लोभः प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च।
द्वेषक्रोधादिजनको लोभः पापस्य कारणम्॥ 1 ॥
लोभात्क्रोधः प्रभवति लोभात्कामः प्रजायते।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम्॥ 2 ॥
लोभात्क्रोधः प्रभवति क्रोधाद्द्रोहः प्रवर्तते।
द्रोहेण नरकं याति शास्त्रज्ञोऽपि विचक्षणः॥ 3 ॥
मातरं पितरं पुत्रं भ्रातरं वा सुहृत्तमम्।
लोभाविष्टो नरो हन्ति स्वामिनं वा सहोदरम्॥ 4 ॥
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।
तृषार्तो दुःखमाप्नोति परत्रेह च मानवः॥ 5 ॥
लोभाविष्टो नरो वित्तं वीक्षते न स चापदम्।
दुग्धं पश्यति मार्जारो यथा न लगुडाहतिम्॥ 6 ॥
प्रायेण धनिनामेव धनलोभो निरन्तरम्।
पश्य कोटिद्वयोपेतं लक्षाय प्रणतं धनुः॥ 7 ॥
लोभः सदा विचिन्त्यो लुब्धेभ्यः सर्वतो भयं दृष्टम्।
कार्याकार्यविचारो लोभविमूढस्य नास्त्येव॥ 8 ॥
सत्यप्रशमतपोभिः सत्यधनैः शास्त्रवेदिभिर्विजितः।
लोभोऽवटं प्रविष्टः कुटिलं हृदयं किराटीनाम्1॥ 9 ॥
स्नेहोपपन्न इति पूर्णदशाविशेषशाली स्वमात्मनि वसुप्रकरं निधाय।
लब्धोदये तमथ गृह्णति पद्मबन्धौ दीपा भवन्ति कलुषा बलवान्हि लोभः॥ 10 ॥
2यद्दुर्गा3टवीमटन्ति विकटं क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमथनक्लेशं कृषिं कुर्वते।
सेवन्ते कृपणं पतिं गदघटासंघट्टदुःसंचरं सर्पन्ति 4प्रधनं धनान्धितधियस्तल्लोभविस्फू5र्जितम्॥ 11 ॥