२९ धनिप्रशंसा

धनवान्बलवाल्ँ लोके सर्वः सर्वत्र सर्वदा।
प्रभुत्वं धनमूलं हि राज्ञामप्युपजायते॥ 1 ॥
वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धाश्च ये परे।
ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः॥ 2 ॥
न सा विद्या न तच्छीलं न तद्दानं न सा कला।
अर्थार्थिभिर्न तच्छौर्यं धनिनां यन्न कीर्त्यते॥ 3 ॥
पतन्ति खड्गधारासु विशन्ति 1मकरालयम्।
किं न कुर्वन्ति सुभगे कष्टमर्थार्थिनो जनाः॥ 4 ॥

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः॥ 5 ॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः।
यस्यार्थाः स पुमाल्ँलोके यस्यार्थाः स च पण्डितः॥ 6 ॥
को नाम नानुवृत्तिं सुमहानपि धनवतः कुरुते।
वित्तेशभवनभित्तेः समीपमुपसेवते शंभुः॥ 7 ॥
हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य।
अप्य2तिपरुषमसत्यं पूज्यं वाक्यं समृद्धस्य॥ 8 ॥

वैभवभाजां दूषणमपि भूषणपक्ष एव निक्षिप्तम्।
गुणमात्मनामधर्मं द्वेषं च गृणन्ति 3काणादाः॥ 9 ॥

वाणी दरिद्रस्य 4शुभा हितापि ह्यर्थेन शब्देन च संप्रयुक्ता।
न शोभते वित्तवतः समीपे भेरीनिना5दोपहतेव वीणा॥ 10 ॥

यादृशि तादृशि वित्तसनाथे पञ्च पिशाचशतानि वसन्ति।
यानि पुनर्निवसन्ति महीशे तानि न केनचिदाकलितानि॥ 11 ॥
न विद्यया नैव कुलेन गौरवं जनानुरागो धनिकेषु सर्वदा।
6कपालिना मौलि7धृतापि जाह्नवी प्रयाति रत्नाकरमेव सत्वरम्॥ 12 ॥

गङ्गां च धारयति मूर्ध्नि सदा कपाली सा तस्य चुम्बति मुखं न कदाचिदेव।
रत्नाकरं प्रति चुचुम्ब सहस्रवक्त्रैर्गङ्गादयो युवतयः सधनानुकूलाः॥ 13 ॥
धिगस्त्वेतां विद्यां धिगपि कवितां धिक्सुजनतां वयो रूपं धिग्धिग्धिगपि च यशो निर्धनवतः।
असौ जीयादेकः सकलगुणहीनोऽपि धनवान्बहिर्यस्य द्वारे तृणलवनिभाः सन्ति गुणिनः॥ 14 ॥
परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम्।
अतश्चानैकान्त्याद्गुरुलघुतयार्थेषु धनिनामवस्था वस्तूनि प्रथयति च संकोचयति च॥ 15 ॥


  1. समुद्रम्. ↩︎

  2. अतिकठोरम्. ↩︎

  3. वैशेषिकशास्त्रप्रवर्तकाः. ↩︎

  4. कल्याणी. ↩︎

  5. दुन्दुभिध्वनिलुप्तेव. ↩︎

  6. शंकरेण. ↩︎

  7. मस्तकः. ↩︎