अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते।
जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः॥ 1 ॥
लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम्।
शेषे धराभरक्लान्ते शेते नारायणः सुखम्॥ 2 ॥
1वरं हालाहलं पीतं सद्यः प्राणहरं विषम्।
न तु दृष्टं धनान्धस्य 2भ्रूभङ्गकुटिलं मुखम्॥ 3 ॥
3भक्ते द्वेषो 4जडे प्रीतिररुचि5र्गुरुलङ्घनम्।
मुखे च 6कटुता नित्यं धनिनां ज्वरिणामिव॥ 4 ॥
(6. जडेषु मूर्खेषु प्रीतिः; (पक्षे डलयोः सावर्ण्यात्) जले रुचिः.)
आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे7 पथि।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव॥ 5 ॥
आजन्मानुगतेऽप्यस्मिन्नाहे विमुखमम्बुजम्।
प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम्॥ 6 ॥
धनं तावदसुलभं लब्धं कृच्छ्रेण रक्ष्यते।
लब्धनाशो यथा मृत्युस्तस्मादेतन्न चिन्तयेत्॥ 7 ॥
जनयन्त्यर्जने दुःखं तापयन्ति विपत्तिषु।
मोहयन्ति च संपत्तौ कथमर्थाः सुखावहाः॥ 8 ॥
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि।
आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान्॥ 9 ॥
राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 10 ॥
धनाशया खलीकारः कस्य नाम न जायते।
दूरादामिषलोभेन वध्यते खेचरः8 खगः॥ 11 ॥
बधिरयति कर्णविवरं वाचं मूकयति नयनमन्धयति।
विकृतयति गात्रयष्टिं संपद्रोगोऽय9मद्बुतो राजन्॥ 12 ॥
लक्ष्म्या परिपूर्णोऽहं न भयं मेऽस्तीति मोहनिद्रैषा।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकासूनोः1॥ 13 ॥
2अर्जुनीयति यदर्जने जनो वर्जनीयजनतर्ज3नादिभिः।
4 मङ्क्षु नश्यति चिराय संचिता वञ्चिता जगति के न संपदा॥ 14 ॥
वरमसिधारा तरुतलवासो वरमिह भिक्षा वरमुपवासः।
वरमपि घोरे नरके पतनं न च धनगर्वितबान्धवशरणम्॥ 15 ॥
तानीन्द्रियाण्यविकलानि5 मनस्तदेव सा बुद्धि6रप्रतिहता वचनं तदेव।
7अर्थोष्मणा विरहितः पुरुषः स एव ह्यन्यः क्षणेन भवतीति विचित्रमेतत्॥ 16 ॥
10आपद्गतं हससि किं द्रविणान्ध मूढ लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम्।
एतान्प्रपश्यसि घटाञ्जलयन्त्रचक्रे रिक्ता भवन्ति भरिता भरिताश्च रिक्ताः॥ 17 ॥
धनमपि परदत्तं दुःखमौचित्यभाजां भवति हृदि तदेवानन्दकारीतरेषाम्।
मलयदजरसबिन्दुर्बाधते नेत्रमन्तर्जनयति च स एवाह्लादमन्यत्र गात्रे॥ 18 ॥
लभेद्यदयुतं11 धनं तदधनं धनं यद्यपि लभेत 12नियुतं धनं निधनमेव तज्जायते।
तथा 13धनपरार्धकं तदपि भावहीनात्मकं 14यदक्षरपदद्वयान्तरगतं धनं तद्धनम्॥ 19 ॥
दायादाः स्पृहयन्ति तस्करगणा 8मुष्णन्ति भूमीभुजो दूरेण 9च्छलमाकलय्य 1हुतभुग्भस्मीकरोति क्षणात्।
अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ति ध्रुवं 2दुर्वृत्तास्तनया नयन्ति 3निधनं धिग्धिग्धनं तद्बहु॥ 20 ॥
-
भक्ताः सेवकास्तेषां द्वेषः; [पक्षे] भक्तमन्नं तद्द्वेषः. ↩︎ ↩︎ ↩︎
-
गुरूणां पित्रादीनामुल्लङ्घने; [पक्षे] गुरु यल्लङ्घनमुपवासस्तस्मिन्. ↩︎ ↩︎
-
विपद्ग्रस्तम्. ↩︎
-
दशसहस्रम्; [पक्षे] अकारेण युतं धनम्. अधनमित्यर्थः. ↩︎
-
लक्षसंख्याकम्; [पक्षे] निशब्देन युतं धनम्. निधनमित्यर्थः. ↩︎
-
धनस्य परार्धं संख्याविशेषः; [पक्षे] धनशब्दसंबन्धि परमर्धं ‘न’ इति तच्च भावहीनात्मकम्. अभावबोधकमित्यर्थः. ↩︎
-
अक्षरः परमात्मा तच्चरणद्वयान्तरे गतं प्राप्तं यद्धनं मोक्षरूपं धनं तदेव धनम्; [पक्षे] अक्षरयोः पकारदकारात्मकयोर्मध्यवर्ति धनं इत्येतदक्षरद्वयरूपम्. धनमित्यर्थः. ↩︎