शतेषु जायते शूरः सहस्रेषु च पण्डितः।
वक्ता दशसहस्रेषु दाता भवति वा न वा॥ 1 ॥
अदाता पुरुषस्त्यागी धनं संत्यज्य गच्छति।
दातारं कृपणं मन्ये मृतोऽप्यर्थं न मुञ्चति॥ 2 ॥
रक्षन्ति कृपणाः पाणौ द्रव्यं 1क्रव्यमिवात्मनः।
तदेव सन्तः सततमुत्सृजन्ति यथा मलम्॥ 3 ॥
याचितो यः प्रहृष्येत दत्त्वा च प्रीतिमान्भवेत्।
तं दृष्ट्वाप्यथवा श्रुत्वा नरः स्वर्गमवाप्नुयात्॥ 4 ॥
आकारमात्रविज्ञानसंपादितमनोरथाः।
ते धन्या ये न शृण्वन्ति दीनाः प्रणयिनां गिरः॥ 5 ॥
कर्णलङ्घिगुणोत्कर्षास्त्यागिनो धन्विनस्तथा।
निष्फलान्न विमुञ्चन्ति 2मार्गणान्संमुखे स्थितान्॥ 6 ॥
देहि देहीति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च।
आलोकयन्ति रभसादस्ति नास्तीति न क्वचित्॥ 7 ॥
युध्यन्ते पक्षिपशवः पठन्ति शुकसारिकाः।
दातुं शक्नोति यो वित्तं स शूरः स च पण्डितः॥ 8 ॥
अयं निजः3 परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम्॥ 9 ॥
लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः।
धन्यो बलिः स येनास्य भिक्षापात्रीकृतः करः॥ 10 ॥
कर्णस्त्वचं शिबिर्मांसं जीवं जीमूतवाहनः।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम्॥ 11 ॥
दाता नीचोऽपि सेव्यः स्यान्निष्फलो न महानपि।
जलार्थी 4वारिधिं त्यक्त्वा पश्य कूपं निषेवते॥ 12 ॥
पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम्।
सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा॥ 13 ॥
जरामरणदौर्गत्यव्याधयस्तावदासताम्।
जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम्॥ 14 ॥
अपि नाम स दृश्येत पुरुषातिशयो भुवि।
गर्वोच्छूनमुखा येन धनिनो नावलोकिताः॥ 15 ॥
पृथ्वी पृथ्वीगुणा मान्याः सन्ति भूपा विवेकिनः।
पराभवापदं यान्ति कस्मादुन्नतबुद्धयः॥ 16 ॥
परिपूर्णगुणाभोगगरिमोद्गार एव सः।
त्रिजगत्स्पृहणीयेऽस्मिन्न रुचिर्द्रविणेऽपि यत्॥ 17 ॥
त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः।
परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना॥ 18 ॥
नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना।
निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनाम्॥ 19 ॥
बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतम्।
सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषम्॥ 20 ॥
अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः।
यदुपक्रियमाणोऽपि प्रीयते न विलीयते॥ 21 ॥
सैव परं न विनश्यति तनुरपि1 या श्रीर्निवेशिता सत्सु।
अवशिष्यते हिमांशोः सैव कला या स्थिता शंभौ॥ 22 ॥
कियती पञ्चसहस्री कियती लक्षाप्यकोटिरपि कियती।
औदार्योन्नतमनसां रत्नवसी वसुमती कियती॥ 23 ॥
प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः।
यस्तु विहितोपकारादुपकारः सोऽधिको मृत्योः॥ 24 ॥
जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च।
तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम्॥ 25 ॥
यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य।
नित्यं प्रसारितकरः सवितापि भवत्यचक्षुष्यः॥ 26 ॥
नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते।
तद्यदि न लभ्यतेऽन्यन्मनस्विनः किमभिमानफलम्॥ 27 ॥
घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन।
उचितेऽनुचिते कर्मणि वृत्तिनिवृत्ती ममादत्ते॥ 28 ॥
कल्पस्थायि न जीवितमैश्वर्यं नाप्यते च यदभिमतम्।
लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य॥ 29 ॥
धनबाहुल्यमहेतुः कोऽपि निसर्गेण मुक्तकरः।
प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः॥ 30 ॥
द्रविणार्जनजः परिश्रमः फलितोऽप्यस्य जनस्य नीरसः।
द्रविणार्जनमात्मतुष्टये परमावर्जयितुं गुणार्जनम्॥ 31 ॥
नाक्षराणि पठता किमपाठि पाठितोऽपि किमु विस्मृत एव।
इत्थमर्थिजनसंशयदोलाखेलनां खलु चकार नकारः॥ 32 ॥
यः प्रशंसति नरो नरमन्यं देवतासु वरदासु सतीषु।
मुग्धधीर्धनलवस्पृहयालुस्तं नृशंसमहमाद्यमवैमि॥ 33 ॥
यथा शरीरं किल जीवितेन विनाकृतं काष्ठमिवावभाति।
तथैव तज्जीवितमप्यवैमि लोकोत्तरेण स्फुरितेन शून्यम्॥ 34 ॥
जातश्च नाम न विनङ्क्ष्यति चेत्ययुक्तमुत्पाद एव नियमेन विनाशहेतुः।
तुल्ये च नाम मरणव्यसनोपतापे मृत्युर्वरं परहितावहिताशयस्य॥ 35 ॥
उत्पादिता स्वयमियं यदि तत्तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः।
यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियो भवन्ति॥ 36 ॥
त्वयि सति शिवदातर्यस्म2दभ्यर्थितानामितरमनुसरन्तो दर्शयन्तोऽर्थिमुद्राम्।
3चरमचरणपातैर्दुर्ग्रहं दोग्धुकामाः 4करभमनुसरामः कामधेनौ स्थितायाम्॥ 37 ॥
इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्त एवामी द्वित्रा जरठजरठा यान्ति गणनाम्।
अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्मयस्तब्धो यावत्कलयति समग्रं तृणमिदम्॥ 38 ॥
स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी न बिभ्रति मनस्विनो यदमुना न तावत्क्षतिः।
अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्वहन्ति विजिगीषुतां किमिव तेऽनुकम्पास्पदम्॥ 39 ॥
भुज्यन्ते स्वगृहस्थिता इव सुखं यस्यार्थिभिः सम्पदः पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः।
यस्त्वात्मंभरिरुन्नतेऽपि विभवे हीनश्च विद्वत्तया तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु॥ 40 ॥
आधाराय धरावकाशविधयेऽप्याकाशमालोकने भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन।
इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम्॥ 41 ॥
नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादिताम्।
यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा सम्भवो नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी॥ 42 ॥
न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः।
शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणम्॥ 43 ॥
रुद्रोऽद्रिं जलधिं हरिर्दिविषदो दूरं विहायःश्रिता भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः।
लीना पद्मवने सरोजनिलया मन्येऽर्थिसार्थाद्भिया दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलम्॥ 44 ॥