स एव धन्यो विपदि स्वरूपं यो न मुञ्चति।
त्यजंत्यर्ककरैस्तप्तं हिमं देहं न शीतताम्॥ 1 ॥
चलन्ति गिरयः कामं युगान्तपवनाहताः।
कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः॥ 2 ॥
कृतं पुरुषशब्देन जातिमात्रावलम्बिना।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः॥ 3 ॥
ग्रसमानमिवौजांसि सहसा गौरवेरितम्।
नाम यस्याभिनन्दन्ति द्विषोऽपि स मतः पुमान्॥ 4 ॥
सह परिजनेन विलसति धीरो 1गहनानि तरति पुनरेकः।
विषमेकेन निपीतं 2त्रिपुरजिता सह सुरैरमृतम्॥ 5 ॥
श्लाघ्या महतामुन्नतिरद्भुतम3ध्यवसितं च धीराणाम्।
कनकगिरिरनभिलङ्घ्यो रविरनिशमनुज्झितारम्भः॥ 6 ॥
4अङ्गणवेदी वसुधा 5कुल्या जलधिः स्थली च पातालम्।
वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य॥ 7 ॥
6कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः 7प्रमार्ष्टुम्।
अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा यान्ति कदाचिदेव॥ 8 ॥
अर्थः सुखं कीर्तिरपीह मा भूदनर्थ एवास्तु तथापि धीराः।
निजप्रतिज्ञामनुरुध्यमाना महोद्यमाः कर्म समारभन्ते॥ 9 ॥
रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥ 10 ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेच्छम्।
अद्यैव वा मरणमस्तु युगान्तरे वा 8न्याय्यात्पथः9 प्रवचलन्ति पदं न धीराः॥ 11 ॥
कान्ताकटा10क्षविशिखा न 11लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः।12 कर्षन्ति भूरि विषयांश्च न लोभपाशा लोकत्रयं जयति 13कृत्स्नमिदं स धीरः॥ 12 ॥
आपत्समुद्धरणधीरधियः परेषां जाता महत्यपि कुले न भवन्ति सर्वे।
विन्घ्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलोल्लिखनं सहन्ते॥ 13 ॥
विरम विरसायासादस्माद्दुरघ्यवसायतो विपदि महतां धैर्यध्वंसं यदीक्षितुमीहसे।
अयि जड विधे कल्पापायव्यपेतनिजक्रमाः कुलशिखरिणः क्षुद्रा नैते न वा जलराशयः॥ 14 ॥