३४ कृपणनिन्दा

कृपणेन समो दाता न भूतो न भविष्यति।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति॥ 1 ॥
1यदर्ज्यते परिक्लेशैरर्जितं यन्न भुज्यते।
विभज्यते यदन्तेऽन्यैः2 कस्यचिन्मास्तु तद्धनम्॥ 2 ॥

यत्करोत्यरतिं3 क्लेशं तृष्णां 4मोहं प्रजागरम्।
न तद्धनं 5कदर्याणां हृदये 6व्याधिरेव सः॥ 3 ॥

मृत्युः शरीरगोप्तारं धनरक्षं वसुंधरा।
दुश्चारिणी च हसति स्वपतिं पुत्रवत्सलम्॥ 4 ॥
त्यागभोगविहीनेन धनेन धनिनो यदि।
भवामः किं न तेनैव धनेन धनिनो वयम्॥ 5 ॥
दानोपभोगरहिता दिवसा यस्य यान्ति वै।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति॥ 6 ॥
अबुधैरर्थलाभाय पण्यस्त्रीभिरिव स्वस्यम्।
आत्मा संस्कृत्य संस्कृत्य परोपकरणीकृतः॥ 7 ॥
कृपणेन शवेनेव मृतेनापि न दीयते।
मांसं वर्धयता तेन 1काकस्योपकृतिः कृताः॥ 8 ॥

बोधयन्ति न याचन्ते 2भिक्षाद्वारा गृहे गृहे।
दीयतां दीयतां नित्यमदातुः फलमीदृशम्॥ 9 ॥

द्वारं द्वारं रटन्तीह भिक्षुकाः पात्रपाणयः।
दर्शयन्त्येव लोकानामदातुः फलमीदृशम्॥ 10 ॥
न दातुं नोपभोक्तुं च शक्नोति कृपणः श्रियम्।
किं तु स्पृशति हस्तेन नपुंसक इव स्त्रियम्॥ 11 ॥
किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः।
अदातरि समृद्धेऽपि किं कुर्युरुपजीविनः॥ 12 ॥
वरं विभवहीनेन प्राणैः संतर्पितोऽनलः।
नोपचारपरिभ्रष्टः कृपणः प्रार्थितो जनः॥ 13 ॥
उदारचरितस्त्यागी याचितः कृपणोऽधिकः।
एको धनं ततः प्राणानन्यः प्राणांस्ततो 3धनम्॥ 14 ॥

नोपभोक्तुमपि क्लीबो जानात्युपचितां श्रियम्।
ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम्॥ 15 ॥
कृपणः स्ववधूसङ्गं न करोति भयादिह।
भविता यदि मे पुत्रः स मे वित्तं हरेदिति॥ 16 ॥
यदधोऽधः क्षितौ वित्तं 4निचखान मितंपचः।
तदधोनिरयं5 गन्तुं चक्रे पन्थानमग्रतः॥ 17 ॥

निजसौख्यं निरुन्धानो यो धनार्जनमिच्छति।
परार्थं भारवाहीव क्लेशस्यैव हि भाजनम्॥ 18 ॥
असम्भोगेन सामान्यं कृपणस्य धनं परैः।
अस्येदमिति संनब्दो हानौ दुःखेन गम्यते॥ 19 ॥
सति द्राक्षाफले क्षीरे मृदामास्वादनं मुदे।
अहो मातुरियं रीतिः कृपणे गर्भवर्तिनि॥ 20 ॥
अदातुर्मानसं क्वापि न स्पृशन्ति कवेर्गिरः।
दोषायैवातिवृद्धस्य विलासास्तरुणीकृताः॥ 21 ॥
शरणं किं प्रपन्नानि विषवन्मारयन्ति किम्।
न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत्॥ 22 ॥
धनं यदिह मे दत्से विधे मा देहि कर्हिचित्।
औदार्यं धनिनो देहि यन्मदीये हृदि स्थितम्॥ 23 ॥
वीणेव श्रोत्रहीनस्य 6लोलाक्षीव 7विचक्षुषः।
8व्यसोः कुसुममालेव श्रीः कदर्यस्य निष्फला॥ 24 ॥

लुब्धो न विसृजत्यर्थं नरो दारिद्र्यशङ्कया।
दातापि विसृजत्यर्थं 9तयैव ननु शङ्कया॥ 25 ॥

या विपत्तिर्धनापाये नवा भोगिवदान्ययोः।
प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा॥ 26 ॥
गृहमध्यनिखातेन धनेन रमते यदि।
स तु तेनानुसारेण रमते किं न मेरुणा॥ 27 ॥
अतिसञ्चयकर्तॄणां वित्तमन्यस्य कारणात्।
अन्यैः सञ्चीयते यत्नादन्यैश्च मधु पीयते॥ 28 ॥
विडम्बनैव पुंसि श्रीः परप्रणयपांसुले।
कान्तिं कामिह कुर्वीत कुणौ कटककल्पना॥ 29 ॥
कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम्।
दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः॥ 30 ॥
दैववशादुत्पन्ने सति विभवे यस्य नास्ति भोगेच्छा।
न च परलोक1समीहा स भवति धनपालको मूर्खः॥ 31 ॥

उपभोगकातराणां पुरुषाणामर्थसञ्चयपराणाम्।
2कन्यामणिरिव सदने तिष्ठत्यर्थः परस्यार्थे॥ 32 ॥

यदि भवति धनेन धनी 3क्षितितलनिहितेन 4भोगरहितेन।
तस्माद्वयमपि धनिनस्तिष्ठति नः काञ्चनो मेरुः॥ 33 ॥

5नन्दनरेन्द्रद्रविणैर्दुष्कृतमिव किमपि विहितमतिघोरम्।
वसुधातलोष्मपाको विरमति नाद्यापि यत्तेभ्यः॥ 34 ॥

6दृढतरनिबद्धमुष्टेः कोश7निषण्णस्य 8सहजमलिनस्य।
कृपणस्य कृपाणस्य च केवलमा9कारतो भेदः॥ 35 ॥

कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः।
जलसम्पदोऽम्बु10राशेर्यान्ति वशं 11सर्वदैव वडवाग्नेः॥ 36 ॥

प्राप्तानपि न लभते भोगान्भोक्तुं स्वकर्मभिः कृपणाः।
12मुखपाकः किल भवति द्राक्षापाके 13बलिभुजां हि॥ 37 ॥

अतिसाहसमतिदुष्करमत्याश्चर्यं च दानमर्थानाम्।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि॥ 38 ॥
केऽपि स्वभावलुब्धास्तीव्रतरां यातनामपि सहन्ते।
न तु संत्यजन्ति वित्तं मात्सर्यमिवाधमाः सततम्॥ 39 ॥
और्वा इवातिलुब्धा भवन्ति धनलवणवारिबहुतृष्णाः।
तृणलवमिव निजदेहं त्यजन्ति लेशं न वित्तस्य॥ 40 ॥
14अर्थिनि कवयति 15कवयति पठति च पठति स्तवोद्यते स्तौति।
पश्चाद्यामीत्युक्ते कृपणः 16प्रणतोऽञ्जलिं कुरुते॥ 41 ॥

दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः।
वयमपि किमिति न धनिनस्तिष्ठति नः काञ्चनो मेरुः॥ 42 ॥
धनिनोऽप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम्।
हन्ति न यतः पिपासामतः समुद्रोऽपि मरुरेव॥ 43 ॥
अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः।
कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव॥ 44 ॥
ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः।
केवलमर्जनरक्षणवियोगदुःखान्यनुभवन्ति॥ 45 ॥
याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य।
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः॥ 46 ॥
मा धनानि कृपणः खलु जीवंस्तृष्‌णयार्पयतु जातु परस्मै।
तत्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि॥ 47 ॥
लोक एष परलोकमुपेता हा विधाय निधने धनमेकः।
इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदय1द्दयचित्तः॥ 48 ॥

सञ्चितं क्रतुषु नोपयुज्यते याचितं गुणवते न दीयते।
तत्कदर्यपरिरक्षितं धनं चौरपार्थिवगृहेषु गच्छति॥ 49 ॥
वरममी तरवो वनगोचराः शकुनिसार्थविलुप्तफलश्रियः।
न तु धनाढ्यगृहाः कृपणाः फणानिहितरत्नभुजङ्गमवृत्तयः॥ 50 ॥
न निर्यियासन्ति कदर्यहस्ताद्धनानि पांसोरिव तैललेशाः।
दैवात्कदाचिद्विनियोक्तुरेव निर्गन्तुमिच्छन्त्यसुभिः सहैव॥ 51 ॥
सुसंवृतैर्जीवितवत्सुरक्षितैर्निजेऽपि देहे कृतयन्त्रणस्य च।
तवानुमार्गं व्रजतो भवान्तरे शठैर्धनैः पञ्चपदी न पूरिता॥ 52 ॥
अहो धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि।
व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित्प्रथयन्ति निर्वृतिम्॥ 53 ॥
फलं स्वेच्छालभ्यं प्रतिवनमखेदं2 क्षिति3रुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम्।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः॥ 54 ॥

यदेते साधूनामुपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषामपि तु निजवित्तव्ययभयम्।
सतः खेदो नास्मिन्परममनुकम्पैव भवति स्वमांसत्रस्तेभ्यः क इह हरिणेभ्यः परिभवः॥ 55 ॥
न शान्तान्तस्तृष्णा धनलवणवारिव्यतिकरैः क्षतच्छायः कायश्चिरविरसरूक्षाशनतया।
अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम्॥ 56 ॥
जहाति सहसाननं 4झटिति पृच्छति स्वागतं नमस्यति कृताञ्जलिः 5श्रुतिमनोहरं भाषते।
ददाति कुसुमं फलं शिथिलयत्यभीष्टां क्रियामहो न परिचीयते कृपणवञ्चनाचातुरी॥ 57 ॥

6अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण गिरितोलनं जलनिधेः पदा लङ्घनम्।
7प्रसुप्तहरिबोधनं 1निशितखड्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनस्यार्जनम्॥ 58 ॥

एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः।
अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति॥ 59 ॥
प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया।
मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति॥ 60 ॥
मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगादीशेन क्षीणबिम्बः सकलमुपचयं किं न नीतः क्षणेन।
मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैराढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यम्॥ 61 ॥


  1. सम्पाद्यते. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अवसाने. ↩︎ ↩︎ ↩︎ ↩︎

  3. अस्वस्थत्वम्. ↩︎ ↩︎ ↩︎ ↩︎

  4. विचाराशक्तिम्. ↩︎ ↩︎ ↩︎ ↩︎

  5. कृपणानाम्. ↩︎ ↩︎ ↩︎ ↩︎

  6. पीडैव. ↩︎ ↩︎ ↩︎ ↩︎

  7. अन्धस्य. ↩︎ ↩︎ ↩︎

  8. प्राणरहितस्य. प्रेतस्येति यावत्. ↩︎ ↩︎

  9. दारिद्र्यशङ्कयैव. ↩︎ ↩︎

  10. समुद्रस्य. ↩︎

  11. वाडवाग्नेः. ↩︎

  12. मुखरोगः. ↩︎

  13. काकानाम्. ↩︎

  14. याचके. ↩︎

  15. कवितां करोति. ↩︎

  16. नम्रः. ↩︎