४१ वीरप्रशंसा

एकेनापि हि शूरेण पदाक्रान्तं महीतलम्।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा॥ 1 ॥
बहवः पङ्गवोऽपीह नराः शास्त्रण्यधीयते।
विरला रिपुखड्गाग्रधारापातसहिष्णवः॥ 2 ॥
अनन्तोद्भूतभूतौघसंकुले भूतलेऽखिले।
शस्त्रे शास्त्रे त्रिचतुराश्चतुरा यदि मादृशाः॥ 3 ॥
महिम्नामन्तरं पश्य शेषाहेः साब्धिभूधरा।
फणासहस्रस्रग्दाम्नि भ्रमरीव विभाति भूः॥ 4 ॥
स्पृहयति भुजयोरन्तरमायतकरवालकररुहविदीर्णम्।
विजयश्रीर्वीराणां व्युत्पन्नप्रौढवनितेव॥ 5 ॥
भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्विकथां सहेत।
गतासुरप्याहवसीम्नि वीरो द्विधा विधत्ते रविमण्डलं यः॥ 6 ॥
लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसां कुलं नहि निमित्तमुदारतायाः।
वातापितापनमुनेः कलशात्प्रसूतिर्लीलायितं पुनरमुद्रसमुद्रपानम्॥ 7 ॥
नायाति वाडवशिखाक्वथनेन तापं शैत्यं हिमाद्रिपयसा विशता च नाब्धिः।
कश्चिद्गभीरमनसां सततं विषादकाले प्रमोदसमये च समोऽनुभावः॥ 8 ॥
संप्राप्नुवन्ति ननु मण्डलमेकमेव क्ष्मापा जये समरसीम्नि वपुस्तु हित्वा।
चण्डांशुमण्डलमथाभिमतानि कामं प्रेमार्द्रनिर्जरवधूस्तनमण्डलानि॥ 9 ॥
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थैः 1परिभवपदं याति कृपणः।
स्वभावादुद्भूतां गुणसमुदयावाप्तिविषयां द्युतिं2 3सौंहीं किं श्वा 4धृतकनकमालोऽपि लभते॥ 10 ॥

को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा5 यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्।
यद्दंष्ट्रा6नखलाङ्गलप्रहरणः सिंहो वनं 7गाहते तस्मिन्नेव हतद्विपेन्द्ररुधिरैस्तृष्णां छिनत्त्यात्मनः॥ 11 ॥

सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम्।
विस्फूर्जद्विकटाटवीगजघटापीठैकसंचूर्णनव्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः॥ 12 ॥
काकुत्स्थस्य दशाननो न कृतवान्दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः।
पार्थस्यापि पराभवं यदि रिपुर्नाधात्क्व तादृक्तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः॥ 13 ॥
वह्निं शीतयितुं हिमं ज्वलयितुं वातं निरोद्धुं पयो मूर्तं व्योम विधातुमुन्नमयितुं नेतुं नतिं वा महीम्।
उद्धर्तुं किल भूभृतः स्थलयितुं सिन्धुं च संभाव्यते शक्तिर्यस्य जनैः स एव नृपतिः शेषाः परं पार्थिवाः॥ 14 ॥
नास्मिन्संततवेष्टनोल्बणतमैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जायते।
क्रन्दद्बन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते न ह्येतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः॥ 15 ॥


  1. पराजयस्थानम्. ↩︎

  2. कान्तिम्. ↩︎

  3. सिंहसंबन्धिनीम्. ↩︎

  4. धृताकनकस्य सुवर्णस्य माला येन. ↩︎

  5. परदेशः. ↩︎

  6. दंष्ट्रानखलाङ्गलाश्च प्रहरणं यस्य नखा एव लाङ्गलानि विदारकत्वात् हलानि इति रूपकम्. ‘पान्तु वो नरसिंहस्य नखलाङ्गलकोटयः’ इति कस्यचित् प्रयोगः. ↩︎

  7. प्रविशति. ↩︎