३६ परोपकारप्रशंसा

परोपकारः कर्तव्यः प्राणैरपि धनैरपि।
परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि॥ 1 ॥
धनानि जीवितं चैव परार्थे प्राज्ञ उत्सृजेत्।
तन्निमित्तो वरं त्यागो विनाशे नियते सति॥ 2 ॥
रविश्चन्द्रो घना वृक्षा नदी गावश्च सज्जनाः।
एते परोपकाराय युगे दैवेन निर्मिताः॥ 3 ॥
तृणं चाहं वरं मन्ये नरादनुपकारिणः।
घासो भूत्वा पशून्पाति 1भीरून्पाति रणाङ्गणे॥ 4 ॥

2परोपकृतिकैवल्ये3 तोल4यित्वा जनार्दनः।
5गुर्वीमुपकृतिं मत्वा 6ह्यवतारान्दशा7ग्रहीत्॥ 5 ॥

आत्मार्थं जीवलोकेऽस्मिन्को न जीवति मानवः।
परं परोपकारार्थं यो जीवति स जीवति॥ 6 ॥
परोपकारशून्यस्य धिङ्मनुष्यस्य जीवितम्।
जीवन्तु पशवो येषां चर्माप्युपकरिष्यति॥ 7 ॥
रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम्।
अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम्॥ 8 ॥
कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः।
तृणमात्रजीवना अपि करिणो दानद्रवार्द्रकराः॥ 9 ॥
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥ 10 ॥
भवन्ति नम्रास्तरवः फलोद्गमैर्नवाम्बुभिर्भूरिविलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥ 11 ॥
8श्रोत्रं 9श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः खलु सज्जनानां परोपकारेण न चन्दनेन॥ 12 ॥

10पद्माकरं दिनकरो विकचं करोति चन्द्रो विकासयति कैरव11चक्रवालम्।
नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहितेषु कृताभियोगाः॥ 13 ॥

दातुः परोपकृतिनिर्भरचित्तवृत्तेरासन्नदूरगणना नहि संश्रितेषु।
भानुर्विकासयति हन्त सरोजखण्डं पाणिस्थपङ्कजसमं भुवनान्तरेषु॥ 14 ॥


  1. भीतान्. ↩︎

  2. परोपकारः. ↩︎

  3. मोक्षः. ↩︎

  4. उभयोस्तुलनां कृत्वा. ↩︎

  5. श्रेष्ठाम्. ↩︎

  6. मत्स्यादीन्. ↩︎

  7. जग्राह. ↩︎

  8. कर्णः. ↩︎

  9. शास्त्रेण. ↩︎

  10. कासारम्. ↩︎

  11. कुमुदमण्डलम्. ↩︎