उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः।
बालवैधव्यदग्धानां कुलस्त्रीणां कुचा इव॥ 1 ॥
हे दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन॥ 2 ॥
इह लोकेऽपि धनिनां परोऽपि स्वजनायते।
स्वजनोऽपि दरिद्राणां तत्क्षणाद्दुर्जनायते॥ 3 ॥
परीक्ष्य सत्कुलं विद्यां शीलं शौर्यं सुरूपताम्।
विधिर्ददाति निपुणः कन्यामिव दरिद्रताम्॥ 4 ॥
येनैवा1म्बरखण्डेन संवीतो निशि चन्द्रमाः।
तेनैव च दिवा भानुरहो दौर्गत्यमेतयोः॥ 5 ॥
चाण्डालश्च दरिद्रश्च द्वावेतौ सदृशाविह।
चाण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति॥ 6 ॥
अर्थेन तु विहीनस्य पुरुषस्याल्पमेधसः।
क्रियाः सर्वा विनश्यन्ति ग्रीष्मे कुसरितो यथा॥ 7 ॥
द्वाविमावम्भसि क्षेप्यौ गाढं बद्ध्वा गले शिलाम्।
धनिनं चाप्रदातारं दरिद्रं चातपस्विनम्॥ 8 ॥
अत्यन्तविभुखे2 दैवे व्यर्थे यत्ने च पौरुषे।
मनस्विनो दरिद्रस्य वनादन्यत्कुतः सुखम्॥ 9 ॥
3दूये कान्ताकरं वीक्ष्य4मणिकङ्कणवर्जितम्।
अतः परं 5परं दूये मणिकं6 7कणवर्जितम्॥ 10 ॥
रात्रौ जानुर्दिवा भानुः 8कृशानुः संध्ययोर्द्वयोः।
पश्य शीतं मया नीतं जानुभानुकृशानुभिः॥ 11 ॥
किं करोमि क्व गच्छामि कमुपैमि दुरात्मना।
दुर्भरेणोदरेणाहं प्राणैरपि विडम्बितः॥ 12 ॥
दुःखं दुःखमिति ब्रूयान्मानवो नरकं प्रति।
दारिद्र्यादधिकं दुःखं न भूतं न भविष्यति॥ 13 ॥
किं चान्यैः सुकुलाचारैः सेव्यतामेति पूरुषः।
धनहीनः स्वपत्नीभिस्त्यज्यते किं पुनः परैः॥ 14 ॥
किं वाच्यं सूर्यशशिनोर्दारिद्र्यं महतां पुरः।
दिनरात्रिविभागेन परिधत्तो 9यदम्बरम्॥ 15 ॥
मौर्ख्यं सर्वापदां निष्ठा का हि नापदजानतः।
तस्मिन्नप्यविषण्णो यः क्व सोऽन्यत्र विपत्स्यति॥ 16 ॥
यदि नाम कुले जन्म तत्किमर्थं दरिद्रता।
दरिद्रत्वेऽपि मूर्खत्वमहो दुःखपरम्परा॥ 17 ॥
कः स्वभावगभीराणां जानीयाद्बहिरापदम्।
बालापत्येन भृत्येन यदि सा न प्रकाश्यते॥ 18 ॥
सन्तोऽपि न विराजन्ते हीनार्थस्येतरे गुणाः।
आदित्य इव भूतानां श्रीर्गुणानां प्रकाशिनी॥ 19 ॥
वरं हि नरके वासो न तु दुश्चरिते गृहे।
नरकात्क्षीयते पापं कुगृहात्परिवर्धते॥ 20 ॥
नातः पापीयसीं कांचिदवस्थां शम्बरोऽब्रवीत्।
यस्यां नैवाद्य न प्रातर्भोजनं तात विद्यते॥ 21 ॥
न तथा बाध्यते राजन्प्रकृत्या निर्धनो जनः।
यथा भद्राणि संप्राप्य तैर्विहीनः सुखोचितः॥ 22 ॥
कुब्जस्य कीटखातस्य दावनिष्कुषितत्वचः।
तरोरप्यूषरस्थस्य वरं जन्म न चार्थिनः॥ 23 ॥
धर्मार्थकामहीनस्य परकीयान्नभोजिनः।
काकस्येव दरिद्रस्य दीर्घमायुर्विडम्बना॥ 24 ॥
शीतमध्वा कदन्नं च वयोतीताश्च योषितः।
मनसः प्रातिकूल्यं च जरायाः पञ्च हेतवः॥ 25 ॥
सुहृदां हि धनं भुक्त्वा कृत्वा प्रणयमीप्सितम्।
प्रतिकर्तुमशक्तस्य जीवितान्मरणं वरम्॥ 26 ॥
लज्जावतः कुलीनस्य याचितुं धनमिच्छतः।
कण्ठे पारावतस्येव वाक्करोति गतागतम्॥ 27 ॥
कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू।
म्रियमाणस्य चिह्नानि यानि तान्येव याचतः॥ 28 ॥
धन्यास्ते न पश्यन्ति देशभङ्गं कुलक्षयम्।
परचित्तगतान्दारान्पुत्रं च व्यसनातुरम्॥ 29 ॥
शेषबाष्यं तु काव्येन काव्यं गीतेन हन्यते।
गीतं तु स्त्रीविलासेन स्त्रीविलासो बुभुक्षया॥ 30 ॥
जीवन्त्यर्थक्षये नीचा याञ्चोपद्रववञ्चनैः।
कुलाभिमानमूकानां साधूनां नास्ति जीवनम्॥ 31 ॥
शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सन्मित्रम्।
मूर्खस्य दिशःशून्याः सर्वं शून्यं दरिद्रस्य॥ 32 ॥
पक्षविकलश्च पक्षी शुष्कश्च तरुः सरश्च जलहीनम्।
सर्पश्चोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रश्च॥ 33 ॥
अम्बा तुष्यति न मया न स्नुषया सापि नाम्बया न मया।
अहमपि न तया न तया वद राजन्तस्य1 दोषोऽयम्॥ 34 ॥
2पृथुकार्तस्वरपात्रं 3भूषितनिःशेषपरिजनं देव।
विल4सत्करेणुगहनं संप्रति सममावयोः 5सदनम्॥ 35 ॥
(4. विलसन्त्यः शोभमानाः करेणवो हस्तिन्यस्ताभिर्गहनं निबिडम्; (पक्षे बवयोः सावर्ण्यात्) बिले सीदन्तीति बिलसदः. बिलसद एव बलसत्का बिलवर्तिनो ये रेणवो धूलयस्तैर्गहनं व्याप्तम्.)
दारिद्र्यान्मरणाद्वा मरणं संरोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्र्यमनन्तरं दुःखम्॥ 36 ॥
तावत्सन्ति सहाया यावज्जन्तुर्न कृच्छ्रमाप्नोति।
अभिपतति शिरसि मृत्यौ कं कः शक्तः परित्रातुम्॥ 37 ॥
विकसामि रवावुदिते संकोचमुपैमि चास्तमुपयाते।
दारिद्र्यसरसि मग्नः पङ्कजलीलामनुभवामि॥ 38 ॥
घृतलवणतैलतण्डुलशाकेन्धनचिन्तयानुदिनम्।
विपुलमतेरपि पुंसो नश्यति धीर्मन्दविभवत्वात्॥ 39 ॥
वीणा वंशश्चन्दनं चन्द्रभासः शय्या यानं यौवनस्थास्तरुण्यः।
नैतद्रम्यं क्षुत्पिपासार्दितानां सर्वारम्भास्तण्डुलप्रस्थमूलाः॥ 40 ॥
दारिद्र्य भोस्त्वं परमं विवेकि1 गुणाधिके पुंसि सदानुरक्तम्।
विद्याविहीने गुणवर्जिते च मुहूर्तमात्रं न 2रतिं करोषि॥ 41 ॥
दारिद्र्य शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा।3
विप4न्नदेहे मयि 5मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम्॥ 42 ॥
एको हि दोषो 6गुणसंनिपाते निमज्जतीन्दोरिति यो7 बभाषे।
न तेन दृष्टं कविना समस्तं दारिद्र्यमेकं 8गुणकोटिहारि॥ 43 ॥
धनैर्विमुक्तस्य नरस्य लोके किं जीवितेनादित एव तावत्।
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति॥ 44 ॥
अहो नु कष्टं सततं प्रवासस्ततोऽतिकष्टः 9परगेहवासः।
कष्टाधिका नीचजनस्य सेवा ततोऽतिकष्टा धनहीनता च॥ 45 ॥
वरं वनं व्याघ्रगजेन्द्रसेवितं द्रुमालयः पत्रफलाम्बुभोजनम्।
तृणानि शय्या वसनं च वल्कलं न बन्धुमध्ये धनहीनजीवनम्॥ 46 ॥
यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते।
तदास्य मित्राण्यपि यान्त्यमित्रतां चिरानुरक्तोऽपि विरज्यते जनः॥ 47 ॥
दानं न दत्तं न तपश्च तप्तं नाराधितौ शंकरवासुदेवौ।
अग्नौ रणे वा न हुतश्च कायः शरीर किं प्रार्थयसे सुखानि॥ 48 ॥
फलाशिनो मूलतृणाम्बुभक्षा विवाससो निस्तरशायिनश्च।
गृहे विमूढा मुनिवच्चरन्ति तुल्यं तपः किं तु फलेन हीनम्॥ 49 ॥
अर्था न सन्ति न च मुञ्चति मां दुराशा त्यागान्न संकुचति दुर्ललितं मनो मे।
याञ्चा च ला10घवकरी स्ववधे च पापं प्राणाः स्वयं व्रजत किं 11प्रविलम्बितेन॥ 50 ॥
भग्नां वयं परिभवासिभिरुग्रधारैर्दारिद्र्यचण्डदहनेन नितान्तदग्धाः।
बन्धूपकारविषमित्थमपीह भुक्तं जीवाय एव रविजस्य किमस्ति निद्रा॥ 51 ॥
धनं यदि गतं गतं चरणयुग्मरेणूपमं धरा यदि गता गता कथय मे किमेतावता।
इदं पुनररुंतुदं1 धनिगणैरिदानींतनैर्दरिद्रगणनाविधौ यदहमङ्कपाते धृतः॥ 52 ॥
गते सुहृदि शत्रुतां सततनिर्विवेके प्रभौ गृहे कुगृहिणीवचः क्रकचदारिते वा हृदि।
महाजनविवर्जिते सदसि मानिनां श्रेयसे वरं मरणमेव वा शरणमन्यदेशान्तरम्॥ 53 ॥
अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति स्वं दारिद्र्यं वदति वसनं दर्शयत्येव जीर्णम्।
छायाभूतश्चलति न पुरः पार्श्वयोर्नैव पश्चान्निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः॥ 54 ॥
निवासश्चिन्तायाः परपरिभवो वैरमपरं जुगुप्सा मित्राणां स्वजनजनविद्वेषकरणम्।
वदं गन्तुं बुद्धिर्भवति च कलत्रात्परिभवो हृदिस्थः शोकाग्निर्न च दहति संतापयति च॥ 55 ॥
अये लाजानुच्चैः पथि वचनमाकर्ण्य गृहिणी शिशोः कर्णौ यत्नात्सु2पिहितवती दीनवदना।
मयि क्षीणोपाये यदकृत दृशावश्रुशबले तदन्तःशल्यं मे त्वमिव पुनरुद्धर्तुमुचितः॥ 56 ॥
विधातुर्द्वे कन्ये सुगतिरपरा दुर्गतिरभूत्तयोराद्यां धाता गुणकुलविहीनाय स ददौ।
ततः पश्चात्तापादिव सुगुणसज्जातमधुना कुलीनं विद्वांसं वरमिह वरेण्यं मृगयते॥ 57 ॥
न भिक्षा दुर्भिक्षे मिलति दुरवस्थाः कथमृणं लभन्ते कर्माणि द्विजपरिवृढान्कारयतु कः।
अदत्त्वैव ग्रासं ग्रहपतिरसावस्तमयते क्व यामः किं कुर्मो गृहिणि गहनो जीवनविधिः॥ 58 ॥
निरस्थन्नालीकं क्षुदुपहतसीदत्परिजनं विना दीपान्नक्तं सुखगहनसंरुद्धतिमिरम्।
अनाक्रान्तद्वारं प्रणयिभिरपूर्णोत्सवमहो गृहं कारातुल्यं भवति खलु दुःखाय गृहिणः॥ 59 ॥
सखे खेदं मा गाः कलय किल तास्ता निजकलाः स्वकीर्त्या वर्धस्व क्व नु खलु तवैतद्व्यवसितम्।
न तन्मोघत्यत्र स्फुरितमिति चेन्नैतदुचितं विचित्रोत्साहानां किमिदमियदेव त्रिभुवनम्॥ 60 ॥
दधति न जनास्तन्नैराश्याददृष्टविभूतयो यदुचितसुखभ्रंशाद्दुःखं निजच्युतसंपदः।
भवति हि तथा जात्यन्धानां कुतो हृदि वेदना नयनविषयं स्मृत्वा स्मृत्वा यथोद्धृतचक्षुषाम्॥ 61 ॥
3मारोदीश्चिरमेहि वस्त्ररुचिरान्दृष्ट्वाद्य बालानिभानायातस्तव वत्स दास्यति पिता ग्रैवेयकं4 वाससी5।
श्रुत्वैवं गृहिणीवचांसि निकटे 1कुड्यस्य निष्किंचनो2 निश्वस्याश्रुजलप्लवप्लुतमुखः पान्तः पुनः प्रस्थितः॥ 62 ॥
वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं रिक्तं भूतलमत्र नाथ भवतः पृष्ठे 3पलालोच्चयः।
दंपत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा लब्धं 4कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः॥ 63 ॥
.
वृद्धोऽन्धः पतिरेष 5मञ्चकगतः 6स्थूणावशेषं गृहं कालोऽभ्य7र्णजलागमः कुशलिनी वत्सस्य वार्तापि नो।
यत्नात्संचिततैलबिन्दुघटिका भग्नेति 8पर्याकुला दृष्ट्वा गर्भभरालसां निजवधूं9 श्वश्रूश्चिरं रोदिति॥ 64 ॥
नो सेवा विहिता गुरोरपि मनाङ्नो वा कृतं पूजनं देवानां विधिवन्न वा शिव शिव स्निग्धादयः सेविताः।
किं तु त्वच्चरणौ सरस्वति रसादाजन्मनः सेवितौ तस्मान्मां विजहाति सा भगवती शङ्के 10सपत्नी तव॥ 65 ॥
क्षुत्क्षामाः शिशवः शवा इव भृशं मन्दाशया बान्धवा लिप्ता 11जर्जरकर्करी 12जतुलवैर्नो मां तथा बाधते।
गेहिन्या त्रुटितांशुकं घटयितुं कृत्वा 13सकाकुस्मितं कुप्यन्ती प्रतिवेशिलोकगृहिणी सूचीं यथा याचिता॥ 66 ॥
दग्धं खाण्डवमर्जुनेन बलिना दिव्यैर्द्रुमैः सेवितं दग्धा वायुसुतेन रावणपुरी लङ्का पुनः स्वर्णभूः।
दग्धः 14पञ्चशरः पिनाकपतिना तेनाप्ययुक्तं कृतं दारिद्र्यं जनतापकारकमिदं केनापि दग्धं नहि॥ 67 ॥
उत्तिष्ठ क्षणमेकमुद्वह15 सखे दारिद्र्यभारं मम श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम्।
इत्युक्तं धनवर्जितस्य वचनं श्रुत्वा श्मशाने शवो दारिद्र्यान्मरणं वरं वरमिति ज्ञात्वैव तूष्णीं स्थितः॥ 68 ॥
भद्रे वाणि ममानने कुरु दयां वर्णानुपूर्व्या चिरं चेतः स्वास्थ्यमुपैहि याहि करुणे प्रज्ञे स्थिरत्वं व्रज।
लज्जे तिष्ठ पराङ्मुखी क्षणमहो तृष्णे पुरः स्थीयतां पापो यावदहं ब्रवीमि धनिनां देहीति दीनं वचः॥ 69 ॥
यो गङ्गामतरत्तथैव यमुनां यो नर्मदां 16शर्मदां का वार्ता सरिदम्बुलङ्घनविधौ यश्चार्णवांस्तीर्णवान्।
सोऽस्माकं चिरमास्थितोऽपि सहसा दारिद्र्यनामा सखा त्वद्दानाम्बुसरित्प्रवाहलहरीमग्नो 17न संभाव्यते॥ 70 ॥
दारिद्र्याद्ध्रि18यमेति ह्रीपरिगतः19 सत्वात्परिभ्रश्यते निःसत्त्वः परिभूयते परिभवान्निर्वेदमापद्यते1।
निर्विण्णः शुचमेति शोकनिहतो बुद्ध्यापरित्यज्यते निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्2॥ 71 ॥
शीतेनाध्युषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः शान्ताग्नेः स्फुटिताधरस्य धमतः क्षुत्क्षामकुक्षेर्मम।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता तत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी॥ 72 ॥
दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः।
सत्त्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते॥ 73 ॥
सङ्गं नैव हि कश्चिदस्य कुरुते संभाष्यते नादरात्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते।
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्॥ 74 ॥
पौरेभ्यो न भयं न दण्डपतनं त्रासो न वा भूपतेर्निःशङ्गं शयनं निशासु गमनं दुर्गेषु मार्गेषु च।
दारिद्र्यं सुखमेव केवलमहो दोषद्वयं वर्तते जाया निन्दति चाङ्गभोगसमये मुञ्चन्ति वै याचकाः॥ 75 ॥
वासश्चर्म विभूषणं शवशिरो भस्माङ्गलेपः सदा ह्येको गौः स च लाङ्गलाद्यकुशलः संपत्तिरेतादृशी।
इत्यालोच्य विमुच्य शंकरमगाद्रत्नाकरं जाह्नवी कष्टं निर्धनिकस्य जीवितमहो दारैरपि त्यज्यते॥ 76 ॥
मद्गेहे मुषकीव मूषकवधूर्मूषीव मार्जारिका मार्जारीव शुनी शुनीव गृहिणी वाच्यः किमन्यो जनः।
इत्यापन्नशिशूनसून्विजहतो दृष्ट्वा तु झिल्लीरवैर्लूता तन्तुवितानसंवृतमुखी चुल्ली चिरं रोदिति॥ 77 ॥
पीठाः3 कच्छपवत्तरन्ति सलिले संमार्जनी मीनवद्दर्वी सर्पविचेष्टितानि कुरुते संत्रासयन्ती शिशून्।
शूर्पार्धावृतमस्तका च गृहिणी भित्तिः प्रपातोन्मुखी रात्रौ पूर्णतडागसंनिभमभूद्राजन्मदीयं गृहम्॥ 78 ॥
शीलं शातयति श्रुतं शमयति प्रज्ञां निहन्त्यादरं दैन्यं दीपयति क्षमां क्षपयति व्रीडामपि ह्यस्यति।
तेजो जर्जरयत्यपास्यति मतिं विस्तारयत्यर्थितां पुंसः क्षीणधनस्य किं न कुरुते वैरं कुटुम्बग्रहः॥ 79 ॥
दारिद्र्येण समीरितापि बहुशः कण्ठं समालम्बते कण्ठात्कष्टशतैः कथं कथमपि प्राप्नोति जिह्वातलम्।
जिह्वाकीलककीलितेव सुदृढं तस्मान्न निर्यात्यसौ वाणी प्राणपरिक्षयेऽपि महतां देहीति नास्तीति च॥ 80 ॥
दृष्टं दुर्जनचेष्टितं परिभवो लब्धः समानाज्जनात्पिण्डार्थे धनितां कृतं श्वलडितं भुक्तं कपालेष्वपि।
पद्भ्यामध्वनि संप्रयातमसकृत्सुप्तं तृणप्रस्तरे यच्चान्यत्र कृतं कृतान्त कुरु हे तत्रापि सज्जा वयम्॥ 81 ॥
आसे चेत्स्वगृहे कुटुम्बभरणं कर्तुं न शक्तोऽस्म्यहं सेवे चेत्सुखसाधनं मुनिवनं मुष्णन्ति मां तस्करः।
श्वभ्रे चेत्स्वतनुं त्यजामि नरकाद्भीरात्महत्यावशान्नो जाने करवाणि दैव किमहं मर्तुं न वा जीवितुम्॥ 82 ॥
मा भूज्जन्म महाकुले तदपि चेन्मा भूद्विपत्सापि चेन्मा भूद्भूरि कलत्रमस्ति यदि तन्मा भूद्दयार्द्रं मनः।
तच्चेदस्ति तदस्तु मृत्युरथ चेत्तस्यापि नास्ति क्षणस्तज्जन्मान्तरनिर्विशेषसदसद्देशान्तरेऽस्तु स्थितिः॥ 83 ॥
यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति यैश्चात्यन्तदयापरैर्न विहिता वन्ध्यार्थिनां प्रार्थना।
ये चासन्परदुःखदुःखितधियस्ते साधवोऽस्तं गताश्चक्षुः संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते॥ 84 ॥
सक्तूञ्छोषयति प्लुतान्प्रतिकरोत्याक्रन्दतो बालकान्प्रत्यासिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति।
धृत्वा मूर्ध्नि पुराणशूर्पशकलं शून्ये गृहे व्याकुला किं तद्यन्न करोति दुर्गतवधूर्देवे भृशं वर्षति॥ 85 ॥
दारिद्र्यक्षितिपः स मे निजपतिस्तस्य प्रसादादभूद्याञ्चा जीवनमम्बरं दश दिशो वासश्च देवालये।
अस्मद्वैरिणि लब्धसंगतिरिति त्वय्याश्रये कुप्यता मद्वृत्तिं विनियोजितास्त्वदरयः का नाम वृत्तिर्मम॥ 86 ॥
आसीत्ताम्रमयं शरीरमधुना सौवर्णवर्णं गतं मुक्ताहारलताश्रुबिन्दुनिवहैर्निः-श्वस्य मे कल्पिता।
स्वल्पं स्वल्पमनल्पकल्पमधुना दीर्घं वयः कल्पितं स्वामिन्दुःख भवत्प्रसादवशतः किं किं न लब्धं मया॥ 87 ॥