३९ तृष्णानिन्दा

तृष्णे देवि नमस्तुभ्यं धैर्यविप्लवकारिणि1
विष्णुस्त्रैलोक्यनाथोऽपि यत्त्वया 2वामनीकृतः॥ 1 ॥

तृष्णे कृष्णेऽपि ते शक्तिर्दृष्टा मर्त्येषु का कथा।
त्रैलोक्यव्यापि यद्रूपं तद्रूपं वामनीकृतम्॥ 2 ॥
तृष्णां चेह परित्यज्य को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥ 3 ॥
वलिभिर्मुखमाक्रान्तं पलितैरङ्कितं शिरः।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते॥ 4 ॥
नास्त्यन्या तृष्णया तुल्या कापि स्त्री सुभगा क्वचित्।
या प्राणानपि 3मुष्णन्ती भवत्येवाधिकं प्रिया॥ 5 ॥

च्युता दन्ताः सिताः केशा दृङ्निरोधः पदे पदे।
पातसज्जमिमं देहं तृष्णा साध्वी न मुञ्चति॥ 6 ॥
तृष्णे त्वमपि तृष्णान्धा त्रिषु स्थानेषु वर्तसे।
व्याधितेष्वनपत्येषु 4जरापरिणतेषु च॥ 7 ॥

तृष्णे देवि मनस्तुभ्यं या त्वं सर्वस्य सर्वदा।
उत्पादयस्य यत्नेन गोष्पदे सागरभ्रमम्॥ 8 ॥
अपि मेरूपमं5 प्राज्ञमपि शूरमपि स्थिरम्।
6तृणीकरोति तृष्णैका निमेषेण नरोत्तमम्॥ 9 ॥

आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत्॥ 10 ॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्।
येनाशाः पृष्ठतः कृत्वा नैराश्यमवलम्बितम्॥ 11 ॥
7गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभो महत्।
नभसोऽपि महद्ब्रह्म ततोऽप्याशा गरीयसी॥ 12 ॥

आशैव राक्षसी पुंसामाशैव विषमञ्जरी।
आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः॥ 13 ॥
क्षुत्तृडाशाः कुटुम्बिन्यो मयि जीवति नान्यगाः।
तासामाशा महासाध्वी कदाचिन्मां न मुञ्चति॥ 14 ॥
यौवनं जरया ग्रस्तमारोग्यं व्याधिभिर्हतम्।
जीवितं मृत्युरभ्येति तृष्णैका निरुपद्रवा॥ 15 ॥
यत्र कामसुखं लोके यच्च दिव्यं महत्सुखम्।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्॥ 16 ॥
दारिद्र्यस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता।
8जरद्गवधनः शंभुस्तथापि परमेश्वरः॥ 17 ॥

तृष्णा हि चेत्परित्यक्ता को दरिद्रः क ईश्वरः।
तस्याश्चेत्प्रसरो दत्तो दास्यं च शिरसि स्थितम्॥ 18 ॥
मनोरथरथारूढं युक्तमिन्द्रियवाजिभिः।
भ्राम्यत्येव जगत्कृत्स्नं तृष्णासारथिचोदितम्॥ 19 ॥
यथा हि शृङ्गं गोः काले वर्धमानस्य वर्धते।
एवं तृष्णापि चित्तेन वर्धमानेन वर्धते॥ 20 ॥
अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम्।
तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति॥ 21 ॥
आशा बलवती कष्टं नैराश्यं परमं सुखम्।
आशा निराशाः कृत्वा तु सुखं स्वपिति पिङ्गला॥ 22 ॥
तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते।
या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते॥ 23 ॥
आसन्नान्पुरतो भावान्दर्शयित्वा पुरः पुरः।
छागो हरितमुष्ट्येव दूरं नीतोऽस्मि तृष्णया॥ 24 ॥
वर्तते येन न विना नरो वाञ्छतु नाम तत्।
ततोऽधिकार्थप्रणयी पृष्टो दद्यात्किमुत्तरम्॥ 25 ॥
तावद्गुणा गुरुत्वं च यावन्नार्थयते परम्।
अर्थित्वे वर्तमानस्य न गुणा न च गौरवम्॥ 26 ॥
विद्वत्ता चैव शौर्यं च सौजन्यं च कुलीनताम्।
खलीकरोति याञ्चैका दुःशीलेवाङ्गना कुलम्॥ 27 ॥
आशाया ये दासास्ते दासाः सर्वलोकस्य।
आशा येषां दासी तेषां दासायते लोकः॥ 28 ॥
दन्ता विश्लथदन्ताः केशाः काशप्रसूनसंकाशाः।
नयनं तमसामयनं तथापि चित्तं धनाङ्गनायत्तम्॥ 29 ॥
त्वामुदर साधु मन्ये शाकैरपि यदसि लब्धपरितोषम्।
हतहृदयं ह्यधिकाधिकवाञ्छाशतदुर्भरं न पुनः॥ 30 ॥
इच्छति शती सहस्रं ससहस्रः कोटिमीहते कर्तुम्।
कोटियुतोऽपि नृपत्वं नृपोऽपि बत चक्रवर्तित्वम्॥ 31 ॥
चक्रधरोऽपि सुरत्वं सुरोऽपि सुरराज्यमीहते कर्तुम्।
सुरराजोऽप्यूर्ध्वगतिं तथापि न निवर्तते तृष्णा॥ 32 ॥
अङ्गं गलितं पलितं 9मुण्डं 8दशनविहीनं जातं 9तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशा पिण्डम्॥ 33 ॥

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः॥ 34 ॥
आशा10वलम्बोपचिता न कस्य तृष्णालतानर्थफलं प्रसूते।
दिने दिने लब्धरुचिर्विव11स्वान्मीनं121मेषं च 2वृषं च भुङ्क्ते॥ 35 ॥

विभूतिरर्घत्यपि याचकानां न दुर्गतं केचिदिहाद्रियन्ते।
पीताम्बरोऽब्धेः समवाय लक्ष्मीं दिगम्बरस्योपनतोऽर्धचन्द्रः॥ 36 ॥
भिक्षाशनं तदपि नीरसमेकवारं शय्या च भूः परिजनो निजदेहमात्रम्।
वस्त्रं सुजीर्णशतखण्डमयी च कन्था हा हा तथापि विषयान्न जहाति चेतः॥ 37 ॥
या सा जगत्परिभवस्य निमित्तभूता हेतुः स्वयं सुरपतेरपि लाघवस्य।
सा मां विडम्बयति नाथ सदैव तृष्णा छिन्धि प्रसह्य भगवन्नपुनर्भवाय॥ 38 ॥
दुग्धं च यत्तदनु यत्क्विथितं ततो नु माधुर्यमस्य हृतमुन्मथितं च वेगात्।
जातं पुनर्घृतकृते नवनीतवृत्ति स्नेहो निबन्धनमनर्थपरम्पराणाम्॥ 39 ॥
गदोदन्ता दन्ताः पलितकलितः कुन्तलभरस्तमः-क्षेत्रे नेत्रेऽविषयपटुनी न श्रुतिपुटे।
अभूदङ्गं रङ्गद्वलिवलयवल्लीविलुलितं तथाप्येतच्चेतस्तरुण इव धावत्यनुदिनम्॥ 40 ॥
गतं तत्तारुण्यं तरुणिहृदयानन्दजनकं विशीर्णा दन्तालिर्निजगतिरहो 3यष्टिशरणा।
जडीभूता दृष्टिः श्रवणरहितं कर्णयुगलं मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति॥ 41 ॥

वपुः कुब्जीभूतं गतिरपि तथा यष्टिशरणा विशीर्णा दन्तालिः श्रवणविकलं श्रोत्रयुगलम्।
शिरः शुक्लं चक्षुस्तिमिरपटलैरावृतमहो मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति॥ 42 ॥
खलोल्लापाः सोढाः कथमपि तदाराधनतया निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा।
कृतश्चित्तस्तम्भः प्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे बहुपुरुषमानो विगलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो दुष्टः कायस्तदपि मरणापायचकितः॥ 44 ॥
अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम्।
यदाढ्या4नामग्रे द्रविणमदनिः5संज्ञमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि॥ 45 ॥

समारम्भा भग्नाः कति कति न वारांस्तव पशो पिपासोस्तुच्छेऽस्मिन्द्रविणमृगतृष्णार्णवजले।
तथापि प्रत्याशा विरमति न ते मूढ शतधा न दीर्णं यच्चेलो 8नियतमशनिग्रावघटितम्॥ 46 ॥

विवेकव्याकोशे विकसति शमे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणतिः।
जरा जीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं यस्यां भवति 9मरुतामप्यधिपतिः॥ 47 ॥

अहो तृष्णावेश्या सकलजनतामोहनकरी विदग्धा मुग्धानां हरति विवशानां शमधनम्।
विपद्दीक्षादक्षासहतरलतारैः प्रणयिनीकटाक्षैः कूटाक्षैः कपटकुटिलः कामकितवः॥ 48 ॥
उत्खातं निधिशङ्कया10 क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम्॥ 49 ॥

निःस्वो 12वष्टि शतं शती दशशतं लक्षं सहस्राधिपो लक्षेशः क्षितिराजतां क्षितिपतिश्चक्रेशतां वाञ्छति।
चक्रेशः सुरराजतां सुरपतिर्ब्रह्मास्पदं वाञ्छति ब्रह्मा विष्णुपदं हरिः शिवपदं तृष्णावधिं को गतः॥ 50 ॥

माने नेच्छति वारयत्युपशमे 1क्ष्मामालिखन्त्यां ह्रियां स्वातन्त्र्ये परिवृत्य तिष्ठति करौ व्याधूय धैर्ये गते।
तृष्णे 2त्वामनुबध्नता फलमियत्प्राप्तं जनेनामुना यः स्पृष्टो न पदा स एव चरणौ स्प्रष्टुं न संमन्यते॥ 51 ॥

दन्तैरुच्छलितं धिया तरलितं पाण्यङ्घ्रिणा कम्पितं दृग्भ्यां 3कुङ्भलितं बलेन गलितं रूपश्रिया प्रोषितम्।
प्राप्तायां यमभूपतेरिह महाधाट्यां धरायामियं तृष्णा केवलमेकिकैव सुभटी धीरा पुरो नृत्यति॥ 52 ॥

भ्रान्तं याचनतत्परेण मनसा देहीति वाक्प्रेरिता भुक्तं मानविवर्जितं परगृहे सासाङ्कया काकवत्।
साक्षेपं भ्रुकुटीकटाक्षकुटिलं दृष्टं खलानां मुखं तृष्णे देवि यदन्यदिच्छसि पुनस्तत्रापि सज्जा वयम्॥ 53 ॥
भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्तृष्णे जृम्भसि पापकर्मनिरते नाद्यापि सन्तुष्यसि॥ 54 ॥
आसिष्ये सुखितो गृहीति विहितो मोहेन दारग्रहस्तत्सङ्गात्सुतदासबान्धवसुहृत्संबन्धिनामुद्भवः।
तन्निर्वाहकदर्थनापरिभवानौचित्यचिन्ताजुषः किं सौख्यं कतमा गृहस्थितिरतोऽनर्थो मया स्वीकृतः॥ 55 ॥
शान्तेर्मातुर्विवेकात्पितुरपि कृपणं 4मङ्क्षु कृत्वा पृथङ्मामाशा योषा स्वतन्त्रा व्रजति परगृहान् सर्वदा वीतलज्जा।8
संधत्ते मत्कृशत्वं मम यमनियमौ भ्रातरौ भर्त्सयन्ती पुष्ट्वा चैवात्मबन्धूंस्तदपि 9पुनरहो हन्त वन्ध्यां श्रयामः॥ 56 ॥

लज्जे त्वं मज्ज सिन्धौ गिरिवरशिखरे त्वं च तिष्ठ प्रतिष्ठे शान्ते प्रान्ते दिशान्ते कुरु वसतिमहो गर्व खर्वो भवाशु।
तेजः पातालमूलं भज भुव भगवन्मान मा नाम तेऽस्तु प्रेम्णैकामाश्रयन्तीं सततमहमिमां तूर्णमाशां श्रयिष्ये॥ 57 ॥


  1. विलयम्. ↩︎ ↩︎ ↩︎

  2. ह्रस्वीकृतः. ↩︎ ↩︎ ↩︎

  3. हरन्ती. ↩︎ ↩︎ ↩︎

  4. वृद्धेषु. ↩︎ ↩︎ ↩︎

  5. मेरुसदृशम्. ↩︎ ↩︎

  6. तृणवल्लघूकरोति. ↩︎

  7. पर्वतः. ↩︎

  8. वृद्धवृषभः स एव धनं यस्य सः. ↩︎ ↩︎ ↩︎ ↩︎

  9. शिरः. ↩︎ ↩︎ ↩︎ ↩︎

  10. आश्रयः. ↩︎ ↩︎

  11. सूर्यः. ↩︎

  12. मत्स्यः; [पक्षे] मीनराशिः. ↩︎ ↩︎