बालस्यापि रवेः 1पादाः पतन्त्युपरि 2भूभृताम्।
तेजसा सह जातानां वयः कुत्रोपयुज्यते॥ 1 ॥
एकः स एव तेसज्वी सैंहिकेयः3 सुरद्विषाम्।
शिरोमात्रावशेषेण जीयन्ते येन शत्रवः॥ 2 ॥
मौनी पादप्रहारेऽपि न क्षमी नीच एव सः।
आकृष्टशस्त्रो मित्रेऽपि न तेजस्वी खलो हि सः॥ 3 ॥
तुल्येऽपराधे 4स्वर्भानु5मन्तं चिरेण यत्।
6हिमांशुमाशु ग्रसते 7तन्म्रदिम्नः स्फुटं फलम्॥ 4 ॥
स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि।
निदर्श8न9मसाराणां 10लघुर्बहु11तृणं नरः॥ 5 ॥
तेजस्विमध्ये तेजस्वी 12दवीयानपि गण्यते।
पञ्चमः 13पञ्चतपसस्तपनो जातवेदसाम्॥ 6 ॥
अकृत्वा हेलया पादमुच्चैर्मुर्धसु विद्विषाम्।
14कथंकारमना15लम्बा कार्तिर्द्यामधिरोहति॥ 7 ॥
अङ्काधिरोपितमृगश्चन्द्रमा मृगलाञ्छनः।
केसरी निष्ठुरक्षि16प्तमृगयूथो मृगाधिपः॥ 8 ॥
तेसस्विनि क्षमोपेते नातिकार्कश्यमाचरेत्।
अतिनिर्मन्थनादग्निश्चन्दनादपि जायते॥ 9 ॥
तजोहीने महीपाले स्वे परे च विकुर्वते।
निःशङ्को हि जनो धत्ते पदं भस्मन्य1नूष्मपि॥ 10 ॥
एकचक्रो रथो 2यन्ता विकलो3 विषमा 4हयाः।
आक्रमत्येव तेजस्वी तथाप्यर्को नभस्तलम्॥ 11 ॥
साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते।
तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम्॥ 12 ॥
येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा।
अनस्तमितसारस्य तेजसस्तद्विजृम्भितम्॥ 13 ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु5 गजेषु।
प्रकृतिरियं 6सत्त्ववतां न खलु वयस्तेजसो हेतुः॥ 14 ॥
यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः।7
तत्तेजस्वी पुरुषः परकृतनिकृतिं8 कथं सहते॥ 15 ॥
दर्शितता9पोच्छ्रा10यैस्ते11जोवद्भिः सुगोत्रसंजातैः12।
हीरैरप्स्विव धीरैरापत्स्वपि गम्यते नाधः॥ 16 ॥
दीप्यन्तां ये दीप्त्यै 13घटिता मणयश्च वीरपुरुषाश्च।
तेजः स्वविनाशाय तु भवति तृणानामिल लघूनाम्॥ 17 ॥
मदसिक्तमुखैर्भृगाधिपः करिभिर्वर्तयते स्वयंहतैः।
लघयन्खलु तेजसा जगन्न महानिच्छति भूतिमन्यतः॥ 18 ॥
तीव्रोष्णदुर्विषहवीर्यभृतः परेषां तेजस्विनो न गणयन्ति वपुर्महत्त्वम्।
यत्पद्मरागशकलाकृतिरद्रितुङ्गं कार्त्स्न्येन भस्मयति काष्ठचयं स्फुलिङ्गः॥ 19 ॥
न तेजस्तेजस्वी 14प्रसृतमपरेषां प्रसहते स तस्य स्वो भावः 15प्रकृतिनियतत्वादकृतकः16।
17मयूखैर18श्रान्तं तपति यदि देवो दिनकरः किमा19ग्नेयग्रावा निकृत20 इव तेजांसि वमति॥ 20 ॥
हस्ती स्थूलतनुः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशो वज्रेणाभिहताः पतन्ति गिरयः किं शैलमात्रः 21पविः।
दीपे प्रज्वलिते विनश्यति तमः किं दीपमात्रं तमस्तेजो यस्य विराजते स बलवान्स्थूलेषु कः 22प्रत्ययः॥ 21 ॥
स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधः शान्तये।
सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः 1सत्त्वानुरूपं फलम्॥ 22 ॥
शमयति गजानन्यान्गन्धद्विपः कलभोऽपि सन्भवति सुतरां वेगोदग्रं भुजंगशिशोर्विषम्।
भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं स्वकार्यसहो भरः॥ 23 ॥