सभाकल्पतरुं वन्दे वेदशाखोपशोभितम्।
शास्त्रपुष्पसमाकीर्णं विद्वद्भ्रमरमण्डितम्॥ 1 ॥
विद्वांसः कवयो भट्टा गायकाः परिहालकाः।
इतिहासपुराणज्ञाः सभा सप्ताङ्गसंयुता॥ 2 ॥
धनदैर्धर्मराजैश्च कविभिर्गुरुभिर्वृता।
सभा ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ॥ 3 ॥
सुवर्णवर्णललिता पदविन्यासशालिनी।
वाणीव भाति ललिता सभा ते जगतीपते॥ 4 ॥
विबुधावलिसम्पूर्णा सुखपूर्णदिगीश्वरा।
चतुराननसम्पूर्णा स्वर्गादपि सभाधिका॥ 5 ॥
1गुरुरेकः 2कविरेकः सदसि 3मघोनः 4कलाधरोऽप्येकः।
अद्भुतमत्र सभायां गुरवः कवयः कलाधराः सर्वे॥ 6 ॥
अनेकविद्वज्जनरत्नपूर्णं वेदोदकन्यायतरङ्गरम्यम्।
अलङ्घनीयं गुरुतीर्थमेकं सभासमुद्रं शिरसा नमामि॥ 7 ॥
सारस्वते स्रोतसि दूरमग्नैः सुधीवरैरुद्भृतसूक्तिरत्ने।
न तत्किमप्युर्वरितं यदेषामुपायनीकृत्य पुरो भवेयम्॥ 8 ॥
सद्वेदिमध्योत्तमहेमकुम्भस्तना सुवर्णाधिकृता प्रसन्ना।
सद्रत्नभूषाविमला त्वयासौ कान्तेव सम्सन्नृप भाति रम्या॥ 9 ॥
पद्मानना पद्मपलाशनेत्रा पद्मच्छविः पद्मकरामलांशुका।
5पद्मीशनाथैः परिशीलनीया लक्ष्मीरिवाभाति नरेश ते सभा॥ 10 ॥
साग्नयोऽपि किल शीतलशीला विश्रुता अपि बहु श्रुतवन्तः।
पण्डिता अपि जडाः परवादे श्रोत्रिया इह सदा निवसन्ति॥ 11 ॥
क्वचिच्चारुचामीकरारम्भरम्या क्वचिद्रत्नविद्योतितध्वान्तदक्षा।
क्वचिद्धीरकश्रेणिकैलासहासा क्वचित्क्षीरवीरप्रवीरप्रकाशा॥ 12 ॥
नाहूतापि पुरः पदं रचयति प्राप्तोपकण्ठं हठात्पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते।
वैवर्ण्यं स्वरभङ्गमञ्चति बलान्मन्दाक्षमन्दानना कष्टं भोः प्रतिभावतोऽप्यभिसभं वाणी नवोढायते॥ 13 ॥
चिन्तासक्तनिमग्नमन्त्रिसलिलं दूतोर्मिशङ्खाकुलं पर्यन्तस्थि6तचारनक्रमकरं नागाश्वहिंस्राश्रयम्।
7नानावाशककङ्कपक्षिरुचिरं कायस्थसर्पास्पदं नीतिक्षुण्णतटं च 8राजकरणं हिंस्रैः समुद्रायते॥ 14 ॥