अनुकूले विधौ1 देयं यतः 2पूरयिता हरिः।
प्रतिकूले विधौ देयं यतः सर्वं हरिष्यति॥ 1 ॥
यद्ददाति यदश्नाति तदेव धनिनो धनम्।
अन्ये मृतस्य क्रीडन्ति दारैरपि धनैरपि॥ 2 ॥
यद्ददासि विशिष्टेभ्यो यच्चाश्नासि दिने दिने।
तत्ते वित्तमहं मन्ये शेषमन्यस्य रक्षसि॥ 3 ॥
त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः।
त्यागाज्जगति पूज्यन्ते पशुपाषाणपादपाः॥ 4 ॥
भवन्ति नरकाः पापात्पापं दारिद्र्यसंभवम्।
दारिद्र्यमप्रदानेन तस्माद्दानपरो भवेत्॥ 5 ॥
ग्रासादर्धमपि ग्रासमर्थिभ्यः किं न यच्छसि।
इच्छानुरूपो विभवः कदा कस्य भविष्यति॥ 6 ॥
गौरवं प्राप्यते दानान्न तु वित्तस्य सञ्चयात्।
स्थितिरुच्चैः पयोदानां पयोधीनामधः स्थितिः॥ 7 ॥
दरिद्रान्भर कौन्तेय मा प्रयच्छेश्वरे धनम्।
व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः॥ 8 ॥
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे।
देशे काले च पात्रे च तद्दानं सात्त्विकं विदुः॥ 9 ॥
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परीवाह इवाम्भसाम्॥ 10 ॥
दानोपभोगवन्ध्या या सुहृद्भिर्या न भुज्यते।
पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतमा भवेत्॥ 11 ॥
किं तया क्रियते लक्ष्म्या या वधूरिव केवला।
या न वेश्येव 1सामान्या पथिकैरुपभुज्यते॥ 12 ॥
आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः।
गतिरेकैव वित्तस्य दानमन्या विपत्तयः॥ 13 ॥
दानेन श्लाघ्यतां यान्ति पशुपाषाणपादपाः।
दानमेव गुणः श्लाघ्यः किमन्यैर्गुणकोटिभिः॥ 14 ॥
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य।
यो न ददाति न भुङ्क्ते तस्य 2तृतीया गतिर्भवति॥ 15 ॥
यो न ददाति न भुङ्क्ते सति विभवे नैव तस्य तद्द्रव्यम्।
3तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे॥ 16 ॥
दातव्यं भोक्तव्यं सति विभवे4 सञ्चयो न कर्तव्यः।
पश्येह 5मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये॥ 17 ॥
मीयतां कथमभीप्सितमेषां दीयतां द्रुतमयाचितमेव।
तं धिगस्तु कलयन्नपि वाञ्छमर्थिवागवसरं सहते यः॥ 18 ॥
प्रापितेन चटुकाकुविडम्बं6 लम्भितेन बहुयाचनलज्जाम्।
अर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्ब्य ददानः॥ 19 ॥
यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमर्थिजनाय।
याचनोक्तिविफलत्वविशङ्कात्रासमूर्च्छनचिकित्सितमेतत्॥ 20 ॥
अर्थिने न तृणवद्धनमात्रं किन्तु जीवनमपि प्रतिपाद्यम्।
एवमाह कुशवज्जलदायी द्रव्यदानविधिरुक्तिविदग्धः॥ 21 ॥
पङ्कसंकरविगर्हितमर्हं न श्रियः कमलमाश्रयणाय।
अर्थिपाणिकमलं विमलं तद्वासवेश्म वदधीत सुधीस्तत्॥ 22 ॥
दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि।
साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत्॥ 23 ॥
अर्थो विनैवार्थनयोपसीदन्नाल्पोऽपि धीरैरवधीरणीयः।
मान्येन मन्ये विधिना वितीर्णः स प्रीतिदायो बहुमन्तुमर्हः॥ 24 ॥
दानेन भूतानि वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम्।
परोऽपि बन्धुत्वमुपैति दानैर्दानं हि सर्वव्यसनानि हन्ति॥ 25 ॥
तुरगशतसहस्रं गोगजानां च लक्षं कनकरजतपात्रं मेदिनीं सागरान्ताम्।
विमलकुलवधूनां कोटिकन्याश्च दद्यान्नहि नहि सममेतैरन्नदानं प्रधानम्॥ 26 ॥
कामं वाचः कतिचिदफलाः सन्तु लोके कवीनां सन्त्येवान्या मधुरिपुकथाः संस्तवात्कामदोग्घ्र्यः।
वित्तं कामं भवतु विफलं दत्तमश्रोत्रियेभ्यः पात्रे दत्तैर्भवति हि धनैर्धन्यता भूरिदातुः॥ 27 ॥
देयं भो ह्यधने धनं सुकृतिभिर्नो संचितं 1सर्वदा श्रीकर्णस्य बलेश्च विक्रमपतेरद्यापि कीर्तिः स्थिता।
आश्चर्यं मधु दानभोगरहितं नष्टं चिरात्संचितं निर्वेदादिति पाणिपादयुगलं घर्षन्त्यहो मक्षिकाः॥ 28 ॥