशिम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  16. वृश्चिकराशौ. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  17. सर्पाणाम्; [पक्षे] कामिनाम्. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  18. कृतयुगेन. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  19. अनुगता दारा वनिता यस्य. वशीकृतवनित इत्यर्थः. ↩︎ ↩︎ ↩︎ ↩︎

  20. अनुत्सवदा. ↩︎ ↩︎ ↩︎ ↩︎

  21. रक्षकम्. शत्रूणां पलायनस्थानत्वात्. ↩︎ ↩︎ ↩︎

  22. द्यूतनृत्यादि. ↩︎ ↩︎ ↩︎

  23. अविस्तीर्णम्. दुःखदशायां तदविस्तारात्. ↩︎ ↩︎ ↩︎

  24. स्थायिनः. ↩︎

  25. समूहः. ↩︎

  26. उत्प्रेक्षितः. ↩︎

  27. सञ्चरत्. ↩︎

  28. कुष्टासु. ↩︎

  29. वपन्निव. ↩︎

  30. वृक्षः. ↩︎

  31. सूर्यः. ↩︎

  32. स्थिरत्वम्. ↩︎

  33. औचित्यम्. ↩︎

  34. अग्नेर्जलं सहजद्वेषि तस्मिन्. ↩︎

  35. समाहृतगुणस्य. ↩︎

  36. दण्डनमकरोदित्यर्थः. ↩︎

  37. दलयित्वा. ↩︎

  38. अमोघबाण इत्यर्थः. ↩︎

  39. सेनयाभियानम्. ↩︎

  40. धृतभस्मानुलेपना. ↩︎

  41. मा अभञ्जि. ↩︎