संतोषामृततृप्तानां यत्सुखं शान्तचेतसाम्।
कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्॥ 1 ॥
अकृत्वा परसंतापमगत्वा खलनम्रताम्।
अनुत्सृज्य सतां 1वर्त्म यत्स्वल्पमपि तद्बहु॥ 2 ॥
आगमिष्यन्ति ते भावा ये भावा मयि भाविताः।
अहं तैरनुगन्तव्यो न तेषामन्यतो गतिः॥ 3 ॥
यो मे गर्भगतस्यापि 2वृत्तिं कल्पितवान्स्वयम्।
शेषवृत्तिविधाने च स किं सुप्तोऽथवा मृतः॥ 4 ॥
अचिन्तितानि दुःखानि यथैवायान्ति देहिनाम्।
सुखान्यपि तथा मन्ये दैन्यमत्रा3तिरिच्यते॥ 5 ॥
पञ्चमेऽहनि षष्ठे वा शाकं पचति यो गृहे।
अनृणी चाप्रवासी च स वारिचर मोदते॥ 6 ॥
आत्माधीनशरीराणां स्वपतां निद्रया स्वया।
4कदन्नमपि मर्त्यानाममृतत्वाय कल्पते॥ 7 ॥
सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम्।
5उपानद्गूढपादस्य ननु चर्मावृतैव भूः॥ 8 ॥
ते धन्याः पुण्यभाजस्ते तैस्तीर्णः क्लेशसागरः।
जगत्संमोहजननी यैराशा6शीविषी जिता॥ 9 ॥
अकिंचनस्य दान्तस्य शान्तस्य समचेतसः।
सदा संतुष्टमनसः सर्वाः सुखमया दिशः॥ 10 ॥
न योजनशतं दूरं बाध्यमानस्य तृष्णया।
संतुष्टस्य करप्राप्तेऽप्यर्थे भवति नादरः॥ 11 ॥
अर्थी करोति दैन्यं लब्धार्थो गर्वमपरितोषं च।
नष्टधनश्च स शोकं सुखमास्ते निःस्पृहः पुरुषः॥ 12 ॥
तन्मूलं 7गुरुतायास्तत्सौख्यं तद्यशस्तदौर्जित्यम्8।
तत्सौभाग्यं पुंसां यदेत9दप्रार्थनं नाम॥ 13 ॥
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं संतोष एव पुरुषस्य परं निधानम्॥ 14 ॥
चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः10 फलभृतः सरितोप्यशुष्यन्।
रुद्धा गुहाः किम11जितोऽवति नोपपन्नान्कस्माद्भजन्ति कवयो धनदुर्मदान्धान्॥ 15 ॥
मन्निन्दया यदि जनः 12परितोषमेति नन्वप्रयत्नसुलभोऽयमनुग्रहो13 मे।
श्रेयोऽर्थिनोऽपि पुरुषाः 14परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति॥ 16 ॥
वयमिह परितुष्टा वल्कलैस्त्वं च लक्ष्म्या सम इह परितोषो निर्विशेषो विशेषः।
स ह भवति दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः॥ 17 ॥
गन्धाढ्यां नवमल्लिकां मधुकरस्त्यक्त्वा गतो यूथिकां तां दृष्ट्वाशु गतः स चन्दनवनं पश्चात्सरोजं गतः।
बद्धस्तत्र निशाकरेण सहसा रोदित्यसौ मन्दधीः संतोषेण विना पराभवपदं प्राप्नोति सर्वो जनः॥ 18 ॥
मृत्युर्माद्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयैर्गृध्रैर्जगद्ग्रास्यते।
धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः संतोषामृतसागराम्भसि चिरं मग्नः सुखं स्थास्यसि॥ 19 ॥