वेपथुर्मलिनं1 वक्त्रं दीना वाग्गद्गदः स्वरः।
मरणे यानि चिह्नानि तानि चिह्नानि याचके॥ 1 ॥
विद्यावतः कुलीनस्य धनं याचितुमिच्छतः।
कण्ठे पारावतस्येव वाक्करोति गतागतम्॥ 2 ॥
2दक्षिणाशाप्रवृत्तस्य 3प्रसारितकरस्य च।
तेजस्तेजस्विनोऽर्कस्य हीयतेऽन्यस्य का कथा॥ 3 ॥
साधुरेवार्थिभिर्याच्यः क्षीणवित्तोऽपि सर्वदा।
शुष्कोऽपि हि नदीमार्गः खन्यते सलिलार्थिभिः॥ 4 ॥
तृणादपि लघुस्तूलस्तूलादपि4 च याचकः।
वायुना किं न नीतोऽसौ मामयं प्रार्थयेदिति॥ 5 ॥
देहीति वचनं श्रुत्वा देहस्थाः पञ्च देवताः।
मुखान्निर्गत्य गच्छन्ति श्रीह्रीधीधृतिकीर्तयः॥ 6 ॥
नवीनदीनभावस्य याचकस्यातिमानिनः।
वचोजीवितयोरासीत्पुरोनिः5सरणे रणः॥ 7 ॥
अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम्।
अहो बत महत्कष्टं चक्षुष्मानपि याचते॥ 8 ॥
गतेर्भङ्गः स्वरो हीनो गात्रे स्वेदो महद्भयम्।
मरणे यानि चिह्नानि तानि चिह्नानि याचके॥ 9 ॥
दारिद्र्यानलसंतापः शान्तः सन्तोषवारिणा।
याचकाशाविघातान्तर्दाहः केनोपशाम्यति॥ 10 ॥
दरिद्रस्य परा मूर्तिस्तृष्णा न द्रविणाल्पता।
जरद्गवधनः शंभुस्तथापि परमेश्वरः॥ 11 ॥
वदनाच्च बहिर्यान्ति प्राणा याञ्चाक्षरैः सह।
ददामीत्यक्षरैर्दातुः पुनः कर्णाद्विशन्ति हि॥ 12 ॥
देहीति वक्तुकामस्य यद्दुःखमुपजायते।
दाता चेत्तद्विजानीयाद्दद्यात्स्व6पिशितान्यपि॥ 13 ॥
काक आह्वयते काकान्याचको न तु याचकान्।
काकयाचकयोर्मध्ये वरं काको न याचकः॥ 14 ॥
तीक्ष्णधारेण खड्गेन वरं जिह्वा द्विधाकृता।
न तु मानं परित्यज्य देहि देहीति भाषितम्॥ 15 ॥
पुरतः प्रेरयत्याशा लज्जा पृष्ठावलम्बिनी।
ततो लज्जाशयोर्मध्ये दोलायत्यर्थिनां मनः॥ 16 ॥
1करान्प्रसार्य रविणा 2दक्षिणाशावलम्बिना।
न केवलमनेनात्मा दिवसोऽपि लघूकृतः॥ 17 ॥
एकेन तिष्ठताधस्तादन्येनोपरि तिष्ठता।
दातृयाचकयोर्भेदः कराभ्यामेव सूचितः॥ 18 ॥
हृदि लज्जोदरे वह्निः स्वभावादग्निरुच्छिखः।
तेन मे दग्धलज्जस्य पुनरागमनं नृप॥ 19 ॥
सेवेव मानमखिलं 3ज्योत्स्नेव तमो जरेव लावण्यम्।
हरिहरकथेव दुरितं गुणशतमप्यर्थिता4 हरति॥ 20 ॥
याचकवीरो धन्यः 5करदानग्राहकः स्वदातृभ्यः।
कुरुते पराङ्मुखं वा ह्यतिनम्रं वा हरत्यसौ पुण्यम्॥ 21 ॥
अनुसरति करिकपोलं भ्रमरः श्रवणेन ताड्यमानोऽपि।
गणयति न तिरस्कारं दानान्धविलोचनो नीचः॥ 22 ॥
कतरत्पुरहर7 परुषं हालाहलकवलयाचनावचसोः।
एकैव तव रसज्ञा तदुभयरसतारतम्यज्ञा॥ 23 ॥
अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिम्ना।
वामन इति त्रिविक्रममभिदधति दशावतारविदः॥ 24 ॥
तावन्महतां महती यावत्किमपि हि न याच्यते लोकम्।
बलिमनुयाचनसमये 8श्रीपतिरपि 9वामनो जातः॥ 25 ॥
गुरुतामुपयाति यन्मृतः पुरुषस्तद्विदितं मयाधुना।
ननु लाघवहेतुरर्थिता न मृते तिष्ठति सा 10मनागपि॥ 26 ॥
याचना हि पुरुषस्य महत्त्वं नाशत्यखिलमेव तथा हि।
सद्य एव भगवानपि विष्णुर्वामनो भवति याचितुमिच्छन्॥ 27 ॥
उत्तमर्णधनदानशङ्कया पावकोत्थशिखया हृदिस्थया।
देव दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया॥ 28 ॥
नीचतामनवलम्ब्य जनः को याचनादवचिनोति फलानि।
हन्त वामनपदं प्रतिपेदे भिक्षुतामुपगतो जगदीशः॥ 29 ॥
अन्यतो यदि निजोपचिकीर्षा मानहानिरिति भीतिरनीतिः।
श्रीधरोऽपि हि बलेः श्रियमिच्छन्मानमातनुत वामनमेव॥ 30 ॥
सन्तापितानां मधुरैर्वचोभिर्मिथ्योपचारैश्च वशीकृतानाम्।
आशावतां श्रद्दधतां च लोके किमर्थिनां वञ्चयितव्यमस्ति॥ 31 ॥
स्वार्थं धनानि धनिकात्प्रतिगृह्णतो यदास्यं भजेन्मलिनतां किमिदं विचित्रम्।
गृह्मन्परार्थमपि वारिनिधेः पयोऽपि मेघोऽयमेति सकलोऽपि च कालिमानम्॥ 32 ॥
6जनस्थाने भ्रान्तं 1कनकमृगतृष्णाकुलतया वचो 2वैदेहीति प्रतिपदमुदश्रु प्रलपितम्।
कृता3लंकाभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं 4कुशलवसुता न त्वधिगता॥ 33 ॥
क्व गन्तासि भ्रातः कृतवसतयो यत्र धनिनः किमर्थं प्राणानां स्थितिमनुविधातुं कथमपि।
धनैर्याच्ञालब्धैर्ननु परिभवोऽभ्यर्थनफलं निकारोऽग्रे पश्चाद्धनमहह भोस्तद्धि निधनम्॥ 34 ॥
पङ्गो वन्द्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि।
श्लाग्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यत्वं बधिर न गिरं यः खलानां शृणोषि॥ 35 ॥
भ्रातर्धातरशेषयाचकजने वैरायसे सर्वदा यस्माद्विक्रमशालिवाहनमहीभृन्मुञ्जभोजादयः।
अत्यन्तं चिरजीविनो न विहितास्ते विश्वजीवातवो मार्कण्डध्रुवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः॥ 36 ॥
उड्डीना गुणपत्रिणः5 सुखफलान्यारा7द्विकीर्णान्यधः पर्यस्ताः परितो यशःस्तबकिताः संपल्लतापल्लवाः।
प्रागेवाप्रसृतप्रमोदहरिणच्छाया कथान्तं गता दैन्या8रण्यमतङ्गजेन महता भग्नेऽभिमानद्रुमे॥ 37 ॥
शूराः केऽपि पुरःस्थितां रिपुनरश्रेणिं सहन्ते सुखं धीराः केचन कामबाणसदृशां 9कान्तादृगन्ताहतिम्।
केचित्क्रूररवांश्च 10पञ्चवदनान्दन्तीचपेटान्भटा नैवार्थिप्रकरं प्रसारितकरं कश्चिद्विसोढुं क्षमः॥ 38 ॥
(9. कान्ताकटाक्षवेधम्.
दौर्गत्येन समीरिता हृदयतः कण्ठं समालम्बते कण्ठात्कष्टतरं कथं कथमपि प्राप्नोति जिह्वाञ्चलम्।
लज्जाकीलककीलितेव निबिडं तस्मान्न निर्यात्यहो वाचा प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च॥ 39 ॥
वक्त्रादुद्वस मे हठादधिवस त्वं वाणि वक्त्रं मनागीशानां तदनु क्रुधा भजतु मां लक्ष्मीरिमानुज्झतु।
पश्चात्तेषु पठत्सु मां प्रति यशोगाथावलीस्तृष्णया वक्त्रं मय्यथ वक्रयत्यनुभवन्त्वेतेऽपि तद्यातनाम्॥ 40 ॥
तावत्सर्वगुणालयः पटुमतिः साधुः सतां वल्लभः शूरः सच्चरितः कलङ्करहितो मानी कृतज्ञः कविः।
दक्षो धर्मरतः सुशीलगुणवांस्तावत्प्रतिष्ठान्वितो यावन्निष्ठुरवज्रपातसदृशं देहीति नो भाषते॥ 41 ॥
आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत्कस्यचिदप्ययं परिभवो याञ्चेति संसारिणः।
पश्य भ्रातरियं हि यौवनजराधिक्कारकेलिस्थली मानम्लानमषी गुणव्यतिकरप्रागल्भ्यगर्वच्युतिः॥ 42 ॥
प्राणानां बत किं ब्रुवे कठिनतां तैरेव साविष्कृता निष्क्रामन्ति कथञ्चिदेव हि न ये याञ्चावचोभिः समम्।
आत्मानं पुनराक्षिपामि विदितस्थैर्योऽपि येषामहो मिथ्याशङ्किततद्वियोगविधुरो यत्प्रार्थये सर्वशः॥ 43 ॥
वासो वल्कलमास्तरः किसलयान्यो6कस्तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषाशान्तये।
क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने विभवे तथापि कृपणा याचन्त इत्यद्भुतम्॥ 44 ॥
सन्ति स्वादुफला वनेषु तरवः स्वच्छं पयो नैर्झरं वासो वल्कलमाश्रयो गिरिगुहा शय्या लतावल्लरी।
आलोकाय निशासु चन्द्रकिरणाः सख्यं कुरङ्गैः सह स्वाधीने विभवेऽप्यहो नरपतिं सेवन्त इत्यद्भुतम्॥ 45 ॥
निष्कन्दाः किमु कन्दरोदरभुवः क्षीणास्तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः।
प्रत्युत्थानमितस्ततः प्रतिदिनं कुर्वद्भिरुद्ग्रीविभिर्यद्द्वारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिरप्यास्यते॥ 46 ॥
कामं जीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणानुबन्धस्थितिम्।
साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः॥ 47 ॥
द्वारे द्वारे परेषामविरलमटति द्वारपालैः 1करालैर्दृष्टो योऽप्याहतः सन्रणति गणयति स्वापमानं तु नैव।
क्षन्तुं शक्नोति नान्यं स्वसदृशमितरागारमप्याश्रयन्तं श्राम्यत्यात्मोदरार्थे कथमहह शुना नो समो याचकः स्यात्॥ 48 ॥